________________
८६
बृहत्स्याद्वादरहस्यं
घट' इति बोधाकारत्वात् । प्रमाणार्पणात्तु द्रव्यपर्यायोभयात्मकः प्रध्वंसः, अन्ततो विनिगमनाविरहेण घटोत्तरकालस्यापि तथात्वात् प्रतीतिसाक्षिकत्वाच्च । अत एव "ने भवो भंगविहीणो गोवा णत्थि सम्भव विहीणो । उप्पादो वि य भंगो, ण विणा घोव्वेण अत्थेण " ॥ [ प्र० सार २८ ] इत्यनेन सर्गस्थितिसंहाराणां नान्तरीयकत्वं प्रत्यपादि । कपालकदम्बकसर्ग एव हि घटसंहारो घटसंहार एव च कपालकदम्बकसर्गः, तत्सर्गसंहारावेव च मृदः स्थितिः, सैव च तत्सर्गसंहारौ । भावस्य भावान्तराभावस्वभावेनाभावस्य च भावान्तरभावस्वभावेन, अन्वयस्य व्यतिरेकमुखेन व्यतिरेकाणां चान्वयानुल्लंघनेन प्रकाशनादिति स्याद्वादरत्नाकरमीमांसा मांसलधियामास्वादसुन्दरो विचारः । इति ध्वंसस्वरूपनिरूपणम् ॥
स्यादेतत्—घटत्वेन
घटध्वंसस्येवात्मत्वादिनात्मादिध्वंसाभावादेकान्तनित्यत्वमात्मादेः स्यादिति चेत् ? मैवम्, ध्वंसप्रतियोगित्वे सति ध्वंसाऽप्रतियोगित्वेनैवै कान्तत्वापायात् । यस्तु विशेषो यदात्मत्वादिनात्मादेर्नित्यत्वं तद्भावाव्ययत्वात् घटत्वादिना घटस्य तु नातथात्वादिति । मनुष्यत्वादिना त्वात्मादेरपि ध्वंसोऽनिवारित एवेति तत्त्वम् ॥
ननु तद्भावाव्ययत्वं ध्वंसप्रतियोगिता नवच्छेदक रूपवत्त्वमिति कम्बुग्रीवादिमत्त्वेन घटस्य नित्यत्वं स्यादिति चेत् ? न, गुरुधर्मेऽप्यवच्छेदकत्वस्य व्यवस्थापितत्वात् । वस्तुतो ध्वंसप्रतियोगित्व - तदप्रतियोगितयोः संयोगतदभावयोरिव समावेशाय शाखामूलयोरिव घटत्वद्रव्यत्वयोरवच्छेदकत्वमतो न काप्याशङ्का । अथ कपालनाशादेः सामान्यतः कपालादिसमवेतनाशं प्रत्येव कारणत्वात्प्राचि पक्षे घटत्वेन घटध्वंस आकस्मिक इति चेत् न, घटपरिणत कपाळनाशस्यैव घटनाशत्वात् । घटत्वावच्छिन्नस्वाधिकरणता सम्बन्धत्वावच्छिन्नप्रतियोगिता कघटाभाववद्वैशिष्ट्याव च्छेदेन कालवृत्तित्वघटितस्य घटनाशत्वस्यार्थसमाजसिद्धत्वेन कार्यतानवच्छेदकत्वाच्च ।
एवं चातिरिक्तनाशकल्पने तदनुरुद्धानन्तकार्यकारणभावकल्पनगौरवमपि बाधकं बोध्यम् । तदनुपस्थितिदशायां वलुप्तस्याप्यतिरिक्तत्वस्यानन्तरं तदुपस्थितिरूपबाधकापोद्यत्वात् ।
[अकृतागमदोषारोपः]
तथा 'अकृतागमः', पर्यायाणामपि नित्यानामेव सतामागन्तुकत्वात्, अन्यथा पर्यायवतोऽप्यनित्यत्वापत्तौ नित्यत्वपक्षहाने: । अथ घटत्वादेरेव कपालादिजन्यतावच्छेदकत्वात्तस्य च परमाणुरूप स्वद्रव्यावृत्तित्वान्नायं दोष इति चेत् ? न, 'एतानि कपालान्येव घटतया परिणतानी'ति प्रतीत्याऽवयवावयविनोः स्यादमेदसिद्धेः तेनैव परिणम्यपरिणामकभावात् । न चैवं 'वह्निपरिणतोऽयस्पिड' इति प्रतीत्याऽयस्पिडस्यापि वह्नयभेदापत्तिस्तदानीमिष्टत्वात् । तदिदमुक्तम् “पैरिणमदि जेण दव्वं तक्कालं तम्मयत्ति पण्णत्तं" ति । इयांस्तु विशेषो यत् स्वावयवावयविनोरेकप्रदेशभावेनाभेदोऽनयोः पुनरेकावगाहताभावेनेति ।
१ - - न भवो भंगविहीनो भंगो वा नास्ति सम्भवविहीनः । उत्पादोऽपि च भंगो न विना प्रौव्येनार्थेन ॥ २ - ' परिणमति येन द्रव्यं तत्कालं तन्मयमिति प्रज्ञप्तम्' । [ इतिसंस्कृतम् ]