________________
श्लो० १]
चक्षुस्प्राप्यकारितावादः
अपि च नयनस्य तैजसत्वाऽसिद्धया तद्रश्मय एव कुतत्स्याः । न च 'चक्षुस्तैजसं, रूपादिषु मध्ये रूपस्यैवाभिव्यञ्जकत्वात्, आलोकवदि 'त्यनुमानाच्चक्षुषस्तैजसत्वसिद्धिः, न चाब्जनेन व्यभिचारस्तस्य चाक्षुषप्रयोजकत्वेऽपि तदजनकत्वादिति वाच्यम्, अप्रयोजकत्वात्, अनुद्भुतरूपानुद्भूतस्पर्शतेजोऽन्तरकल्पने गौरवाच्च । अत एवेन्द्रियत्वं जन्यसाक्षात्कारत्वावच्छिन्नजनकतावच्छेदकः पृथिव्याद्यवृत्तिरेव जातिविशेष इति यौगैकदेशिनः । तेषामपि चक्षुः संयोगत्वेन हेतुतासिद्धयैव चक्षुःप्राप्यकारित्वसाधनाभिकांक्षा सम्पूर्येत, सैव तु नास्त्यत्र । 'तद्धेतोरेवाऽस्तु किं तेने'ति न्यायाच्चक्षुः संयोगत्वावच्छिन्न नियामकादेव चाक्षुषदेशविषयप्रतिनियमसम्भवात् । एतेन " योग्या चेद् योग्यता वः सपदि जनयितुं ज्ञानमक्ष्णोऽनपेक्षः, कस्मादस्माकमा कस्मिक इव न तदा हन्त वस्तूपलम्भः । आयासं कः प्रकुर्यादनणुमणिविभापूरिते गेहदेशे,
प्रद्योतार्थी प्रदीपं प्रकटयितुमलं तैलसम्पूरणादौ ॥१॥ अपि
९३
स्वनयननिकटोपटंकिनोऽर्थाः पटु विकसन्ति न जातु तत्प्रतीपाः,
जगति विचरतीह योग्यतेयं शिव शिव वञ्चन चातुरीधुरीणे || २ ||" इत्यादि निरस्तम् । यतः - योग्यता वस्तुनो बोधे, स्मृता प्रतिनियामिका ।
उपधानं पुनस्तस्य चक्षुरुन्मीलनादिना ||३||
यदाभिमुख्यं नियमाय कर्म्मणो, न नाम संयोगनियामकं धियः ।
हास्मि नास्मिन्नियमे स्पृहावहः कृतांत कोपस्तु तवैव केवलम् ॥४॥ यत्र यत्र परिसर्पति चक्षुः तत्र तत्र किल वेदनजन्म । गौतमीयसमये तदिदानीं प्राप्यकारिणि न चक्षुषि साक्षि ॥५॥
अनन्तनयनविषयसंयोगानां तत्तद्देशादिष्वनन्ततज्ञ्जनकत्वानाञ्च कल्पनायां महागौरवात् नयनक्रियाभिमुख्यस्य रूपादावपि सम्भवे बाधकाभावाद् द्रव्यतत्समवेतादिसाधारणचाक्षुषं प्रत्येकहेतुत्वे लाघवाच्च । 'लोहोपलस्य लोहाकर्षकत्वमिवाऽप्रत्यासन्नस्यापि चक्षुषश्चाक्षुषजनकत्वमि'त्यप्याहुः, तेषामपि सम्बन्ध विशेषाश्रयण मावश्यकमन्यथातिप्रसङ्गात् ।
,
तथा चैवं प्रयुञ्जते 'नयनं योग्यदेशावस्थिताऽप्राप्तार्थपरिच्छेदकम्, प्राप्तिनिबन्धनानुग्रहोपघातशून्यत्वात् मनोवदिति । वनस्पति-सुरालोकनादिना नयनानुग्रहोपघातोदयाद्वयभिचारवारणाय 'प्राप्तिनिबन्धने 'ति विशेषणम् । तदुपघातस्य प्राप्तिनिमित्तकत्वे नयनस्य जलानलसंयोगेन क्लेददाहापत्तेः । अथ मनसोऽपि घटादिनाऽलौकिक ज्ञानादिप्रत्यासत्तिसत्त्वात् साध्यविकलो दृष्टान्त इति चेत् ? न, संयोगप्रत्यासत्या परिच्छेदकत्वाभावस्यैव सिसाघयिषित -