________________
तलमि'त्यतो भूतले नीलविशेष्यविशेषणकनीलविधेयकबोधापत्या न प्रागुक्तहेतुहेतुमद्भावः सम्भवी'त्युक्तावपि न क्षतिः, अनुमितिविशेषे परामर्शविशेषवच्छाब्दबोधविशेष समभिव्याहारविशेषस्य हेतुत्वेनानतिप्रसङ्गात्।
___ स्यादेतत-'इदानी घटो न श्यामः' इत्यत्र नञो वैधर्म्यमर्थस्तत्र च वृत्तिमति भिन्ने च खंडशो वृत्तिरिति श्यामत्वविशिष्टं वृत्तिमति विशेषणावच्छेदककालावच्छिन्नाधेयतया वृत्तिमान्, भिन्ने तत्रैव चैतत्कालादिकमप्यन्वेतीति श्यामत्वविशिष्ट वृत्तिमद्भिन्नैतत्कालीनधर्मवानिति ततो बोधः । एवं 'शाखायां न कपिसंयोगी'त्यत्र कपिसंयोगविशिष्टं वृत्तिमति विशेषणावच्छेदकदेशावच्छिन्नाधेयतया वृत्तिमान् भिन्ने तत्रैव च शाखादिकमप्यन्वेतीति कपिसंयोगविशिष्टवृत्तिमद्भिन्नशाखावच्छिन्नधर्मवानिति ततो बोधः । तथा चान्योन्याभाक्स्य व्याप्यवृत्तित्वमेवोचितम् । अवच्छेदकाऽविशेषितप्रतियोगिमत्ता ज्ञानस्यैव तद्वत्ता, ज्ञानप्रतिबन्धकत्वादिति ।-मैवम् , एवं सति 'घटो न श्याम इति वाक्याद् 'घटः श्यामो न वे'ति संशयाऽनिवृत्तिप्रसङ्गात् । श्यामप्रकारकसंशयस्य श्यामाभावप्रकारकनिर्णयनिवर्त्यत्वात् । दृश्यते च ततस्तादृशवैधर्थे तदभावव्याप्यवत्ताज्ञानविधुराणामपि तत्संशयनिवृत्तिः।
किञ्चैवं श्यामात्यन्ताभावस्याप्यव्याप्यवृत्तित्वं न स्याल्लाघवेन श्यामाभावत्वावच्छेददेनैवा वच्छेदकाविशेषितश्यामाऽवृत्तित्वकल्पनौचित्यात् । 'घटे न श्याम'इत्यत्रापि श्यामस्य स्वावच्छेदककालावच्छिन्नस्वविशिष्टाधेयतासम्बन्धेन वृत्तिमत्यन्वयाऽबाधेन नो वैधार्थकत्वसम्भवात् । 'अन्यत्र भेदवत्प्रकारकबोधेऽप्यत्र तद्विशेष्यकबोधे समभिव्याहारविशेषस्य नियामकत्वात्ततोऽत्यन्ताभावत्वप्रकारिका प्रतीतिरानुभविकी ति चेत् ? 'न श्याम इत्यतोऽन्योन्याभावत्वप्रकारिका प्रतीतिरपि किन्न तथा ? प्रतिबन्धकत्वाभिमतव्याप्यवृत्तिधर्मवत्ताज्ञानेऽप्यव्याप्यवृत्तित्वज्ञानस्योत्तेजकत्वकल्पनावश्यकत्वाच्च नोक्तलाघवगन्धोऽपि । अपि चैवं श्यामात्यन्ताभावस्यैव श्यामान्योन्याभावरूपतया लाघवम् । तस्य तावद्व्यक्तिनिष्टान्यतरत्वावच्छिन्नभेदात्मकत्वे तावद्व्यक्तित्वनिष्टान्यतरत्वावच्छिन्नात्यन्ताभावात्मकत्वे वाऽतिगौरवात् । न चैवं 'श्यामो न श्याममिति प्रतीत्यापत्तिस्तद्वाक्याच्छ्चामत्वावच्छिन्नान्योन्याभावस्यैव लाभात् ।
एतेन 'संयोगिभेदस्य द्रव्यभेदात्मकत्वकल्पनमेवोचितं, अन्यथा नानासंयोगेषु तदभेदत्वकल्पनापातात् , तथा च सुष्ठुक्तं मेदस्याऽव्याप्यवृतित्वं, व्याप्यवृत्यभेदवति तदभेदासम्भवादि' त्यपि निरस्तम् , अनुगतसंयोगाभावाभाव एव तदभेदत्वकल्पनाच्च । स्वाभावाभावः प्रतियोग्येवेति व्याप्तौ लाघवस्यैव नियामकत्वेनाऽननुगतप्रतियोगिस्थलं तदतिरेकस्यैव न्याय्यत्वात् । यत्तु 'स्वाभावाभावस्य प्रतियोगिरूपत्वे 'घटाभावो नास्ती'त्यादिप्रतीतेरभावीयविशेषणतया तदवगाहिन्या अनिर्वाहात्तदतिरेकसिद्धिरिति, तदसत् , क्लुप्तप्रतियोगितावच्छेदकसम्बन्ध एव तदभावीयविशेषणतात्वकल्पनेन तन्निहिात् । संयोगिमेदावित्वं क्लुप्तसैंयोगवृत्तिसंयोगा