Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 160
________________ प्रलो० १.] मेदाभेदवादः अन्यत्र रूपादिप्रतियोगिकत्वविशिष्टाऽविष्वगभावस्याऽऽधारतात्वेऽप्यत्राऽविष्वग्भावमात्रस्यैव तथात्वकल्पनात् , तादृशप्रतीतेर्बलवत्त्वात् । तदुक्तं परेणापि- “ संविदेव हि भगवती वस्तूपगमे नः शरणमिति" परमाणूनामपि शुद्धस्य स्वस्यैव स्वाश्रयत्वम्, भाविभूताऽऽश्रयसम्भवेनैव वा तदाश्रितत्वमक्षतम् । अन्यथा द्रव्यादिचतुष्टयस्य सार्वत्रिकत्ववचनव्याघाताऽऽपातादिति । तच्चित्यम् , अत्यन्तविभिन्नानामप्याकाशादिरूपैकाश्रयसम्भवेन भेदाभेदसम्बन्धावच्छिन्नाश्रयताविवक्षणे स्फुटदोषात् । नापि तत्प्रदेशैः सहैकत्वपर्यायाऽनापन्नत्वं तद्,' एकत्वस्याऽपृथक्त्वपर्यवसायित्वात् । ऋजवस्तु सार्वजनीनप्रतोतिस्वारस्यादेव भेदाऽभेदयोरवच्छेदकभेदं विनापि न विरोधः । यथाहि सामान्यतो भावस्य प्रतियोगिव्यधिकरणत्वे क्लुप्तेऽपि संयोगाधभावेऽतथात्वप्रतीते: स नियमस्त्यज्यते, तथा भावाभावयोरेकत्रवृत्ताववच्छेदकभेदनियमोऽप्येकत्र भेदाभेदयोरबाधितानुभवबलादत्र त्यज्यते । अत एव न सङ्कर-व्यतिकर-संशया-नवस्था-दृष्टहान्यदृष्टकल्पनाः । भेदश्चेदमस्माद्भिन्न मिति प्रतीतिनियामको व्यावृत्तिविशेषः । स चैकद्रव्यगुणपर्यायेष्वप्यभेद. करम्बितः सम्भवति । अयम्भावः यथाहि सूत्रग्रथितमुक्ताफलानामपेक्षा बुद्धिविशेषविषयत्वं हारत्वं सूत्रमुक्ताफलाधारतावच्छेदकम् , तथा द्रव्यगुणपर्यायाणां तादृशं द्रव्यत्वमपि तथा । यथा च हारत्वसूत्रत्वमुक्ताफलत्वावच्छेदेन शुक्लत्वप्रतीतिस्तथा द्रव्यत्व-गुणत्व-पर्यायत्वावच्छेदेन सत्त्वप्रतीतिरपि । यथा च शुक्लत्वाधवच्छिन्ने हारत्वाद्यवच्छिन्नभेदस्तथा सत्त्वत्वाधवच्छिन्ने द्रव्यत्वाधवच्छिन्नभेदोऽपि । तदुक्तम् “सद्दव्वं सच्च गुणो, सच्चेव य पज्जओत्ति वित्थारो । जो खलु तस्स अभावो सो तदभावो अतब्भावो ॥"त्ति । विस्तारः=भेदनयाप्तिप्रातिस्विकतत्तद्धर्मावच्छिन्नविशेष्यतानिरूपिताः प्रकारताः ॥ इति भेदाभेदवादः । अन्ये तु सत्त्वस्य पदार्थस्य, एकान्तनित्यत्वे-सर्वथैकस्वभावत्वे, कृतस्य नाशो=निः. प्रयोजनत्वं स्यात् । कृतस्य नाशश्च 'सविशेषणे ही'त्यादिन्यायात् कृतिनाश एव पर्यवस्यति । एकान्तनित्ये कृत्या प्रागसतः सत्त्वरूपोपकारानाधानादन्यथा स्वभावभेदप्रसङ्गादिति भावः । तथाऽकृतागमः स्वभावभेदापत्तिभियाऽऽकस्मिकार्थक्रियाकारित्वं प्रसज्येतेत्याहुः । अपरे तु कृतपदमत्र भाव'क्त'प्रत्ययान्तमिति कृतस्य कुम्भकारादिप्रयत्नस्य नाश उपधानाऽव्याप्यत्वम्, अकृतस्य कुम्भकारादिप्रयत्नाऽभावस्यागमोऽनुपधानाऽव्याप्यत्वं च स्याता, वस्तुनः सर्वथा नित्यत्वात्, तथा च व्यवहारबाध इति भावः । __ [साङ्ख्याभिमतसत्कार्यवाददूषणम्] । अत्रेदं विभाव्यते-सांख्यैर्हि सदेव वस्त्वनुमन्यते । तदुक्तं "असदकरणादुपादानग्रहणात्सर्वसम्भवाऽभावात् । शक्तस्य शक्यकरणात्, कारणभावाच्च सत्कार्यमिति" ॥[सां. का. ९]। असदकरणादसतः कर्तुमशक्यत्वात्सदेव कार्य, सत एव सत्करणस्वाभाव्यात् । न च सदित्यस्य 'पूर्वकालवृत्तो'त्यर्थकत्वे प्रागभावघटितपूर्वत्वाऽप्रसिद्धिः, तदघटितस्यापि तस्य सम्भ

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182