________________
नाय दोषः । 'एकदेशकालावच्छेदेने त्यस्य च दैशिकावच्छेदकतया तदभावशून्येनानवच्छिन्नत्वे सति कालिकावच्छेदकतया तदभावशून्येनानवच्छिन्नं यत् सम्बन्धित्वमित्यर्थान्न गोत्वाऽभावाचनच्छेदकाऽपसिद्धिप्रयुकोऽपि दोष" इति चेत् ? न, प्रागभावादिप्रतियोगितायाः सावच्छिन्नल्वेऽमि घटप्रागमावे घटप्रागभावाभावस्य घटप्रागभावरूपतया तत्प्रतियोगिताया व्याप्तेस्तदभाक्त्वविशिष्टाधिकरणतोक्तावपि गुणकर्मान्यत्वविशिष्टसत्ताभाववति तस्याऽवृत्तेस्तत्प्रतियोगिलायामव्याप्तेः ।
अथ-'यद्धर्मावच्छिन्ताधिकरणतात्वावच्छिन्नाभावत्वं-यद्धर्मावच्छिन्नाभावत्वविशिष्टाधिकरणतावत्यनवछिन्नविशेषणतया वर्तमानस्याऽभावस्य प्रतियोगितानवच्छेदकं -तद्धर्मवत्त्वं तद्धर्मावच्छिन्नाभावप्रतियोगितेति निष्कर्षः । तेन न घटस्य पटाभाववदघटाऽवृत्तितया घटाधिकरणत्वगगनोभयाभावत्वेन मेयत्वेन वा घटाधिकरणत्वाभावस्य पटाभावव्यापकत्वेन च पटाभावप्रतियोगितापत्तिः । न वा घटभेदसम्बन्धिसंबन्धित्वस्यैव लाघवेन प्रतियोगितावच्छेदकत्वादेशतयाऽनवच्छेदकानवच्छिन्नत्वे सति काउतयाऽनवच्छेदकानवच्छिन्नघटभेदसम्बन्धिसम्बन्धित्वावच्छिन्नाभकाप्रसिद्धर्घटे घटभेदप्रतियोगिताऽनापत्तिः । न वा सत्ताभाववति समवायेन वृत्तित्वाइप्रसिद्धया सत्ताभावप्रतियोगितायामव्याप्तिः, स्वसम्बद्धाधिकरणाऽवृत्तितरकत्वविवक्षायां च सत्ताभाववत्यभावतानियामकसमवायेन वृत्तित्वाऽप्रसिद्धया सत्ताप्रतियोगितायां सा । प्रतियोगितावच्छेदकसम्बन्धेनाधिकरणतोक्तेरावश्यकत्वे व्यधिकरणसम्बन्धावच्छिन्नाभावप्रतियोमितायामव्याप्तिः परमवशिष्यते, सापि प्रतियोगितावच्छेदकसम्बन्धावच्छिन्नोयत्वविशिष्टाधिकरणत्वीयविशेषणतया स्वाधिकरणत्वाभावविवक्षया निरसनीया इति चेत् ?
न, तथापि पृथिवीत्वे द्रव्यत्वाभावप्रतियोगितापत्तेः । नियमपदस्य व्याप्यत्वार्थकत्वेऽपि तत्र घटत्वाभावप्रतियागित्वापत्तेः । एतेन 'यादृशप्सम्बन्धसामान्ये यद्धर्मावच्छिन्नप्रतियोगिकवायदभावाधिकरणानुयोगिकत्वोभयाभावस्तद्धर्मवत्त्वं तद्धर्मावच्छिन्नतत्सम्बन्धावच्छिन्नतदभावप्रतियोमिते'ति दीधितिकृतां खंडशः प्रसिद्धया व्यधिकरणसम्बन्धावच्छिन्नाभावादिप्रतियोगिताऽव्यामिनिससाय तन्निरुक्तिरपि प्रत्याख्याता, अव्याप्यवृत्त्यभावादिप्रतियोगितायामव्याप्तेश्च ।
अथ 'यद्धर्मावच्छिन्नाधिकरणतात्वावच्छिन्नाभावत्वं स्वविशिष्टव्यापकतावच्छेदकयधर्मावच्छिन्नाभावत्वविशिष्टव्यापकतावच्छेदकमिति विवक्षायां नोक्तदोषः । व्यापकताघटकात्यन्तसभामदिप्रतियोगिताश्च विशिष्योपादेया इति पृथिवीत्वाधिकरणत्वाभावस्य विशिष्टपृथिवीत्वाभावत्वविशिष्टवन्निष्ठात्यन्ताभावप्रतियोगितावच्छेदकत्वत्वावच्छिन्नाभावाऽसम्भवेऽपि न क्षतिरिति चेत् ! न, तथापि तद्रसे तद्रूपत्वावच्छिन्नाभावस्य तद्रूपत्वावच्छिन्नप्रतियोगितापत्तेः ! स्वसमानाधिकरणयद्धर्मावच्छिन्नेत्याधुक्तावपि तत्र तद्रसघटान्यतरत्वावच्छिन्नाभावस्य तदवच्छिन्नप्रतियोगितापत्तेः । स्वाक्छिन्नाभावत्वप्रवेशे तु स्वविशिष्टेत्यादिदलवैयर्थ्य, लाघवेन तत्सम्बन्धावच्छिन्नतद्धर्मावच्छिन्नाभा