Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
प्रलो..]
पुण्यपाप-बन्धमोक्षानुपपत्तिः रन्य एवैति मतमपास्तम्, कर्भािगसमयपर्यन्तमनवस्थानात्, अन्यकृतस्याऽन्येन भोगेऽतिप्रसङ्गात्, कालरूपसन्तानकृतैक्यस्याप्यन्यसाधारण्यात् सर्वकालानुगतैकाऽतिरिक्तसन्तानाभ्युपगमे फलतो नित्यात्मन एवाऽभ्युगमापाताश्चेति ॥२॥ द्वैतीयिकः किल(:)श्लोकः, प्रस्तुतेऽत्र जिनस्तवे । व्याख्यापद्धतिमानिन्ये यशोविजयधीमता ॥१॥
अत्रैव पक्षद्वये दूषणान्तरं क्रमशोऽतिदेशयन्ति स्म "पुण्यपाप" इत्यादिना 'क्रमाक्रमाभ्यामित्यादिना च ।
पुण्यपापे बन्धमोक्षौ, न नित्यैकान्तदर्शने । पुण्यपापे बन्धमोक्षो नाऽनित्यैकान्तदर्शने ॥३॥ क्रमाक्रमाभ्यां नित्यानां युज्यतेऽर्थक्रिया न हि । एकान्तक्षणिकत्वेऽपि युज्यतेऽर्थक्रिया न हि ॥४॥
[नित्यात्मवादे पुण्यपापयोरसङ्गतिः] एकान्तनित्यात्मवादिमते हि पुण्यपापयोरसम्भवः। ते हि "यागब्रह्महत्यादीनां क्षिप्रभंगुराणां स्वर्गनरकादिकं प्रति श्रुतिबोधितकारणतायाः फलपर्यन्तव्यापारव्याप्ततया तत्र व्यापारस्याऽन्यस्याऽसम्भवात्परिशेषाददृष्टसिद्धिः । न च यागादिध्वंसेनैव निर्वाहः, तस्य फलाऽनाश्यत्वात् , फलसन्तानस्य कदाचिदप्यनुपरमप्रसंगात् । न चापूर्वस्यापि प्रथमस्वर्गादिनैव नाशात्फलसन्तानो न निर्वहेदिति वाच्यं, तस्य चरमफलनाश्यत्वाऽभ्युपगमात् । चरमत्वं च स्वसमानजातीयप्रागभावाऽसमानकालीनत्वादिकं जातिविशेषो वा । न च ज्योतिष्टोमादिजन्यतावच्छेदिकया सांकर्य, तत्तव्याप्यचरमत्वस्य मिन्नस्यैव स्वीकारात् । तच्चादृष्टमात्मनो गुणरूपं विहितनिषिद्धक्रियाजन्यमात्मनः सर्वथा भिन्नमि"त्याहुः।
दसत्-यगादिव॑सेनैव तदन्यथासिद्धेः । न चोक्तदोषानतिवृत्तिरपूर्वाभ्युपगमेऽपि तद्वृत्तिलामकालस्यैव फलोत्पत्तिनियामकत्वेन ममापि कालविशेषस्यैव फलसन्ताननियामकत्वेनाऽनतिप्रसंगात् । न च कीर्तनादिनाश्यत्वेनापूर्वसिद्धिरावश्यकी कीर्तनाऽभाववत्कर्मत्वेन पृथगेव वा कतिनाभीवस्य विजातीयसुखत्वावच्छिन्नं प्रति हेतुत्वात् । यत्तु-निर्व्यापारस्यैव यागादेरव्यवहितत्वांशत्यागेन कारणेताग्रहसम्भवान्यापारतया नाऽपूर्वसिद्धिरिति-तन्न, अव्यवहितपूर्वसमयावच्छे. देन कार्यवति यदभावो ज्ञायते तत्रैव कारणताबुद्धयनुदयेन तद्गर्भाया एव कारणताया युक्तत्वादिति स्वतन्त्राः ।
_ [जैनमते अदृष्टस्वरूपम् ] अस्मज्जातीयाः पुनरित्थमाचक्षते यत्स्वतन्त्रप्राप्यत्वेनात्मपरिणामरूपमेव भावकर्माऽपरपर्यायमदृष्ट कल्पयितुमुचितं; न पुनरतिरिक्त, धर्मिकल्पनातो धर्मकल्पनाया लघीयस्त्वात् । तदुप

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182