Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 158
________________ लो० १] मेदामेदवाद: कथमन्यथा स्याद्भिन्नं चाऽभिन्नं चेत्यत्र स्यात्पदं नाऽनतिप्रयोजनमिति ध्येयम् । __ अथ भेदाभेदस्यापि कथञ्चिदभेदरूपत्वात् कपाले घट' इत्यादावाधाराऽऽधेयभावप्रतीतिर्न स्यादिति चेत् ! न, भेदाभेदत्वेन तस्य वृत्तिनियामकत्वात् । 'घटाभावे घटो नास्ती'त्यादावपि घटाभावत्वेन धर्म-धर्मिभावविवक्षयैव निस्तारः । सर्वथा तदात्मनः पुनराधाराऽऽधेयभावोऽसम्भवी स्वप्नेऽपि तथाऽप्रत्ययात् । धर्माऽविष्वग्भूतो धर्येव तदाधारता, तेन न धर्मधर्मिणोर्भदाऽभेदाऽविशेषेऽपि धर्येव धर्माधारो न तु धर्मास्तथेत्यत्र नियामकानुसरणवैयग्यम् । तत्तत्प्रतियोगिकत्वविशिष्टतत्तत्सम्बन्धस्य तथात्वे तु एकत्रैव भूतले घटपटादिप्रतियोगिभेदेनाऽव्याप्यवृत्तिनानाधारतापत्तेर्मिणश्चाऽनाधारत्वे धर्मा एव वस्त्विति तथागतप्रवादसाम्राज्यापत्तेः धर्माधारतयैव परं धर्मिणः कल्पनादिति दिग् । नन्वेवमपि भवतु मेदाभेदो जात्यन्तररूपः, परमसावेकत्राऽन्योन्याभावतदभावप्रतीतिव्यंग्यस्तयोश्चैकत्राऽवच्छेदकभेदं विना प्रतीत्यनुपपत्तिरित्युक्तमेवेति चेत् ? न, घटत्वैकद्रव्यत्वयोरेव तदवच्छेदकयोः सम्भवात् । यदवदाम स्तुतौ "एकत्र वृत्तौ हि विरोधमाजोर्येषामवच्छेदकभेदयाञ्चा। ___ द्रव्यत्वपर्यायतयोविभेदं विजानतां सा कथमस्तु वस्तु" ॥ इति । नीभेदो घटत्वावच्छेदेन, नीलाभेदस्तु नीलवद्भिन्नभेदावच्छेदेन । न च तदज्ञानेऽपि 'नीलो घट' इत्यभेदानुभवात् न तस्य तदवच्छेदकत्वं, घटत्ववत्तस्य योग्यत्वात् नियमतो ग्रहसम्भवात् । अस्तु वा तदग्रहेऽप्यवच्छेदकौदासीन्येनैव नीला मेदधीः । न सा घटत्वावच्छेदेन नीलभेदग्रहप्रतिबद्धया । तद्धर्मावच्छेदेन तद्वत्ताधियस्तद्धविच्छेदेनैव तदभाववत्ताधीविरोधित्वात् । तद्धातिरिक्तधर्माऽनवच्छेदेनेत्यस्य प्रवेशे गौरवादिति यौक्तिकाः। केचित्तु-भेदोऽन्योन्याभावोऽभेदस्तु धर्मान्तरमित्यभ्युपगच्छन्ति । अत्र तादृशाभेदस्य व्यवहाराऽनौपयिकत्वं यत्कश्चिदुघुष्टं तदसम्बद्धं, 'प्रमेयमभिधेयमि'त्यादौ तस्यैव शरणोकरणीयत्वात् । दिगम्बरमतानुयायिनस्तु मेदाऽभेदो भेदविशिष्टाऽभेद एव, सम्बन्धता तु तयोरुभयत्वेन रूपेण । न चोभयत्वमप्येकविशिष्टाऽपरत्वमिति विशेषणविशेष्यभावे विनिगमनाविरहः, अविशिष्टयोरपि गोत्वाऽश्वत्वयोरुभयत्वप्रत्ययात्, तस्यातिरिक्तधर्मत्वात् । युक्तञ्चतत्, अतिरिक्तभेदाऽभेदस्य भेदविशिष्टाऽभेदस्य च तयञ्जकत्वकल्पनायां गौरवात् । न च भेदाऽभेदयोरेकत्र विरोधो, यतो न हि वयं यत्र यस्य यो भेदस्तत्र तस्य तदभावमभ्युपेमः किन्त्वन्यमेवेति । तथाहि; भेदो द्विविधः-पृथक्त्वरूपोऽन्यत्वरूपश्च । तत्र पृथक्त्वं प्रविभक्तप्रदेशत्वरूपम् । अन्यत्वं पुनरतद्भाव इति । यदुक्तं प्रवचनसारे “पविभत्तपदेसत्तं, पुढत्तमिति सासणं हि वीरस्स । अण्णत्तमतब्भावो, ण तब्भवं भवदि कहमेगं" ॥ ति । १-प्रविभक्तप्रदेशत्वं पृथक्त्वमिति शासनं हि वीरस्य । अन्यत्वमतद्भावो न तद्भवन् भवति कथमेकम् ॥ त्या. र. १३

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182