Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 149
________________ तलमि'त्यतो भूतले नीलविशेष्यविशेषणकनीलविधेयकबोधापत्या न प्रागुक्तहेतुहेतुमद्भावः सम्भवी'त्युक्तावपि न क्षतिः, अनुमितिविशेषे परामर्शविशेषवच्छाब्दबोधविशेष समभिव्याहारविशेषस्य हेतुत्वेनानतिप्रसङ्गात्। ___ स्यादेतत-'इदानी घटो न श्यामः' इत्यत्र नञो वैधर्म्यमर्थस्तत्र च वृत्तिमति भिन्ने च खंडशो वृत्तिरिति श्यामत्वविशिष्टं वृत्तिमति विशेषणावच्छेदककालावच्छिन्नाधेयतया वृत्तिमान्, भिन्ने तत्रैव चैतत्कालादिकमप्यन्वेतीति श्यामत्वविशिष्ट वृत्तिमद्भिन्नैतत्कालीनधर्मवानिति ततो बोधः । एवं 'शाखायां न कपिसंयोगी'त्यत्र कपिसंयोगविशिष्टं वृत्तिमति विशेषणावच्छेदकदेशावच्छिन्नाधेयतया वृत्तिमान् भिन्ने तत्रैव च शाखादिकमप्यन्वेतीति कपिसंयोगविशिष्टवृत्तिमद्भिन्नशाखावच्छिन्नधर्मवानिति ततो बोधः । तथा चान्योन्याभाक्स्य व्याप्यवृत्तित्वमेवोचितम् । अवच्छेदकाऽविशेषितप्रतियोगिमत्ता ज्ञानस्यैव तद्वत्ता, ज्ञानप्रतिबन्धकत्वादिति ।-मैवम् , एवं सति 'घटो न श्याम इति वाक्याद् 'घटः श्यामो न वे'ति संशयाऽनिवृत्तिप्रसङ्गात् । श्यामप्रकारकसंशयस्य श्यामाभावप्रकारकनिर्णयनिवर्त्यत्वात् । दृश्यते च ततस्तादृशवैधर्थे तदभावव्याप्यवत्ताज्ञानविधुराणामपि तत्संशयनिवृत्तिः। किञ्चैवं श्यामात्यन्ताभावस्याप्यव्याप्यवृत्तित्वं न स्याल्लाघवेन श्यामाभावत्वावच्छेददेनैवा वच्छेदकाविशेषितश्यामाऽवृत्तित्वकल्पनौचित्यात् । 'घटे न श्याम'इत्यत्रापि श्यामस्य स्वावच्छेदककालावच्छिन्नस्वविशिष्टाधेयतासम्बन्धेन वृत्तिमत्यन्वयाऽबाधेन नो वैधार्थकत्वसम्भवात् । 'अन्यत्र भेदवत्प्रकारकबोधेऽप्यत्र तद्विशेष्यकबोधे समभिव्याहारविशेषस्य नियामकत्वात्ततोऽत्यन्ताभावत्वप्रकारिका प्रतीतिरानुभविकी ति चेत् ? 'न श्याम इत्यतोऽन्योन्याभावत्वप्रकारिका प्रतीतिरपि किन्न तथा ? प्रतिबन्धकत्वाभिमतव्याप्यवृत्तिधर्मवत्ताज्ञानेऽप्यव्याप्यवृत्तित्वज्ञानस्योत्तेजकत्वकल्पनावश्यकत्वाच्च नोक्तलाघवगन्धोऽपि । अपि चैवं श्यामात्यन्ताभावस्यैव श्यामान्योन्याभावरूपतया लाघवम् । तस्य तावद्व्यक्तिनिष्टान्यतरत्वावच्छिन्नभेदात्मकत्वे तावद्व्यक्तित्वनिष्टान्यतरत्वावच्छिन्नात्यन्ताभावात्मकत्वे वाऽतिगौरवात् । न चैवं 'श्यामो न श्याममिति प्रतीत्यापत्तिस्तद्वाक्याच्छ्चामत्वावच्छिन्नान्योन्याभावस्यैव लाभात् । एतेन 'संयोगिभेदस्य द्रव्यभेदात्मकत्वकल्पनमेवोचितं, अन्यथा नानासंयोगेषु तदभेदत्वकल्पनापातात् , तथा च सुष्ठुक्तं मेदस्याऽव्याप्यवृतित्वं, व्याप्यवृत्यभेदवति तदभेदासम्भवादि' त्यपि निरस्तम् , अनुगतसंयोगाभावाभाव एव तदभेदत्वकल्पनाच्च । स्वाभावाभावः प्रतियोग्येवेति व्याप्तौ लाघवस्यैव नियामकत्वेनाऽननुगतप्रतियोगिस्थलं तदतिरेकस्यैव न्याय्यत्वात् । यत्तु 'स्वाभावाभावस्य प्रतियोगिरूपत्वे 'घटाभावो नास्ती'त्यादिप्रतीतेरभावीयविशेषणतया तदवगाहिन्या अनिर्वाहात्तदतिरेकसिद्धिरिति, तदसत् , क्लुप्तप्रतियोगितावच्छेदकसम्बन्ध एव तदभावीयविशेषणतात्वकल्पनेन तन्निहिात् । संयोगिमेदावित्वं क्लुप्तसैंयोगवृत्तिसंयोगा

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182