Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 154
________________ श्लो० १] चक्षुस्प्राप्यकारितावादः अपि च नयनस्य तैजसत्वाऽसिद्धया तद्रश्मय एव कुतत्स्याः । न च 'चक्षुस्तैजसं, रूपादिषु मध्ये रूपस्यैवाभिव्यञ्जकत्वात्, आलोकवदि 'त्यनुमानाच्चक्षुषस्तैजसत्वसिद्धिः, न चाब्जनेन व्यभिचारस्तस्य चाक्षुषप्रयोजकत्वेऽपि तदजनकत्वादिति वाच्यम्, अप्रयोजकत्वात्, अनुद्भुतरूपानुद्भूतस्पर्शतेजोऽन्तरकल्पने गौरवाच्च । अत एवेन्द्रियत्वं जन्यसाक्षात्कारत्वावच्छिन्नजनकतावच्छेदकः पृथिव्याद्यवृत्तिरेव जातिविशेष इति यौगैकदेशिनः । तेषामपि चक्षुः संयोगत्वेन हेतुतासिद्धयैव चक्षुःप्राप्यकारित्वसाधनाभिकांक्षा सम्पूर्येत, सैव तु नास्त्यत्र । 'तद्धेतोरेवाऽस्तु किं तेने'ति न्यायाच्चक्षुः संयोगत्वावच्छिन्न नियामकादेव चाक्षुषदेशविषयप्रतिनियमसम्भवात् । एतेन " योग्या चेद् योग्यता वः सपदि जनयितुं ज्ञानमक्ष्णोऽनपेक्षः, कस्मादस्माकमा कस्मिक इव न तदा हन्त वस्तूपलम्भः । आयासं कः प्रकुर्यादनणुमणिविभापूरिते गेहदेशे, प्रद्योतार्थी प्रदीपं प्रकटयितुमलं तैलसम्पूरणादौ ॥१॥ अपि ९३ स्वनयननिकटोपटंकिनोऽर्थाः पटु विकसन्ति न जातु तत्प्रतीपाः, जगति विचरतीह योग्यतेयं शिव शिव वञ्चन चातुरीधुरीणे || २ ||" इत्यादि निरस्तम् । यतः - योग्यता वस्तुनो बोधे, स्मृता प्रतिनियामिका । उपधानं पुनस्तस्य चक्षुरुन्मीलनादिना ||३|| यदाभिमुख्यं नियमाय कर्म्मणो, न नाम संयोगनियामकं धियः । हास्मि नास्मिन्नियमे स्पृहावहः कृतांत कोपस्तु तवैव केवलम् ॥४॥ यत्र यत्र परिसर्पति चक्षुः तत्र तत्र किल वेदनजन्म । गौतमीयसमये तदिदानीं प्राप्यकारिणि न चक्षुषि साक्षि ॥५॥ अनन्तनयनविषयसंयोगानां तत्तद्देशादिष्वनन्ततज्ञ्जनकत्वानाञ्च कल्पनायां महागौरवात् नयनक्रियाभिमुख्यस्य रूपादावपि सम्भवे बाधकाभावाद् द्रव्यतत्समवेतादिसाधारणचाक्षुषं प्रत्येकहेतुत्वे लाघवाच्च । 'लोहोपलस्य लोहाकर्षकत्वमिवाऽप्रत्यासन्नस्यापि चक्षुषश्चाक्षुषजनकत्वमि'त्यप्याहुः, तेषामपि सम्बन्ध विशेषाश्रयण मावश्यकमन्यथातिप्रसङ्गात् । , तथा चैवं प्रयुञ्जते 'नयनं योग्यदेशावस्थिताऽप्राप्तार्थपरिच्छेदकम्, प्राप्तिनिबन्धनानुग्रहोपघातशून्यत्वात् मनोवदिति । वनस्पति-सुरालोकनादिना नयनानुग्रहोपघातोदयाद्वयभिचारवारणाय 'प्राप्तिनिबन्धने 'ति विशेषणम् । तदुपघातस्य प्राप्तिनिमित्तकत्वे नयनस्य जलानलसंयोगेन क्लेददाहापत्तेः । अथ मनसोऽपि घटादिनाऽलौकिक ज्ञानादिप्रत्यासत्तिसत्त्वात् साध्यविकलो दृष्टान्त इति चेत् ? न, संयोगप्रत्यासत्या परिच्छेदकत्वाभावस्यैव सिसाघयिषित -

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182