________________
बृहत्स्याद्वादरहस्ये
संबन्धावच्छिन्नतदाधारताभावादयं न रक्त इति न प्रतीतिरिति चेत् ? हन्त तर्हि घटादौ ताहशाधारताया रक्तप्रागभावादौ रक्तत्वावच्छिन्नप्रतियोगिताकत्वस्य वाऽव्याप्यवृत्तिस्वमित्यत्र किं विनिगमकम् ? 'इदानी घटे न रक्तमिति प्रत्ययस्य तु एतत्कालीनरक्तत्वावच्छेदेन घटवृत्तिभिन्नत्वावगाहित्वादेव व्यवहारबलेन रूपवति रूपात्यन्ताभावसिद्धिर्निरसनीया । न च रूपधारावारणाय जन्यरूपत्वावच्छिन्नं प्रति रूपत्वावच्छिन्नाभावस्य हेतुत्वेन तत्सिद्धिः, व्यक्तिस्थानीयापत्तेः प्रामाणिकत्वेन प्रागभावस्य विशिष्य हेतुत्वावश्यकत्वात् घटपूर्ववृत्तिस्वद्रव्यत्वेन घटं प्रति हेतुत्वाऽसम्भवेऽपि तत्कपालत्वादिना तथात्वसम्भवात् ।
नन्वेवं गुणगुणिनोस्तादात्म्ये तयोर्जन्यजनकभावो न स्यादभेदे तदसंभवात् । अत एव 'नीलघटपदयोः शाब्दसामानाधिकरण्यनिर्वाहकतया गुणगुणिनोरभेदसिद्धिरि'त्यपास्तम् । तादात्म्येन स्वार्थान्वितार्थशाब्दबोधजनकत्वरूपस्य तस्य नीलपदे नीलवल्लक्षणादिनाऽपि निर्वाहात् । लक्षणादिप्रतिसन्धान विना तादृशशाब्दबोधस्यानिष्टत्वात् । अन्यथा 'वासो नील' इति प्रयोगापत्तेः । 'गुणे शुक्लादयः पुंसी'[अमर० १-५-१७]त्यनुशासनात् , अत्र गुणे शुक्लादिपदानां शुक्लत्वाधवच्छिन्नस्ववृतिज्ञानविशेष्यत्वसम्बन्धेनाऽन्वयात् । शुक्लत्वादिविशिष्टवृत्तिमत्त्वेन ज्ञातानामेव शुक्लादिपदानां पुल्लिंगकार्यदर्शनात् । अत एव 'शुक्लं वास' इत्यादौ शुक्लपदस्य शुक्लवति लक्षणयैव विशेष्यलिङ्गगामित्वम् । न चैवं तस्याऽप्रत्ययान्तत्वेनापि क्लीबत्वानुपपत्तिः, इष्टत्वातंत्राजन्तपदस्यैव क्लीबत्वात् । अत एव 'शुक्लोऽस्यास्तीति शुक्लमि'त्येव तन्निरुक्तिः । अत्र मुख्यविशेष्यतया शुक्लत्वादिविशिष्टवृत्तिज्ञानजन्यशाब्दबोधे शुक्लत्वाद्यवच्छिन्नमुख्यविशेष्यताकवृत्तिज्ञानजन्यपदार्थोपस्थितेस्तयैव हेतुत्वम् । न चैवमजन्तत्वादिस्थलेऽतिप्रसङ्गः, सामान्यत एव मुख्यविशेष्यतया शाब्दबोधं प्रति विशेषणत्वेनान्वयतात्पर्याभावापेक्षणात् । न चैवं 'घटस्य शुक्लमि'त्यादितोऽपि शुक्लत्वाधवच्छिन्नमुख्यविशेष्यताकशाब्दबोधापत्तिः, असाधुत्वज्ञानविरहदशायामिष्टत्वादित्यन्यत्र विस्तरः ।
यत्त्वेवं सति शुक्लपटशब्दयोरेकार्थत्वे 'शुक्लः पट' इति सहप्रयोगो न स्यात् , स्याच्च घटादेरिव तद्रूपादेस्त्वाचमपि, 'पटमानये'त्युक्ते यत्किञ्चिच्छुक्लानयनं च व्युत्पन्नस्य स्यात् , स्याच्चाऽपटः पट इति वदशुक्लः पट इति वचो विरोधप्रस्तं, पाकेन श्यामरक्तविनाशोत्पादाभ्यां घटस्य तो स्याता, घटसत्त्वे वा तयोस्तौ न स्याताम् । अथ शुक्लत्वादिजातिभेदान्नेमे दोषा इति चेत ? न, शुक्लत्वादेव्यवृत्तित्वेऽन्धस्य त्वचा द्रव्यत्वग्रहवद्रूपत्वग्रहस्यापि प्रसङ्गात् जातित्वाचं प्रत्याश्रयत्वाचस्यैव नियामकत्वादिति प्रत्यज्ञायि मणिकृता-तन्न, आश्रयत्वाचस्य नियमतः पूर्वमऽसम्भविनो जातित्वाचाऽहेतुत्वात् , रूपत्वाधन्यतमभेदस्य विषयतया त्वाचहेतुत्वेनाऽनतिप्रसङ्गाच्च । अथ भेदाभेदाभ्युपगमे न सर्वथाऽमेदपक्षसम्भावितप्रसरः प्रागुक्त दोष इति चेत् ?