Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 152
________________ श्लो० १] मेदामेदसिद्धिः नाऽवच्छेदकमेदं विनैकत्र भेदाभेदयोर्विरोधात् । तदुक्तं - मणिकृता 'तस्यैव तत्राभावोऽवच्छेदकभेदेन वर्त्तते, ज्ञायते च यथा संयोगाभावः । श्यामावच्छिन्नस्य तस्यैवान्योन्याभावस्तत्रैव तदन्योन्याभावाभावश्च श्यामावच्छेदेन' । तदिहापि नीलस्यान्योन्याभावो घटत्वावच्छेदेनेति नीलाद् घटस्य मेदोsस्तु | अभेदस्तु नीलान्योन्याभावाऽभावरूपो घटे न, घटत्वावच्छेदेनैव विरोधात्, एकावच्छेदेन भावाभावयोरेकत्रावृत्तेरज्ञानाच्च । नाप्यवच्छेदकान्तरेण घटत्वावच्छिन्ने घटे तदभावातदज्ञानेsपि 'नीलो घट' इत्यनुभवाच्चेति चेत् ? अत्र वदन्ति - भेदाभेदस्तावद्गुणगुण्यादिविशिष्टप्रतीतिनियामकत्वेनानुभवबलेन च जात्यन्तररूप एव सिद्धयति । तदुक्तं - ' अन्योन्यव्याप्तिभावेन भेदाभेदपक्षस्य जात्यन्तरात्मकत्वादिति । अन्योन्यव्याप्तिभावश्च मिथः शबलाकारानुभावकत्वं तेन घटभिन्ने पीते श्यामाऽभेदस्य, श्यामभिन्ने पटे घटाभेदस्य च व्यभिचारेऽपि न क्षतिः । तत्तत्सन्तानपर्यवसायित्वेन व्याप्यव्यापकभाव इत्यपि केचित् । एवं च 'येनाकारेण भेदस्तेन भेद एवेत्यादिवाभंग्यापि न बिभीषिका स्याद्वादिनां, 'तेन भेद एवे' त्यस्यार्थशून्यत्वादेवकारेणाऽमेदप्रतिषेधाऽसम्भवाद् भेदस्याऽभेदानुविद्धत्वात् । एवकारस्य यत्किञ्चिदन्यार्थकत्वे तु न तत्र विप्रतिपद्यामहे । तथा च पराभिप्रेतमेदतदभावानभ्युपगमान्न तादृशावच्छेदकभेदानुपलब्धिदोषो, मेदाभेदस्य स्वत एव भिन्नरूपकुक्षिभरितया च नातिप्रसङ्ग इति । ९१ युक्तं चैतद् - विलक्षणमेदाभेदत्वेनैव गुणगुण्यादिसम्बन्धत्वात् । घटत्वश्यामत्वादिपर्यवसन्नभेदाभेदत्वेन तथात्वाऽसम्भवात् । एकान्तभेदेऽवव्यवेष्ववयवी किं देशेन समवेयात्कात्स्न्र्त्स्न्येन वा ? नाद्योऽवयवातिरिक्तदेशानुपदेशात् । न द्वितीयः प्रत्यवयवसमवेतावयव बहुत्वप्रसङ्गात् । अथाऽवयवेष्वयवी समवैत्येव, देशेन कात्स्न्र्त्स्न्येन वेत्यत्र पुनरापादकाभाव अन्यथा भवतामप्यवयवेष्ववयवी किं (किं) देशेनापृथग् भवेत्, कार्त्स्न्येन वा ? आद्येऽवयवातिरिक्त देशाऽनिरुक्तिः । द्वितीये प्रत्यवयवाऽपृथग्भूतावयविबहुत्वप्रसक्तिरिति तुल्यः पर्यनुयोग इति इति चेत् न, अस्माकममेदनयाद बहुत्वेऽपि भेदनयादैक्यात् परेण तु स्वप्नेऽपि तथानभ्युपगमात् समवायस्यैवाऽसिद्धौ तात्पर्याच्च । तथा हि - ' गुणादिसाक्षात्कार इन्द्रियसम्बन्धजन्यः, जन्य साक्षात्कारत्वात्, दण्डीति साक्षात्कारवदित्यनुमानं न समवायं साधयितुं क्षमते वैशद्यवद् ज्ञानं प्रति योग्यताविशेषस्य हेतुत्वात् चक्षुषोऽप्राप्यकारित्वात् । " [चक्षुरप्राप्यकारिताव्यवस्थापनम् ] अथ चक्षुषोsप्राप्यकारित्वमेव न क्षम इति चेत् ? श्रुणु । प्रसङ्गसङ्गतमथ प्रथमानविशुद्धधीः चक्षुरप्राप्यकारित्वं ब्रूते न्यायविशारदः ॥१॥ तथा हि जन्यसाक्षात्कारत्वावच्छिन्नं प्रतीन्द्रियसम्बन्धत्वेन तावन्न हेतुता, इन्द्रियसम्बन्धत्वस्यैकस्याऽसम्भवात् । एतेन चक्षुषत्वावच्छिन्नं प्रति चक्षुः सम्बन्धत्वेन हेतुताऽपि परास्ता ।

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182