Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 167
________________ १०६ बृहत्स्याद्वादरहस्ये इत्थं च-"द्रव्यमानं सर्वथा नित्यमस्तु । न चैवं तन्तूनामेव पटत्वा'तन्तौ पट'इति प्रत्ययो न स्यादिति वाच्यं, फलबलेन विलक्षणसंयोगवत्त्वरूपपटत्वादिविशिष्टाधारताऽवच्छेदकत्वस्य विलक्षणसंयोगवत्त्वरूपतन्तुत्वे स्वीकारात् । अत एव न तन्तु–पटपदयोः पर्यायतापि, विलक्षणसंयोगवत्त्वरूपशक्यतावच्छेदकभेदात् । 'तन्तुसंयोगात्पट उत्पन्न' इति प्रतीतिस्तु भ्रम एव । 'पट उत्पन्न' इत्यादिप्रतीतिस्तु पटत्वादिघटकसंयोगोत्पादमात्रमवगाहते । पट इत्यत्रैकत्वं पुनरौपचारिकम् । 'तन्तुः पट' इति प्रतीतिस्तु 'वृक्षो वनमि'तिवदेव नोदेति । 'पटस्तन्तव'इति प्रतीतिस्त्वेकत्वधर्मितावच्छेदककबहुत्वप्रकारिका सतीच्छाविशेषमपेक्षते । 'एकत्र द्वयमिति न्यायेन तदन्वयबोधापादने शब्दाऽसाधुत्वमेव वेति" पूर्वपक्षसंक्षेपः । अत्रोच्यते । जन्यसाक्षात्कारजनकतावच्छेदकसंयोगवृत्तिजात्यन्तरकल्पने परस्य गौरवं, मनोऽन्यमूर्तरूपसमवायिकारणकार्यताऽवच्छेदकतया जन्यद्रव्यत्वघटकसंयोगमात्रवृत्तिजात्यन्तरस्याऽऽवश्यकतया तस्यास्तत्स्थानाभिषेकाऽनौचित्यात् । अन्यथाऽऽकाशादौ जन्यद्रव्यत्वघटकसंयोगापत्ते?निवारत्वात् । किञ्चोक्तवैजात्यवदवयवसंयोगस्यात्मन्यसम्भवाद् व्यभिचार इति विजातीयैकत्वस्यैव तद्धेतुत्वौचित्यमिति । किञ्च पटत्वस्य विजातीयसंयोगरूपत्वे तन्निर्विकल्पकाऽसम्भवेनाऽऽद्यपटत्वविशिष्टप्रत्यक्षानुपपत्तिस्तन्त्वादिभेदग्रहं विनाऽनुभूयमानपटत्वादिप्रतीत्यपलापाऽऽपत्तिश्च । अपि चैवं दण्डादौ घटसाधनताज्ञानेन प्रवृत्तिर्न स्यात् । ___अथ विजातीयसंयोगत्वमेव घटत्वं, युक्तं चैतत् , कथमन्यथा घटत्वस्य जातित्वं, मृत्त्व-स्वर्णत्वादिना सांकर्यात् ! न च कुलालादिजन्यतावच्छेदकतया मृत्त्वस्वर्णत्वादिव्याप्यतनानात्वमेव युक्तं, अनुगतधीस्तु कथञ्चित्सौसादृश्याद् , घटपदं त्वक्षादिपदवन्नानार्थकमिति वाच्यम् , कुम्भकारादेर्विजातीयकृतिमत्त्वेन तत्त्वे घटत्वस्यैकत्वौचित्यादिति चेत् ? न, एवं सत्यपि घटवति भूतले 'संयोगेन घटो नास्तीति प्रतीतेः प्रमात्वापाताद, 'घटः पटसंयुक्त' इति प्रतीतेरप्रमात्वापाताच्च । वस्तुतोऽवयवाऽवयविनोरभेदेऽपि यौक्तिक एव भेदः, सभवायिस्थानीयतादात्म्यस्य भेदानुल्लचित्वात् । न च तदात्मैव तदात्म्यमिति तत्स्थानीयमेव(त)न्न तु समवायिस्थानीयमिति वाच्यम्, सर्वथा तदात्मनस्तद्रूपत्वेऽपि कथश्चित्तदात्मनः समवायिस्थानीयस्यैव युक्तत्वात्परमार्थतो भेदाभेद एव समवायस्थानीय इति प्रागुक्तं युक्तमिति दिग् । [सत्त्वस्याऽनित्यत्वपक्षे दोषाविर्भावः ] ___ अथाऽनित्यत्वैकान्तपक्षेऽपि दोषमाविर्भावयन्ति-स्यातामिति । एकान्तनाशे=नित्यत्वाऽसम्भिन्ननाशे, कृतस्य नाशोऽकृततुल्यता । बौद्धमते हि वस्तुनः सर्वस्य क्षणिकत्वादुत्पत्तिसमनन्तरमेव घटस्य नाश इति जलाहरणादिफलाऽभाजनीभूतस्य तस्य सङ्गतलघुप्रोषितपारदे

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182