________________
श्लो० १]
मेदामेदसिद्धिः
नाऽवच्छेदकमेदं विनैकत्र भेदाभेदयोर्विरोधात् । तदुक्तं - मणिकृता 'तस्यैव तत्राभावोऽवच्छेदकभेदेन वर्त्तते, ज्ञायते च यथा संयोगाभावः । श्यामावच्छिन्नस्य तस्यैवान्योन्याभावस्तत्रैव तदन्योन्याभावाभावश्च श्यामावच्छेदेन' । तदिहापि नीलस्यान्योन्याभावो घटत्वावच्छेदेनेति नीलाद् घटस्य मेदोsस्तु | अभेदस्तु नीलान्योन्याभावाऽभावरूपो घटे न, घटत्वावच्छेदेनैव विरोधात्, एकावच्छेदेन भावाभावयोरेकत्रावृत्तेरज्ञानाच्च । नाप्यवच्छेदकान्तरेण घटत्वावच्छिन्ने घटे तदभावातदज्ञानेsपि 'नीलो घट' इत्यनुभवाच्चेति चेत् ? अत्र वदन्ति - भेदाभेदस्तावद्गुणगुण्यादिविशिष्टप्रतीतिनियामकत्वेनानुभवबलेन च जात्यन्तररूप एव सिद्धयति । तदुक्तं - ' अन्योन्यव्याप्तिभावेन भेदाभेदपक्षस्य जात्यन्तरात्मकत्वादिति । अन्योन्यव्याप्तिभावश्च मिथः शबलाकारानुभावकत्वं तेन घटभिन्ने पीते श्यामाऽभेदस्य, श्यामभिन्ने पटे घटाभेदस्य च व्यभिचारेऽपि न क्षतिः । तत्तत्सन्तानपर्यवसायित्वेन व्याप्यव्यापकभाव इत्यपि केचित् । एवं च 'येनाकारेण भेदस्तेन भेद एवेत्यादिवाभंग्यापि न बिभीषिका स्याद्वादिनां, 'तेन भेद एवे' त्यस्यार्थशून्यत्वादेवकारेणाऽमेदप्रतिषेधाऽसम्भवाद् भेदस्याऽभेदानुविद्धत्वात् । एवकारस्य यत्किञ्चिदन्यार्थकत्वे तु न तत्र विप्रतिपद्यामहे । तथा च पराभिप्रेतमेदतदभावानभ्युपगमान्न तादृशावच्छेदकभेदानुपलब्धिदोषो, मेदाभेदस्य स्वत एव भिन्नरूपकुक्षिभरितया च नातिप्रसङ्ग इति ।
९१
युक्तं चैतद् - विलक्षणमेदाभेदत्वेनैव गुणगुण्यादिसम्बन्धत्वात् । घटत्वश्यामत्वादिपर्यवसन्नभेदाभेदत्वेन तथात्वाऽसम्भवात् । एकान्तभेदेऽवव्यवेष्ववयवी किं देशेन समवेयात्कात्स्न्र्त्स्न्येन वा ? नाद्योऽवयवातिरिक्तदेशानुपदेशात् । न द्वितीयः प्रत्यवयवसमवेतावयव बहुत्वप्रसङ्गात् । अथाऽवयवेष्वयवी समवैत्येव, देशेन कात्स्न्र्त्स्न्येन वेत्यत्र पुनरापादकाभाव अन्यथा भवतामप्यवयवेष्ववयवी किं (किं) देशेनापृथग् भवेत्, कार्त्स्न्येन वा ? आद्येऽवयवातिरिक्त देशाऽनिरुक्तिः । द्वितीये प्रत्यवयवाऽपृथग्भूतावयविबहुत्वप्रसक्तिरिति तुल्यः पर्यनुयोग इति इति चेत् न, अस्माकममेदनयाद बहुत्वेऽपि भेदनयादैक्यात् परेण तु स्वप्नेऽपि तथानभ्युपगमात् समवायस्यैवाऽसिद्धौ तात्पर्याच्च । तथा हि - ' गुणादिसाक्षात्कार इन्द्रियसम्बन्धजन्यः, जन्य साक्षात्कारत्वात्, दण्डीति साक्षात्कारवदित्यनुमानं न समवायं साधयितुं क्षमते वैशद्यवद् ज्ञानं प्रति योग्यताविशेषस्य हेतुत्वात् चक्षुषोऽप्राप्यकारित्वात् ।
"
[चक्षुरप्राप्यकारिताव्यवस्थापनम् ]
अथ चक्षुषोsप्राप्यकारित्वमेव न क्षम इति चेत् ? श्रुणु ।
प्रसङ्गसङ्गतमथ प्रथमानविशुद्धधीः चक्षुरप्राप्यकारित्वं ब्रूते न्यायविशारदः ॥१॥ तथा हि जन्यसाक्षात्कारत्वावच्छिन्नं प्रतीन्द्रियसम्बन्धत्वेन तावन्न हेतुता, इन्द्रियसम्बन्धत्वस्यैकस्याऽसम्भवात् । एतेन चक्षुषत्वावच्छिन्नं प्रति चक्षुः सम्बन्धत्वेन हेतुताऽपि परास्ता ।