________________
९२
बृहत्स्याद्वादरहस्य __ अथ द्रव्यचाक्षुषत्वाद्यवच्छिन्नं प्रति चक्षुःसंयोगत्वादिना विशिष्यैव हेतुता । तदुक्तं मणिकृताप्रत्यक्षविशेषे इन्द्रियार्थसंनिकर्षविशेषो हेतुरननुगत एवेति चेत् ? न, चक्षुःसंयोगस्यापि परमाण्वाकाशादौ व्यभिचारेण चाक्षुषं प्रति हेतुत्वाऽयोगात् । 'महत्त्वसमानाधिकरणोद्भूतरूपस्यापि तत्र सहकारित्वान्नायं दोष' इति चेत् ? न, उद्भूतरूपसमानाधिकरणमहत्त्वत्वेन सहकारित्वे विनिगमकाभावात् । अथ पाकेन रूपनाशक्षणेऽपि घटादिचाक्षुषोत्पत्तिरेवोद्भूतरूपविशिष्टमहत्वस्यैव द्रव्यचाक्षुषहेतुत्वे विनिगमिकेति चेत् ? न, तत्र रूपनाशक्षण एव चाक्षुषम् , न तु तदुत्तरोपजायमानरूपोत्तरमित्यस्य कोशपानप्रत्यायनीयत्वात् ।
अथ महत्त्वोद्भूतरूपयोः पृथगेवाऽस्तु कारणता । महत्त्वजन्यतावच्छेदकं च जन्यद्रव्यसाक्षात्कारत्वम् । अत एवात्मसाक्षात्कार एवात्मनि महत्त्वे मानम्, उद्भूतरूपजन्यतावच्छेदकं च द्रव्यचाक्षुषत्वमिति चेत् ? तथापि चक्षुग्र्गोलकपरिकलिताऽजनाधप्रत्यक्षं किमधीनम् ! 'योग्यताभावाधीनमि'ति चेत्तर्हि पाटच्चरविलंटिते वेश्मनि यामिकजागरणवृतान्तानुसरणम् । भित्त्यायन्तरिताऽप्रत्यक्षस्यापि योग्यताविरहेणैवोपपत्ती व्यवहितार्थाऽप्रकाशकत्वान्यथानुपपत्या चक्षुःप्राप्यकारित्वसाधनमनोरथस्य दूरप्रोषितत्वात् ।
स्यादेतत् । भित्त्यादिव्यवहितार्थस्य न स्वरूपयोग्यत्वम् । कालान्तरे तस्यैव प्रत्यक्षसम्भवात् । किन्तु भित्त्यादेश्चक्षुःप्राप्तिविघातकतया विरोधित्वादेव न तदन्तरितार्थग्रहणम् । एवमतिसान्निध्यस्यापि दूरत्ववद्दोषत्वेन प्रतिबन्धकत्वान्न नयनाञ्जनादिलौकिकचाक्षुषम् । यत्तु-विजातोयचक्षुःसंयोगत्वेन हेतुत्वादेव न दूरस्थलौकिकचाक्षुषमिति, तन्न, सति विशेषदर्शनादौ दूरस्थस्यापि लौकिकचाक्षुषदर्शनात् । मैवं, अननुगततत्तदोषाणां तत्तत्प्रत्यक्षप्रतिबन्धकत्वकल्पनापेक्षया सामान्यतः सूक्ष्मव्यवहितार्थप्रत्यक्ष ज्ञानावरण कर्मविपाकोदयविशेषस्यैव प्रतिबंधकत्वकल्पनौचित्यात् ।
वस्तुतश्चक्षुषः प्राप्यकारित्वे शाखाचन्द्रमसोयुगपद् ग्रहणानुपपत्तिः । अथ क्रमिकत्वमेव तज्ज्ञानयोः, योगपद्यप्रत्ययस्य शतपत्रशतपत्रीवेधव्यतिकरण भ्रमत्वादिति चेत् ! न, तथा सति ततः 'साक्षात्कारोमी'त्यनुव्यवसायस्य तयोरनुपपत्तेः, तदनुव्यवसायसमये शाखाज्ञानस्य नष्टत्वात् । न च शाखाचन्द्रयोः क्रमिकज्ञानाहितसंस्काराभ्यां जनितायां समूहालम्बनस्मृतावेवानुभवत्वारोपात्तथानुव्यवसायो यथा पञ्चावधानस्थले इति वाच्यम्, उपेक्षात्मकतज्ज्ञानतस्ताहशस्मृत्यसम्भवात् । तव लौकिकसन्निकर्षजन्यज्ञानस्यैव विषयतया 'साक्षात्कारोमी'त्यनुव्यवसायजनकत्वाच्च । यत्तु स्फटिकादिकमुपभिद्य नयनरश्मिप्रसरणं प्रत्यभिज्ञाभिज्ञानां दूरभ्युपगममिति, तत्तु विकटकपाटसंपुटसंघटितमपवरकमुपभिद्य मृगमदसन्दोहसमागमसमसमाधानमिति कश्चित् । वस्तुतो मृगमदसंसर्गारब्धसुगन्धिद्रव्याण्येव बहिरनुभूयन्तेऽन्यथा बंहीयसा कालेन बंहीयसा वायुना तदवयवानां भूयसामपगमे तद्गुरुत्वप्रच्यवापाताद् । तथा च स्फटिकादिनापि प्रतिबन्धान्नयनरश्मीनां कथं बहिनिर्गमः ! अत एव काचपिकादितस्तच्छायद्रव्यान्तरारम्भोऽपि तत्र तत्र व्यावर्णितः।