Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 142
________________ भीषीतरामाय नमः न्यायविशारद -- न्यायाचार्य । वाचक पुंगव श्रीमद्यशोविजयमणि सुम्फितम् । (बृहत् ) स्याद्वादरहस्यम् सकलवाचककुलकोटीरहीरमहोपाध्यायश्री ५ श्रीकल्याण विजयगणिशिष्य पर्वतलक पंडित श्रीला भविजयगणिशिष्यमुख्यपंडित श्री जीत विजयग णिसतीर्थ्यशेखर पंडित श्री नयविजयमणिगुरुम्यो नमः ( मङ्गलम् ) ऐंकारस्फारमन्त्रस्मरणकरणतो याः स्फुरन्ति स्ववाचः । स्वच्छा एतचिकीर्षुः सकलसुखकरं पार्श्वनाथं प्रणम्य ॥ वाचादानां परेषां प्रलपितरचनोन्मूलने बद्धकक्षो वाचां श्रीहेमसूरेर्विवृतिमतिरसोल्लासभाजां तनोमि ॥१॥ श्री विजयदेवसूरिविराजते देवसूरिरिव विजयी । उपजीवन्ति यदीयां सहस्रशो धियमिमे विबुधाः ॥२॥ श्रीविजयसिंह सुरेः सहायकमुद्यते समाकलयन् । तत्पट्टतेदयतरणेः परमततिमिरं निराकर्तुम् ॥३॥ इह हि निखिलकुवादिकुतर्कसंतमसछन्नं जगतः शुद्धनवलोचनमुन्मिमीलविषयः परार्थेकरसिकाः श्रीहेमसूरयो यथावस्थितार्थव्यवस्थितिपीयूषाञ्जनशलाकामेव तत्प्रतिकारमभिगम्य तदर्थमुपदेशयाथात्म्यव्यक्ति विज्ञप्तिभंग्या भगवन्तं स्तोतुमुपक्रमन्ते स्म 'सत्त्वस्ये' त्यादिना - [ वीतरागस्तोत्र - अष्टमप्रकाशः ] स्यैकान्तनित्यत्वे कृतनाशाऽकृतागमौ । स्यातामेकान्तनाशेऽपि कृतनाशा कृतागमौ ॥१॥ श्री ५ [विप्रतिपत्तिस्वरूपविचारः ] त्र 'सत्त्वमेकान्तनित्यं न वेति न विप्रतिपत्तिः स्वमते एकान्त नित्यत्व कोट्यप्रसिद्धेः, किन्तु ‘नित्यत्वमनित्यवृत्तिं न वाऽनित्यत्वं नित्यवृत्ति न वे'त्यादिरूपा । न चैवमपि तद्भावाऽव्ययत्वरूपं नित्यत्वं परमतेऽप्रसिद्धमिति वाच्यम्, नित्यत्वव्यवहारविषयत्वेनैव तस्योपन्यासात् । वस्तुतस्त(दभा!)द्भावाऽव्ययत्वमपि ध्वंसप्रतियोगिता नवच्छेदकरूपत्ववपर्यवसन्नमेवान्यथासिद्ध्यसिद्धिभ्यां स्या. र. ११

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182