Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 159
________________ बृहत्स्याद्वादरहस्ये ___ यत्तु-पृथक्त्वमप्यन्योन्याभाव एवेत्यभिदधे दीधितिकृता-तदसत्, एवं सति 'घटः पटात् पृथगितिवद् 'घटरूपात् पृथगि'तिप्रत्ययप्रसङ्गात् । न चैवं प्रतीयते, यदवोचाम “'अण्णं घडाउ रुवं ण पुढोत्ति विसारदाण ववहारो । भेदा उणो पुढत्तं, भिज्जदि ववहारबाधेणं" ति ॥ तथा च पृथक्त्वस्य व्यावकत्वाऽविशेषेऽप्यन्योन्याभावाद्वैलझण्यमेवेति तत्त्वम् । किञ्चैव परेषां रक्ततादशायां घटे श्याममेदतदपृथक्त्वधियौ कथमिव समगंसाताम् । न पृथगित्यस्य तद्व्यक्तित्वावच्छिन्नभेदाभाववानित्यर्थकत्वे ततः श्यामत्वावच्छिन्नपृथक्त्वसंशयाऽनिवृत्त्यापत्तिः । 'पृथक्वं गुणविशेष' इति प्राचां नैयायिकानामपि वचोऽविचारितरमणीयं, तत्साधकस्य पृथक्त्वव्यवहारस्य गुणादावपि जागरुकत्वात् । 'घटः पटात् पृथगि'त्यादिव्यवहारस्य क्लुप्तेनाऽन्योन्याभावेनैवोपपत्तावतिरिक्तपृथक्त्वस्य तत्र नानाविधावधिज्ञानव्यंग्यत्वादेश्च कल्पने गौरवम् । एतेनात्मेतरद्रव्यसाक्षात्कारत्वापेक्षया लघुन आत्मपृथक्साक्षात्कारस्यैवोदभूतरूपकार्यतावच्छेदकत्वौचित्यादतिरिक्तपृथक्त्वसिद्धिः इत्यपास्तमिति तु नव्याः। तत्तु प्रागेव दूषितम् । मतभावश्च तत्वेनाप्रतीयमानत्वम् , तदवृत्तिधर्मवत्त्वमिति यावत् । न चातभावातिरिक्तोऽन्योन्याभावोऽस्ति, तस्य तुच्छत्वादतिरिक्ताभावसम्बन्धस्य स्वयं सम्बद्धत्वस्वभावावश्यकत्वे द्रव्येण सममभावादेरेव स्वतः सम्बन्धौचित्यादित्याहुः । अत्रेदमस्माकमाभाति । प्रविभक्तप्रदेशत्वमित्यत्र बहुव्रीह्याश्रयणे परमाणवः कुतोऽपि न पृथग्भवेयुः । एवं कर्मधारयाश्रयणे देशस्कन्धयोरपि स एव दोषः । स्कन्धाश्रितपरमाणूनामेव प्रदेशपदवाच्यत्वात्परमाणूनामपि पृथक्त्वं न घटेत । अथ प्रदेशपदस्याविभागिद्रव्यांशपरत्वे 'श्वेतो धावती'त्यादाविवाऽऽवृत्त्योभयसमासाश्रयणेनोभयथाऽन्वयात्तदन्यतरत्वस्य तल्लक्षणतया पर्यवसानमिति चेत् ? किं तर्हि प्रदेशेषु प्रविभक्तत्वम् ? न तावदन्यत्वम् , एकद्रव्यस्यैव प्रदेशानां तादृशत्वात् । नापि पृथक्त्वं, तस्य प्रविभक्तस्कन्धकत्वरूपतयाऽन्योन्याश्रयात् ? तथाहि, प्रदेशानां प्रविभक्तत्वसिद्धौ प्रविभक्तप्रदेशत्वरूपं स्कन्धानां पार्थक्यं सिध्यति, सिद्धे च स्कन्धानां प्रविभक्तत्वे प्रविभक्तस्कन्धकत्वरूपं प्रदेशानां पार्थक्यं सिद्धयतीति । अथ 'पृथक्त्वं जात्यन्तररूपमेवेति चेत्तर्हि भेदाभेद एव तादृशः किमिति नास्थीयते ! धर्मिधर्मोभयभासकसामग्र्या एव तद्भासकत्वेन व्यञ्जकगवेषणविश्रामात् । इत्थं च 'पृथक्त्वव्यवहाराऽसाधारणकारणं तदित्यप्यपाकृतं, कारणतावच्छेदकरूपपरिचयं विना तादृशनिर्वचनाऽसम्भवाच्च । यत्तु “विभिन्नाश्रयाऽऽश्रितत्वमेव पार्थक्यम् , विभिन्नाश्चाश्रयाः स्कन्धानां देशा इव देशानां स्कन्धा अवि सम्भवन्ति, 'तन्तौ पट' इति व स्पटे तन्तव' इति प्रतीतेरप्यबाधितत्वात् । १-अन्यद्धटाद्रूपं न पृथगिति विशारदानां व्यवहारः । भेदात्पुनः पृथक्त्वं भिद्यते व्यवहारबाधेन ।

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182