________________
बृहत्स्याद्वादरहस्ये
व्याघातात्, अतो नोक्ताऽप्रसिद्धिः । न चैवं गुरुधर्म्मस्य प्रतियोगिता नवच्छेदकत्वादनित्यघटादौ ध्वंसप्रतियोगितानवच्छेदक - कम्बुग्रीवादिमत्त्वसत्त्वात् सिद्धसाधनम्, अवच्छेदकत्वत्वप्रकारकावच्छेदकत्वज्ञानस्यैव गौरवज्ञानप्रतिबध्यतया सांसर्गिक प्रतियोगितावच्छेदकत्वज्ञानस्य तदप्रतिबध्यत्वात्, गुरुधर्मस्यापि प्रतियोगितावच्छेदकत्वात् । न च गौरवज्ञाने सति कम्बुग्रीवादिमत्त्वे दण्डकार्य्यतावच्छेदकत्वमित्यवच्छेदकत्वत्वावच्छिन्न विशेष्यता कज्ञानस्याप्यनुदयादवच्छेदकत्वत्वावच्छि नविषयताकज्ञानस्यैव तथात्वात्सांसर्गिकविषयतातिरिक्तविषयतानिवेशे गौरवाद् गुरुधर्मे न तथात्वमिति वाच्यम् ; तथापि प्रकारतावच्छेदकत्वज्ञानवत्प्रतियोगितावच्छेदकत्वज्ञानस्यानुभवविरोधेन तदप्रतिबध्यत्वात् । वस्तुतोऽत्रावच्छेदकत्वमनन्तर्भाव्य 'ध्वंसाऽप्रतियोगित्वं ध्वंसप्रतियोगित्वसमानाधिकरणं न वेत्यादिविप्रतिपत्तौ न काप्याशङ्का ।
८२
[ एकान्तनित्यवादे कृतनाशदोषारोपः ]
सत्त्वस्य=पदार्थत्वेनोभयमत सम्प्रतिपन्नस्य, 'उत्पादव्ययधौव्यात्मकस्ये 'ति व्याख्यानं तु स्वमतावष्टम्भेन शोभते परमते धर्मितावच्छेदकाऽनिश्चयात् । एकान्त नित्यत्वे - नित्यत्वाऽसम्भिन्ननित्यत्वे'ऽभ्युपगम्यमान' इति शेषः । कृतनाशो - घटादिपर्यायाणां कुम्भकारादिकृतानां सर्वथानाशः स्यादनित्यस्य नित्यत्वविरोधात्, घटादीनामनित्यत्वे च बहुवादिनामविवादात् । परमाणूनामाकाशादीनां च सर्वथा नित्यत्वं, स्थूलपृथिव्यादिचतुष्टयस्य तु सर्वथाऽनित्यत्वमिति - निगर्वः । एतच्च प्रत्यक्षविरुद्धं, न हि कम्बुग्रीवत्वादिनेव मृत्त्वेनापि घटो नष्ट इति कश्चित् प्रत्येति, प्रत्युत पूर्वमयमेव मृत्पिडस्तत्कम्बुग्रीवत्वादिनासीदिति सर्वोऽपि प्रत्यभिजानीते । न चेयं विशेषणाऽभावमेव विषयीकुरुते, लुङर्थाऽतीतत्वस्यान्वयस्य धात्वर्थ एव व्युत्पत्तिसिद्धत्वात् । कम्बुग्रीवत्वावच्छिन्नध्वंसप्रतियोग्यस्तित्ववति मृत्पिंडे घटाऽभेदस्याऽवाधितप्रत्यभिज्ञानात् । 'कुण्डली दण्डेनासीदिति प्रतीत्या विलक्षणाभावसिद्धेरपीष्टत्वात् ।
यत्तु-'यदि ह्यतीतविशेषणावच्छेदेन विद्यमानस्यैव विशेष्यस्य ध्वंसः स्यात्तदा क्षणरूपातीतविशेषणावच्छिन्नत्वेन प्रतिक्षणं घटस्य विनाशः स्यादित्यभिदधे मणिकृता, तत्तु तादृशक्षणभङ्गस्य दोषानावहत्वात्तदीयैरैव दूषितम् । यदपि 'कपालादिसमवेतनाशं प्रति कपालादिनाशस्य कारणत्वात्कथं कपालादिनाशादर्वागतीत विशेषणावच्छेदेनापि घटध्वंससम्भव' इति, तदपि तुच्छं, उत्पन्नकपालकदम्बकरूपस्य घटनाशस्य तदानीमनभ्युपगमात् । तत्तत्क्षणावच्छिन्नघटादिनाशस्य तु तत्तत्क्षणोत्तर समयविशिष्टमृद्रव्यरूपस्याssगन्तु कोपाधिजन्यत्वात् कपालनाशात्पूर्वं सम्भवे बाघकाऽभावात् ।
कश्चित्त--संसर्गाविच्छिन्नकिञ्चिद्धर्मावच्छिन्नप्रतियोगिता कस्या भावस्यात्यन्ताभावत्वं नियमान्न प्रागुक्तप्रतीतेर्विशेषण' वच्छिन्नविशेष्यध्वं स विषयत्वमिति, तत्तच्छं, यदुत्पत्तौ कार्यस्यावश्यं विपत्ति