Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 156
________________ ९५ प्रलो०१] समवायनिराला संयोगस्य स्वरूपतो भानात् । अथात्र दण्डविषयतानिरूपितसांसर्गिकसंयोगविषयतानिरूपित. पुरुषत्वावच्छिन्नविशेष्यताकत्वाभावादेव न तादृशविशिष्टबुद्धित्वमिति चेत् ! न, निरूपितत्वादेरनतिरेके उक्तातिप्रसङ्गतादवस्थ्यात् , अतिरेके तु साक्षात् ज्ञानगतप्रकारिताविशेषेणैव तद्विशेषौचित्ये नव्यमतप्रवेशात् । किश्च, समवायस्यापि समवायान्तरस्वीकारेऽनवस्था, स्वमिन स्वस्य स्वीकारे आत्माश्रयः, प्रथमे द्वितीयस्य – द्वितीये प्रथमस्योररीकारे पुनरन्योन्याश्रयः, प्रथमे द्वितीयस्य - तत्र तृतीयस्य - तत्र च प्रथमस्याभ्युपगमे चक्रकमिति तत्र स्वरूपस्यैव सम्बन्धत्वोचित्ये किन्न गुणगुणिनोरपि तथाऽभ्युपगमः । तदिदमभिसन्धायोक्तमन्यत्र स्तुतिकृतैव "इहेदमित्यस्ति मतिश्च वृत्तावि" ति । अथ लाघवबलाद् गुणगुण्यादीनामेकः सम्बन्धः सिध्यत् धर्मियाहकमानेन स्वतः सम्बन्धस्वभाव एव सेत्यस्यतीति चेत् ? हन्त तर्हि 'हूदे वहिर्नास्तीति प्रतीतेरभावादिसाधारणैकवैशिष्टयसिद्धौ दत्तः समवायाय जलाञ्जलिः । एतेन 'गुणगुण्यादिस्वरूपद्वये सम्बन्धत्वमतिरिक्तसमवाये वेति विनिगमनाविरहादप्यन्ततः समवायसिद्धिः, न च वैशिष्टयेऽपि तथा, तत्राभावस्यैवानुगतत्वेन सम्बन्धत्वोचित्यादि'त्यपास्तम् । तथाप्यनुगतजात्यादिसाधारणसमवायाऽसिद्धेश्च । अथ समवायेन जन्यभावत्वावच्छिन्नं प्रति द्रव्यत्वेन हेतुत्वात्तत्सिद्धिः, न च स्वरूपसम्बन्धेनैवास्तु तथात्वम् , स्वरूपाणामननुगतत्वादिति चेत? न. वैशिष्टयसम्बन्धेन जन्यमात्र प्रत्येव द्रव्यत्वेन तत्त्वौचित्यात् । अथ प्रतियोगितया घटादिसमवेतनाशं प्रति स्वप्रतियोगिसमवेतत्वसम्बन्धेन घटादिनाशस्य हेतुत्वात्समवायसिद्धिः । स्वप्रतियोगिवृत्तित्वेन तथात्वे घटादिवृत्तिध्वंसध्वंसापत्तेः । घटादिकालोनसंयोगादिध्वंसे व्यभिचारवारणाय 'प्रतियोगितया' । स्वप्रतियोगिसमवेतत्वस्वाधिकरणत्वोभयसम्बन्धेन नाशवन्नाशत्वावच्छिन्नस्य हेतुत्वावश्यकतया सत्तादौ तदापत्त्यभावेन सत्त्वेन नाशहेतुत्वाऽकल्पनात् । न च द्वित्रिक्षणस्थायिघटादिसमवेतनाशे स्वप्रतियोगिसमवेतत्वेनैव तथात्वात्प्रतियोगितया नाशत्वावच्छिन्नं प्रतितादात्म्येन सत्त्वेन हेतुत्वान्न ध्वंसध्वंसापत्तिरिति वाच्यम् , तत्रापि स्वप्रतियोगिसमवायिकारणकत्वेनैव तथात्वेऽनतिप्रसङ्गादिति चेत् ? न, उक्तहेतुतावच्छेदकेऽक्लृप्तसमवायनिवेशापेक्षया क्लुप्तसत्त्वनिवेशस्यैवोचितत्वात् । [वैशिष्टयवादः] किञ्च, रूपाभावमहत्त्वाभावान्यद्रव्यवृत्तिचाक्षुषं प्रति चक्षुःसंयुक्तमहदुद्भूतरूपवद्वैशिष्टयस्यैव हेतुत्वौचित्यम् । रूपाभावमहत्त्वाभावचाक्षु(षे)*प्रति चक्षुःसंयुक्तमहद्वैशिष्टयस्य तादृशोभूतरूपवद्वैशिष्टयस्य च पृथक्कारणत्वात् । रूपाभावान्यद्रव्यवृत्त्यभावचाक्षुषे चक्षुःसंयुक्तोद्भूतरूपवद्विशेषणता, महत्त्वाभावान्यद्रव्यवृत्त्यभावचाक्षुषे चक्षुःसंयुक्तमहत्त्ववद्विशेषणता, महत्समवेतचाक्षुषे चक्षुःसंयुक्तमहदुद्भूतरूपवत्समवायश्च हेतुरिति कल्पनाऽपेक्षयोक्तस्यैव युक्तत्वात् ।

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182