Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
बृहत्स्याद्वादरहस्ये
* वस्तुतो द्रव्यवृत्तिचाक्षुषं प्रति चक्षुः संयुक्तचाक्षुषवैशिष्टयस्यैव हेतुत्वं, वैशिष्टयानभ्युपगमे तु महत्समवेतचाक्षुषं प्रति चक्षुः संयुक्तचाक्षुषसमवायस्य, द्रव्यवृत्त्यभावचाक्षुषं प्रति चक्षुःसंयुतचाक्षुषविशेषणताया हेतुत्वे गौरवात् । 'द्रव्यजात्यन्यचाक्षुषे महदुद्भूतरूपवद्भिन्नसमवेतत्वेन प्रतिबन्धकत्वात् समवायसिद्धिरिति तु मन्दम् । द्रव्यान्यसञ्च्चाक्षुषत्वावच्छिन्नं प्रति महदुद्भूतरूपवद्भिन्नविशिष्टत्वेनैव तत्त्वसम्भवात् । यत्तु भूतलपटाभाववैशिष्टचसत्त्वात्पटका प पटाभावधीप्रसङ्गः, न च तदानीमधिकरणस्वाभाव्यात् पटाभावाभावाधिकरणत्वादेव नायमिति वाच्यम्, स्वभावभङ्गप्रसङ्गादिति - तन्न, पटसत्त्वे पटाभाववैशिष्टयसत्त्वेऽपि तदवच्छिन्नतदाधारताऽभावादेवोक्तप्रसङ्गाभावात् । इति वैशिष्टयवादः ॥
अस्माकं तु न समवायो न वा वैशिष्ट्यं, कथञ्चिदनुगमव्यावृत्तिमद्भिः स्वरूपैरेव तत्तकार्यनिर्वाहात् । इत्थं च विशेषण सम्बन्धनिमित्तकत्वं साध्यीकृत्य पूर्वोक्तानुमानमप्यनादरणीयं, वैलक्षण्यस्य जातिरूपस्य स्मृतित्वानुमितित्वादिना साङ्कर्यात् । विषयितारूपस्य च समवायाऽसिद्धया दुर्वचत्वात् । सत्यलौकिकविशिष्टप्रत्यक्षत्वस्यैव कार्यतावच्छेदकत्वेन तदवच्छिन्नं प्रति विशेषणसम्बन्धत्वेन हेतुत्वं स्वरूपसम्बन्धेनार्थान्तरत्वात्, अन्यथा वैशिष्टयस्य दुर्निवारत्वात्, विशेषण सम्बन्धत्वस्यैकस्याभावेनैतत्कार्य्यकारणभावस्य विशिष्यविश्रामाच्च । इति समवाय निरासः ॥ [ भेदाभेदवादः ]
नन्वभेदसंसर्गेणाऽन्वितपदार्थबोधक पदकसमासस्यैव कर्मधारयत्वात् 'नीलोत्पलमि' - त्यादौ नीलोत्पलयोर्भेदाभेदस्य संसर्गत्वे कर्म्मधारयानुपपत्तिः, अन्यथा 'घटरूपमित्यत्रापि तत्प्रसङ्गादिति चेत् ? मैवं, कर्म्मधारये हि तादात्म्यमेव संसर्गे न तु मेदाभाव:, 'प्रमेयाभिधेयमित्यत्र तद्वाधात् । तच्च 'नीलोत्पलमित्यत्र नीलपदस्य नीलवत्परतया निराबाधम् । न चैवं 'घटकलश' इत्यत्रापि कर्म्मधारयप्रसङ्गस्तत्र पदसारूप्याभावेनैकशेषाऽनवकाशात् वस्तुत एकशेषस्य द्वन्द्वापवादकत्वाद 'घट घट' इत्यत्रापि तत्प्रसङ्ग इति वाच्यम्, तत्र पदार्थयोर्निस - कांक्षत्वेनानन्वयात् । न चोक्तं कर्म्मधारयलक्षणमपि ज्यायः, 'राजपुरुष' इत्यादितत्पुरुषेऽतिप्रस ङ्गादिति दिक् ।
"
एतेन 'घटस्य रूपमित्यादौ पष्ठीप्रयोगदर्शनाद्धर्म्मधर्मिणोर्भेद एव युक्त इत्यप्यना - स्थितं, तत्र सम्बन्धत्वेनाऽविष्वग्भावस्यैव भानात् सम्बन्धत्वस्यैव षष्ठीपदशक्यतावच्छेदकत्वात्, तत्राविष्वग्भावातिरिक्तत्वप्रवेशे गौरवात् तादाम्येन प्रातिपदिकार्थयोरन्वये समानविभक्तिकस्वादेर्नियामकादेव 'घटस्य नील' इत्याद्यापत्यभावात् । इयांस्तु विशेषो यद्धर्मिधर्मभावाद्यपेक्षयैव द्वयोर्भेदामेदः, प्रतिस्वं प्रतिस्विकरूपेण केवलामेदो, गोत्वाश्वत्वाऽऽदिना तु केवलभेद इति । न चैवमेकान्ताऽनुप्रवेशोऽभेदसम्भिन्न मेदवत्त्वाभ्युपगमेनैव तदपायात् । इत्थं चैतदवश्यमंगी कर्तव्यं,
* चिह्नद्वयान्तराल द्वयपाठो यशोविजयोपाध्यायैः स्वहस्ताक्षरैः प्रक्षिप्तो मूलादर्शे ।
९६
"

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182