________________
प्रलो. १]
.. सस्वरूपम् वस्य तदर्म एव प्रतियोगितेति फलितप्रसङ्गाच्च । नापि "अभावविरहात्मत्वं भावानां प्रतियोगिता" (न्या० कु.) इत्युदयनाचार्योंऽपि चारुविचारचातुरीसमालोचनपूर्वमुदचोचरत् ; यतोऽभावविरहत्वं यद्यभावाभावत्वं तदान्योन्याभावप्रतियोगितावच्छेदकयोरप्रसक्त्यतिप्रसक्ती । यदि पुनरभावज्ञानप्रतिबन्धकज्ञानविषयत्वं तत्, तदा घटव्याप्ये घटाभावप्रतियोगित्वापत्तिः । न च स्वाभावेत्युक्त्या तब्युदासः तथा सति स्वस्यैव तथावक्तव्यतापातात् । 'स्वस्याभाव' इत्यत्र षष्ट्यर्थप्रतियोगित्वाऽपरिचयाच्च । तत्सम्बन्धावच्छिन्नत्वविषयतावच्छिन्नतद्धर्मनिष्ठविषयतावच्छिन्नावच्छिन्नत्वविषयतावच्छिन्नविषयतानिरूपिताभावत्वावच्छिन्नप्रकारतानिरूपिताभावीयविशेषणतानिष्ठसांसर्गिकविषयतानिरूपितविशेष्यताकज्ञानप्रतिबन्धकतावच्छेदकीभूततत्स-- म्बन्धावच्छिन्नसांसर्गिकविषयतानिरूपकप्रकारतायाः तथात्वे तु 'प्रमेयं नास्तीति प्रतीतेः प्रमात्वापातात् । तस्मात् प्रतियोगित्वं प्रतियोगिस्वरूपमभावस्वरूपमस्तु वा यत्किश्चिदेतत्, तथापि तव घटाभावाभाव इव भावरूपे नाशे न सप्रतियोगिकत्वसम्बद्धं इति प्रतियोगिताविचारः ॥
[ध्वंसस्वरूपनिरूपणम्] __स्यादेतत् 'घटोत्तरकालवृत्ती'त्यत्र घटोत्तरत्वं यदि घटनाशााधकरणत्वं तदात्माश्रयः । यदि तु तदधिकरणक्षणध्वंसाधिकरणत्वं तदा द्वितोयादिक्षणेष्वेव घटध्वंसापत्त्या ऋजुसूत्रप्रवेशः, क्षणध्वंसस्य दुर्वचत्वश्च । एतेन यावद्घटाधिकरणक्षणध्वंसाधिकरणल्वमपि परास्तम् घटाधिकरणभिन्नत्वमित्युक्तावपि चरमसमयोत्पन्नकर्मव्यक्तिमादाय तदुत्तरं तवंसव्यवहाराऽनापत्तिः, प्रागभावेऽतिव्याप्तिश्च । एतेन तदुत्तरकालवृत्तित्वमित्यस्य तदधिकरणत्वाभाववैशिष्ट्यावच्छेदेन वृत्तित्वमित्यर्थकत्वमपि प्रत्याख्यातं, घटप्रागभावानधिकरणत्वे सति घटानधिकरणत्वस्य तथात्वे तु प्रागभावलक्षणस्य ध्वंसानधिकरणत्वे सति घटानधिकरणत्वगर्भपूर्वकालवृत्तित्त्वघटिततयाऽन्योन्याश्रय इति । अत्रोच्यते स्वद्रव्यमेव ध्वंसः सर्वत्रानुगतत्वात् । 'घटो ध्वस्त' इत्यादौ तु घटस्य स्वद्रव्ये पूर्वाऽज्ञातमप्युत्तरकालवृत्तित्वं संसर्गतया भासत इति काऽऽत्माश्रयादि ? न चैवं ध्वंसप्रागभावपदयोः पर्यायत्वापत्तिः, एकव्यवहारजनकत्वाभावात् । 'ध्वंसवान्' इति शाब्दबोधोत्तर'प्रागभाववान वे'ति संशयस्त्वनिष्ट एवेति । एवं च
दृष्टस्तावदयं घटोऽत्र नियतं दृष्टस्तथा मुद्रो, दृष्टा कर्परसंहतिः परमतोऽभावो न दृष्टोऽपरः तेनाभाव इति श्रुतिः क्व निहिता किं वात्र तत्कारणं,
स्वाधीना कलशस्य केवलमियं दृष्टा कपालावली ॥१॥ इति व्याख्यातम् । अथ 'मुद्गरपाताद्विनष्टो घट' इति तावदनुभूयते, तत्र घटोत्तरकालो वा मृद्रव्यंवा न तजन्यं, तं विनैव स्वहेतुसमाजात्तदुत्पत्तेरिति चेत् ! न, 'मुद्गरपातावधिकस्वोत्तरकालवृत्तिस्वद्रव्यपरिणामी