Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 164
________________ रळो०१] प्रागभावविमर्शः अभावपदस्य प्रागभावपरतया क्त्वार्थे तदाश्रये भावयोगित्वस्य विशिष्टे वैशिष्ट्यमिति रीत्याऽन्वयात्प्रागभावप्रतियोगित्वस्य पर्यवसितस्य तस्य प्रागभावेऽव्याप्तेश्च । [प्रागभावविषये मीमांसकमतिः] अत्र मीमांसकानुयायिनः-प्रागभाव एव मानाभावः । न च 'घटो भविष्यती'त्याधध्यक्ष मेव तत्र मानं तस्य वर्तमानकालानन्तरकालोत्पत्तिविषयत्वात् । न चोत्पन्न-पुनरुत्पादवारणाय तादात्म्येन कार्यत्वावच्छिन्ने प्रतियोगितया प्रागभावत्वेन हेतुत्वात्तत्सिद्धिरिति वाच्यं, जन्यद्रव्यत्वाद्यवच्छिन्नं प्रति द्रव्यत्वावच्छिन्नाऽभावादेर्हेतुत्वात्, अव्याप्यवृत्तिकार्ये समानावच्छेदकतया तदभावस्य हेतुत्वेनाऽदोषात्, निर्विकल्पकत्वस्य कार्यताऽनवच्छेदकत्वे चतुर्थक्षणे निर्वि. कल्पकापत्तेरसम्भवात् । वस्तुतः सामग्रीसमयध्वंसाधिकरणध्वंसाऽनधिकरणत्वे सति सामग्रीसमयध्वंसाधिकरणत्वस्यैवोत्पत्तिव्याप्यत्वं नान्यादृशस्य सामग्रयव्यवहितोत्तरत्वस्याऽप्रयोजकत्वादिति न द्वितीयादिक्षणेषु तदापत्तिः । यत्तु-लाघवेनाऽभावांशमप्रवेश्य जन्यत्वावच्छिन्न प्रत्येव प्रतियोगित्वेन हेतुत्वात्प्रागभावसिद्धिरिति, तदसत्, अत्यन्ताभावेन तदजनने व्यभिचारात्, प्रतियोगिनो नाशहेतुत्वस्यान्यत्र दूषितत्वाच्च । ननु शततन्तुषु भाविनः पटस्य द्विचतुरादितन्तुसंयोगेनोत्पत्यापत्तिवारणाय तत्पटप्रागभावव्याप्ययावत्संयोगत्वेन तत्पटत्वावच्छिन्नहेतुत्वात्प्रागभावसिद्धिरिति चेत् ? न, तत्पटव्याप्ययावत्संयोगत्वेन हेतुतया तदापत्तिवारणात् । वस्तुतः कालिक सम्बन्धेन चरमसंयोगस्य विशिष्य हेतुत्वादेव न कालिकातिप्रसङ्ग इति । ननु-"तथापि देशनियमाय प्रागभावसिद्धिः, शततन्तुकपटनाशेन यत्र पञ्चाशत्तन्तुकपटद्वयोत्पत्तिस्तत्र पञ्चाशत्तन्तूनां, यत्र च शततन्तूनां युगपत्संयोगैः शततन्तुकोत्पत्तिस्तत्र तावत्संयोगानां विशिष्य हेतुत्वे गौरवात् । न चाधे चरमसंयोगशततन्तुकनाशयोः स्वसमानाधिकरणान्यतमत्वसंसर्गेण, अन्त्ये च तावत्संयोगमात्रवृत्तिजात्या तत्कालावच्छिन्नान्यतमत्वसंसर्गेण हेतुत्वान्नोक्तापत्ती इति वाच्यम्, आकाशाधुदासीनमादायान्यतमत्वस्य नानात्वात् । अत एव बहुत्वविशेषस्य हेतुत्वमपि परास्तं, अवयविपरिमाणार्थमतीन्द्रियस्येश्वराऽपेक्षाबुद्धिजन्यस्य तस्य वाय्वादौ सम्भवतोऽप्याकाशादिकमादाय नानात्वात् । न च 'तत्कालावच्छिन्नतद्घटाधवच्छिन्नविशेष्यतयाऽनतिप्रसक्तस्योपादानप्रत्यक्षस्य विशिष्य हेतुत्वादुक्तदोषोद्धारः,' इच्छा कृतिभ्यां विनिगमनाविरहात् । न च ज्ञानेच्छाकृतिव्यासक्तावच्छेदकतावत्त्वेन समवेतत्वसम्बन्धेनेश्वरविशिष्टत्वेन वा त्रयमनुगमय्यैकमेव हेतुत्वमिति वाच्यं, तादृशावच्छेदकताकल्पने गौरवात्, नित्यज्ञानादिमत्त्वरूपेश्वरत्वस्य नानात्वाच्च । न चात्रेश्वरो न विशेषणं किन्तूपलक्षणमिति वाच्यं, तथाप्युक्तबहुत्वविशेष-संयोगविशेषाभ्यां प्रत्येक विनिगमनाविरहात् । न च प्रागभावेऽपि किन्नैष इति वाच्यं, धर्मिग्राहकमानेन तस्य कारणत्वेनैव सिद्धेरिति"-चेत् ?

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182