________________
लो० १]
नयमेषेन ध्वंसस्वरूपम्
स्तस्यैव प्रध्वंसत्वाऽभ्युपगमात् । ननु ' यदुत्पत्तावि' त्यत्र सप्तम्यर्थः पूर्वकालवं, निमित्तत्वं वाऽनुपपन्नम्, कपालपालेरुत्पत्तेः प्रागुत्तरं वा घटविपत्तेरनभ्युपगमात्तदुत्पत्तिसमय एव प्रत्युत तदभ्युपगमात् । किञ्च विपत्तिपदार्थस्याप्यत्राऽपरिचयस्तस्य प्रध्वंसातिरिक्तस्य वक्तुमशक्यत्वात्, न चोत्पन्नस्य यस्य यदुत्पत्तौ सत्यां योग्यानुपलब्धिः स तस्य प्रध्वंस इत्यत्र तात्पर्यम्, अयोग्य - M ध्वंसेऽतिव्याप्तेः । एतेन 'विपत्तिव्यवहारव्याप्योत्पत्तिकत्वमपि तल्लक्षणं' परास्तमिति चेत् ? मैवं, ' यदुत्पत्त्यधिकरणे उत्पन्नस्य यस्यावश्यमभावः स तस्य प्रध्वंस इत्यर्थे दोषाऽभावात् । नचैवमवश्यं पदवैयर्थ्यं पूर्वोन्नेऽतिव्याप्तिवारणाय व्याप्यत्वार्थकस्य तस्य साफल्यात् ।
तत्र ऋजुनये उपादेयक्षण एवोपादानप्रध्वंसः । न च द्वितीयादिक्षणेष्वेवं ध्वंसस्था-' भावेन घटस्य पुनरुन्मज्ञ्जनापत्तिः, ध्वंससंताना भावस्यैव तदापादकत्वात् । अत एव प्रागभावस्यापि पूर्वितत्तत्क्षण रूपत्वेऽपि नादिमक्षणरूपप्रागभावोपमर्दनात्मकत्वेन द्वितीयक्षणस्य प्रतियोगित्वप्रसङ्गः, प्रागभावसन्तानोपमर्दनेनैव प्रतियोग्यात्मलाभात् ।
i
व्यवहारनये तु घटोत्तरकालवर्त्तिमृदादिस्वद्रव्यं घटप्रध्वंसः । घटपूर्ववर्तिनि मृदादिस्वद्रव्येऽतिव्याप्तिवारणाय 'घटोत्तरकालवर्ती'ति । घटोत्तरकालवर्त्तिन्यपि मृदादिसन्तानान्तरे तद्वारणाय 'स्वे 'ति । समनियताभावस्त्वेक एवेति भावः । एतेन 'कपालस्यैव घटध्वंसरूपत्वे घटप्रागभावकालेऽपि 'घटो नष्ट' इति प्रतीतिः स्यादिति दूषणमनवकाशं वेदितव्यम्, विशिष्ट कपालस्य प्रागसत्त्वात् । विशिष्टाऽविशिष्टयोः कथञ्चिद्भेदस्तु सुप्रतीत एव, क्षणभङ्गाद्यापत्तेः सर्वथा भेदपक्ष एव दूषकत्वाद् । न चैवं दुःखध्वंसस्याप्यात्मरूपत्वेनाऽजन्यत्वान्मोक्षस्याऽपुरुषार्थत्वापत्तिः, स्याद्वादिभिरात्मनोऽपि कथञ्चिज्जन्यत्वाऽभ्युपगमात् ।
अथैवं 'भूतले कपालकदम्बकमि 'तिवद्' भूतले घटध्वंस' इत्येव प्रतीतिः स्यान्न तु 'कपाले कपालमि'तिवत् 'कपाले घटध्वंस' इति चेत् ? न, प्रतीतिबलेन घटध्वंसत्वविशिष्टाधारतावच्छेदकत्वस्य कपालत्वेऽपि स्वीकारादिति सम्प्रदायपरिष्कारः । नन्वेवं भावरूपत्वे ध्वंसस्य निःप्रतियोंगिकतापत्तिः, न चेष्टापत्तिः, 'घटो ध्वस्त' इत्यादितो 'ध्वंसप्रतियोगी घट' इत्यबाधितानुभवात् । एतेनाभावव्यवहार एव सप्रतियोगिको न त्वभाव इति निरस्तम्, अनुभवव्यवहारयोः समानप्रकारकत्वेन कार्यकारणभावात्तदननुभवे तदव्यवहारप्रसङ्गाच्चेति चेत् ?
[प्रतियोगिताविचारः]
किमत्र प्रतियोगित्वम् ? न तावत्सहानवस्थाननियमरूपं विरोधित्वम्, अव्याप्यवृत्त्यत्यन्ताभावप्रागभावादिप्रतियोगितायामव्याप्तेः । न चैकदेशकालावच्छेदेनेति विशेषणान्नायं दोष इति वाच्यम्, अन्योन्याभावप्रतियोगितायां तथाप्यव्याप्तेः । “सम्बन्धान्तरेण वहून्यभाववति सम्बन्धान्तरेण वहूनेर्वृत्तेस्तेन सम्बन्धेन तदभाववति तेनाऽवृत्तौ वक्तव्यायां तेनाऽसम्बन्धत्वोक्ती'