Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 162
________________ प्रलो. १] सदसत्कार्यवादः १०१ सत्यामपि जिज्ञासायां कारणव्यापारात्प्राक्कार्यानुपलम्भात् । जिज्ञासाया ज्ञानमात्रं प्रत्यहेतुत्वाच्च जिज्ञासितबोधं प्रति जिज्ञासाया हेतुत्वेऽपि तां विना तत्राऽजिज्ञासितबोधापत्तेश्च ।६। नापि सप्तमोऽनाविर्भावस्यैव तिरोधानपदार्थत्वेऽद्यापि. नियतनिर्वचनाऽपरिचयात्; अन्यस्याभ्युपगन्तुमशक्यत्वात् ।७। नाप्यष्टमोऽनिर्वचनात् ।८। तस्मात्प्रागसदेव कार्य सामग्रीसमवधानात्संपद्यते । न च प्रागभावादिकल्पने गौरवं, प्रामाणिकत्वादिति योगा संगिरन्ते । सांख्यः सत्कार्यवादं सदसि निगदतु स्कन्धमास्फाल्य तावत्, स्वैराऽसत्कार्यवादी प्रलपतु स पुनस्तावदेवात्र यौगः । यावद् दुर्वादिवृन्दद्विरदमदभिदा केसरिकीडनैकप्रागल्भ्याभ्यासभाजो जिनसमयविदो ध्यानमुद्रां भजन्ते ॥१॥ वासनामथ मुञ्चन्तु समये सांख्ययोगयोः सदसत्कार्यवादाय प्रयते सावधानधीः ।२। [सदसत्कार्यवादस्थापनम्] तथाहि-युगपत्प्रवृत्ताभिर्यथा पर्यायनिष्पादिका व्यतिरेकव्य कीस्तास्ताः संक्रामतो द्रव्यस्य सद्भावनिबद्ध एव प्रादुर्भावस्तथा क्रमप्रवृत्ताभिव्यतिरेकव्यक्तिभिः पर्यायनिष्पादिकाभिस्ताभिस्ताभिर्युगपस्प्रवृत्ता अन्वयशक्तीः संक्रामतो द्रव्यस्याऽसद्भावनि बद्धोऽपि, द्रव्याथिकेन सर्वस्य सत एव पर्यायार्थिकेनाऽसत्त्वात् । तदुक्तमन्यत्रापि-"एवंविधं सहावे दव्यं दवट्ठपज्जयटेहिं सदसब्भावणिबद्धं पादुन्मावं सदा लहदि'त्ति । यथा च व्यतिरेकव्यक्तयो यौगपद्यप्रवृत्तिमासाद्यान्वयशक्तित्वमापन्नाः पर्यायान् द्रव्योकुर्युस्तथाऽन्वयशक्तयोपि क्रमप्रवृत्तिमासाद्य तत्तद्वयतिरेकव्यक्तित्वमापन्ना द्रव्यं पर्यायोकुर्युः, वस्तुनो द्रव्यपर्यायोभयात्मकत्वात् । यदुक्तं "द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः । क्व कदा केन किंरूपा दृष्टा मानेन केन बा।" इति । ___न चाऽतोद्रव्यपर्याययो(युत्याभावसिद्धावपि तादात्म्याऽसिद्धिः, परिशेषात्तेन तत्सम्बन्ध'सिद्धेः । 'स्थासकोस-कुशूलादिपर्याया एव वस्तु न पुनस्तदतिरिक्तं मृदव्यं समीक्षामहे' इति ताथागताः । तदसत्-यतो यदुत्पादविनाशाभ्यां न यदुत्पादविनाशौ, तत्ततो भिन्नं, यथा घटात् पटः । न चोक्तपर्यायविनाशोत्पादाभ्यां मृव्यस्य ताविति तेभ्यस्तद्वयतिरेकसिद्धेः । रूपान्तरेण द्रव्यनाशोत्पादयोः पर्याय नाशोत्पादपर्यवसायित्वात् अन्यथाऽबाधिततत्प्रत्यभिज्ञाऽनुपपत्तेः तयोरन्यतरस्माद्विविच्य वस्त्वन्तराऽव क्षणस्य चोभयत्र तुल्ययोगक्षेमत्वात् । न चान्वयिनो वीक्षणं मिथ्या, कदाचिदन्यथादर्शनाऽसिद्धेः । तदुक्तं “यो ह्यन्यरूपसंवेद्यः, संवेधेताऽन्यथा पुनः । स मिथ्या न तु तेनैव यो नित्यमवगम्यते" ।। इति । ___ “यदाऽऽयंतयोरसन्, मध्येऽपि तत्तथैव, यथो मरुमरीचिकादौ जलादि । न सन्ति च कुशूलकपालाद्यवस्थयोर्घटादिपर्यायाः, इति द्रव्यमेवादिमध्याऽन्तेषु सत्, पर्यायाः पुनराकाशकुसुमैकवंशप्रभवा अपि भ्रान्तरितरथा प्रतीयन्ते । तदुक्तं-"मादावन्ते च यन्नास्ति, मध्येऽ

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182