Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
श्लो० १] क्षणिकवादपरामर्शः
१०७ शिकसप्रणयप्रणयिरिरंसाऽऽतुरप्रणयिनीमनोविनोद सोदरत्वात् । तथाऽकृतस्यागमः फलकालोपस्थितिः । यद्धि कुम्भकारादिना घटादिकं निरमायि तेन तु दुर्जनमनःप्रणयपरंपरावत्तदानीमेव दध्वंसे, तथा च जलाहरणादिक्रियासु व्याप्रियमाणेन तेनाऽकृतेनैवोपस्थातव्यमिति दूषणद्वयमिदं बौद्धबुद्धयुपनीतकाकुव्याकुलीकरणप्रवणं प्रसज्येतेति भावः । इदमप्यत्र विचार्यते—किं क्षणभिदेलिममेव भुवनमन्यादृशं वा ?
[क्षणिकवादिबौद्धपूर्वपक्षः ] तत्र बौद्धः- "मुद्गरादिसमवधानदशायां घटादेर्यन्नश्वरस्वरूपं वरिवर्ति तत्प्रागप्यवर्तिष्ट न वा ? आयेऽनायासेनैव सिद्धा क्षणभङ्गुरता, नश्वरस्वभावस्योत्पत्तिसमनन्तरमेव नाशसम्भवात् । अन्त्ये स्वभावहान्यापत्तिः । किश्च, तत्तत्क्षणावच्छेदेन तत्तद्घटादेः प्रध्वंसाऽप्रतियोगित्वकल्पनामपेक्ष्य तत्ततक्षणानां तत्तद्घटध्वंसाऽनाधारत्वकल्पनामपेक्ष्य वा तत्तत्क्षणावच्छेदेन तत्तद्घटादेः प्रध्वंसप्रतियोगित्वस्य तत्तत्क्षणानां तत्तद्घटध्वंसाऽऽधारत्वस्य वा कल्पनैव लधीयप्ती । न चैवमुत्पत्तिक्षणेऽपि नाशप्रसङ्गः, असतो नाशाऽयोगात् । वस्तुतस्तत्तत्क्षणेष्वेवास्तु घटत्वपटत्वादिकम् । न च संकरो, वासनाकृतविशेषेण तन्निरासात् । अत एव न स्थितिकाले 'घट उत्पन्नो, घटो ध्वस्त' इत्यादिप्रतीतिः, विशिष्टोत्पाद-ध्वंसयोर्विशेषणसत्त्वविरुद्धत्वात् । न च 'स एवायं घट' इत्यभेदप्रत्यभिज्ञा क्षणिकत्वे बाधिका, तस्यास्तज्जातीयाभेदविषयकत्वात् । किञ्च नित्यस्य सतो वस्तुनः सर्वदाऽर्थक्रियाकारित्वापत्तिः, स्वतः सामर्थ्याऽसामर्थ्याभ्यां परोपकाराऽनवकाशात् । 'स्वतः समर्थमपि तत्कारणान्तरसहकृतमेव कार्यमुपदधाती'ति चेत् ? न, कार्यानुपधानसमये सामर्थ्य मानाऽभावात्, कुर्वद्रूपस्यैव कारणत्वात् । सामग्या उपधायकत्वे तत्रापि सामग्यन्तरपरम्परापेक्षणेऽनवस्थाप्रसङ्गात् । यावत्कारणसमवधानरूपायास्तस्या अपेक्षया कुर्वद्रूपस्यैवोपधानव्याप्यत्वौचित्याच्च । तस्माद्वस्तुनो दूरयुक्तिमार्गयियासुनः क्षणविश्राम एवोचित" इति ।
[क्षणिकवादनिरसनम् ] तदतिजरत्तरं, विनाशस्वभावशालित्वेन क्षणिकत्वे स्थितिस्वभावशालित्वेन नित्यत्वस्याप्यापत्तेः । 'स्थितिप्रत्ययो भ्रान्तो, विनाशप्रत्ययः पुनः प्रमे'ति तु निजप्रणयिनीमनोविनोदमानं, उभयत्र तुल्ययोगक्षेमत्वात् । तस्मात्पर्यायात्मना सर्वमनित्यं सदपि द्रव्यात्मना नित्यमेवेत्यकामेनापि प्रतिपत्तव्यम् । न च ध्वंसप्रतियोगित्वाऽकल्पने तदभावकल्पनमवलम्ब्य गौरवमुद्भाव्यमतिप्रसङ्गात् । वासनायाश्च ध्रुवत्वे नामान्तरेण द्रव्यमेवाऽभ्युपेतवान् भावान् कृतान्तञ्च कोपितवान् । अध्रुवत्वे तु किमनयाऽजागलस्तनायमानया ! कुर्वद्रूपत्वेन तु न कारणता, तस्य घटोत्पत्तेः प्रागपरिचयादिष्टसाधनताज्ञानविलम्बाद् घटार्थिनो दण्डादौ प्रवृत्त्यनापत्तेरिति दिन।
अथ 'जन्यस्य सतो नाशसामग्रीसत्त्वान्नाश एव सम्भवी, तत्र द्रव्यनाशं प्रति निमित्तेतरकारणनाशत्वेन कारणता, क्वचित्समवायिकारणनाशात्, क्वचिदसमवायिकारणनाशाच्च कार्य

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182