________________
श्लो० १]
यशोविनयोपाध्यायविरचितम् [अन्योन्याभावस्याऽव्याप्यवृत्तित्वव्यवस्थापनं न्यायमतेन] नन्वेवमन्योऽन्याभावस्याऽव्याप्यवृत्तित्वं स्यादिति चेत् ? स्यादेव । कथमन्यथाऽतिरिक्तभेदवादिनोऽपि पक्वदशायां 'घटेऽयं न श्याम' इत्यादिशाब्दी प्रतीतिः ? न हीयं श्यामात्यन्ताभावमेवावगाहते, अव्ययनिपातातिरिक्तनामार्थप्रकारतानिरूपितात्यन्ताभावत्वावच्छिन्नविशेष्यतया नड(ब)पदजन्यशाब्दबोधे सप्तमीसमभिव्याहृतनपदजन्यपदार्थोपस्थितेर्विशेष्यतया हेतुत्वादत्र च तदभावात् । अथात्र सप्तमी विनापि नोऽभाववल्लाक्षणिकतयाऽत्यन्ताभावावच्छिन्नविशेष्यतया शाब्दबोधो निर्बाधः, भेदत्वानवच्छिन्नविशेष्यताया अतिप्रसञ्जिकाया अतथात्वेनात्यन्ताभावत्वावच्छिन्नविशेष्यताया एव कार्य्यतावच्छेदकसम्बन्धत्वात, अत्यन्ताभावत्वावच्छिन्नविषयतया शाब्दबोधं प्रति तु पदार्थोपस्थितेरपि तयैव हेतुत्वमावश्यकमन्यथातिप्रसङ्गात्, तथा च सप्तमीसमभिव्याहृतत्वमपि हेतुतावच्छेदककोटौ न निविशतेऽनावश्यकत्वादिति नोक्तदोष इति चेत् ? न, अभावत्वप्रकारकनपदशक्तिग्रहादभावत्वेनैवाभावोपस्थितेरभावत्वेनैव शाब्दबोधात् संसर्गावच्छिन्नप्रतियोगिताकत्वादेरन्वयबललभ्यत्वेन परमत्यन्ताभावत्वस्य शाब्दाबोधान्तःप्रवेश इति ।
___ अथाभावत्वप्रकारकनपदशक्तिग्रहाहितसंस्कारेण संसर्गावच्छिन्नप्रतियोगिताकत्वांशे उद्बुद्धेनाऽत्यन्ताभावत्वप्रकारकोपस्थितिरेवात्यन्ताभावत्वप्रकारकशाब्दबोधजननीति चेत् ? न, तदंशेऽनन्तोद्वोधककल्पनामपेक्ष्य क्लप्तशाब्दबोधजनकतावच्छेदककोटौ सप्तमौसमभिव्याहृतत्वनिवेशस्यैवोचितत्वात् , तवापि सप्तमीसमभिव्याहारस्यैव नियततदुद्बोधकत्वकल्पनौचित्येन कथमितस्तं विना तथा धीः ? एतेनाऽस्खण्डोपाधिरूपात्यन्ताऽभावत्वान्योन्याभावत्वयोर्नञ्पदशक्यतावच्छेदकत्वमतेऽपि 'घटो न श्याम' इत्यादितोऽत्यन्ताभावत्वप्रकारकोपस्थितिः परास्ता, अन्यथा 'घटो न घट' इत्यस्यापि प्रसङ्गात् । अव्ययनिपातातिरिक्तत्ववन्मत्वर्थप्रत्ययप्रकृत्यतिरिक्तनामार्थप्रकारकात्यन्ताभावबोध एव सप्तम्यास्तन्त्रत्वाद् 'न संयोगवानि'त्यादौ संयोगात्यन्ताभावबोधः सुघट एवेत्यप्यतिमन्दम्, 'घटो न श्याम' इत्यत्र श्यामपदस्य श्यामत्वविशिष्टे लाक्षणिकत्वात्तवापि तद्बोधानापत्तेः, स्फुटगौरवाच्च ।
किञ्च, मतुबर्थविशेषणत्वेनान्वितस्य संयोगादेविशेषणत्वेनाभावेऽन्वयो दुर्घटो निराकांक्षत्वात् । तद्विशेष्याऽविशेषणकतद्विधेयकशाब्दबोधे तवृत्तपदसमभिव्याहृतपदजन्यतदितराऽविशेषणकतदुपस्थितेर्हेतुत्वात् । तद्विशेष्याविशेषणकतद्विधेयकत्वञ्च तद्विधेयतानिरूपितप्रकारताऽनिरूपिततद्विधेयतानिरूपितोद्देश्यताकत्वं, नाऽतो 'नीलघटवद्भूतलमि'त्यत्र नीलविशेष्यस्य घटस्य विशेषणत्वेऽपि क्षतिः ।
वस्तुतः ‘कपिसंयोगवान्ने'त्यादिसमभिव्याहारस्य संयोगवद्विधेयकाभावोद्देश्यकबोध एव हेतुत्वस्य क्लुमत्वात्संयोगविधेयकाभावोद्देश्यकबोधहेतुत्वकल्पने गौरवमेव । एतेन 'नीलघटवर्मू