________________
aanmmmmmm
प्रलो०१]
यशोविजयोपाध्यायविरचितम् भावाभावत्वान्नातिरिच्यत इत्यप्याहुरिति नूतननैयायिकानुसृतः पन्थाः । इत्यन्योन्याभावाऽव्याप्यवृत्तित्वव्यवस्थापनं न्यायनयेन ।
[जैनमतेऽन्योन्याभावस्वरूप-तदव्याप्यवृत्तितानिरूपणम् ] अथ स्वनयेन तद् व्यवस्थापयामः । अस्माकं तु भेदो वैधान्नातिरिच्यते, क्लुप्तेनैवोपपत्तावतिरिक्तकल्पनाऽयोगात् । न च पटत्वाधनन्तधर्मेषु घटभेदत्वकल्पनापेक्षयाऽतिरिक्त एव तत्र तत्त्वकल्पनौचित्यम् , तथापि पटत्वादिना विनिगमनाविरहादतिरिक्ततद्भेदभेदादिधाराकल्पने गौरवाच्च । इत्थं च भेदत्वमतद्वयावर्तकत्वम् , तच्चानुवर्तकत्ववत् स्वभावत एवेति प्राचां वचो व्याख्यातम् , स्वभावत इत्यस्य स्वधर्मत इत्यर्थकत्वात् । न चैवमपि 'स्थाणुः पुरुषो न वेति संशयानुपपत्तिस्तस्य स्थाणुत्वरूपपुरुषभेदग्रहात्मकत्वादिति वाच्यम्, तत्र स्थाणुत्वस्य स्वरूपतोग्रहेऽपि दोषप्राबल्यात्तवृत्तिभिन्नत्वेनाऽग्रहात् , पुरुषवृत्तिभिन्नत्वेन तत्तद्धर्मग्रहस्यैव पुरुषतादात्म्यसंशयनिवर्तकत्वात् । तथा च श्यामवैधयं रक्तत्वादिकमेव तभेदः पर्य्यवस्यति । तस्य चाऽव्याप्यवृत्तित्वम् अवच्छिन्नतादात्म्ययोगित्वं लाघवात् , न तु स्वसमानाधिकरणात्यन्ताभावाऽप्रतियोगित्वं, त्रैकालिकतादात्म्यपरिणामनिवृत्तेरेवात्यन्ताभावत्वेन तदात्मनि तदत्यन्ताभावाऽयोगाच्च।
नन्वेवं श्यामदशायां घटे न रक्तिमिति प्रयोगो न स्यात् सप्तमीसमभिव्याहृतनात्यन्ताभावस्यैव बोधात् , तस्य रक्तप्रागभावादिविषयकत्वे पुनरन्तरा श्यामे रक्ततादशायामपि तदापत्तिः । अत एव न तस्य प्रतियोगितामात्रेण रक्तविशिष्टाभावावगाहित्वमपि । तादृशतदवगाहिज्ञानस्य रक्तवत्ताज्ञानाऽप्रतिबध्यत्वात् । नन्वेवं ध्वंसप्रागभावयोरेव रक्तत्वाधवच्छिन्नप्रतियोगिताकत्वमव्याप्यवृत्त्यस्तु तथा च रक्ततादशायां प्रागभावादौ तदभावादेव न तथाधीरिति चेत् ? न, अनन्तध्वंसप्रागभावादिषु रक्तत्वावच्छिन्नप्रतियोगिताकत्व-तदव्याप्यवृत्तित्वकल्पनापेक्षया क्लुप्तात्यन्ताभावस्यैव तत्र सामयिकसंबन्धकल्पनौचित्यमिति चेत् ?
अत्र वदन्ति । परेषां घटेन सह रक्तत्वाभावसम्बन्धस्तावद्रतत्वाभावस्वरूप एव, घंटादेरननुगतत्वात्सम्बन्धान्तराऽयोगाच्च । तस्य च सामयिकत्वेऽनित्यत्वापत्तिः । अथ न रक्तत्वाभावमात्रमेव तत्सम्बन्धस्तथा सति पटीयरक्तत्वाभावेन रक्तेऽपि घटे तदभावव्यवहारप्रसङ्गात् , किन्तु विशिष्टप्रतीतिजननयोग्यतावच्छेदकावच्छिन्नस्यैव तस्य तत्त्वं, तद्योग्यतावच्छेदकं चात्र प्रतियोगिदेशान्यदेशत्वम् । तथा चात्र प्रतियोगिदेशान्यत्वस्य सामयिकत्वं निर्बाधमिति चेत् ? न, प्रतियोगिदेशत्वघटकसम्बन्धगवेषणयानवस्थानादाकाशादिदेशाऽप्रसिद्धेश्च ।
___ अथ यथा वायौ रूपसमवायसत्त्वेऽपि समवायसम्बन्धावच्छिन्नरूपाधारताभावाद्वायौ रूपमिति न धीः तथान्तरा श्यामे घटे रक्ततादशायां रक्कत्वात्यन्ताभावविशेषणतासत्वेऽपि विशेषणता
स्या. र. १२