Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 146
________________ प्रलो. १] .. सस्वरूपम् वस्य तदर्म एव प्रतियोगितेति फलितप्रसङ्गाच्च । नापि "अभावविरहात्मत्वं भावानां प्रतियोगिता" (न्या० कु.) इत्युदयनाचार्योंऽपि चारुविचारचातुरीसमालोचनपूर्वमुदचोचरत् ; यतोऽभावविरहत्वं यद्यभावाभावत्वं तदान्योन्याभावप्रतियोगितावच्छेदकयोरप्रसक्त्यतिप्रसक्ती । यदि पुनरभावज्ञानप्रतिबन्धकज्ञानविषयत्वं तत्, तदा घटव्याप्ये घटाभावप्रतियोगित्वापत्तिः । न च स्वाभावेत्युक्त्या तब्युदासः तथा सति स्वस्यैव तथावक्तव्यतापातात् । 'स्वस्याभाव' इत्यत्र षष्ट्यर्थप्रतियोगित्वाऽपरिचयाच्च । तत्सम्बन्धावच्छिन्नत्वविषयतावच्छिन्नतद्धर्मनिष्ठविषयतावच्छिन्नावच्छिन्नत्वविषयतावच्छिन्नविषयतानिरूपिताभावत्वावच्छिन्नप्रकारतानिरूपिताभावीयविशेषणतानिष्ठसांसर्गिकविषयतानिरूपितविशेष्यताकज्ञानप्रतिबन्धकतावच्छेदकीभूततत्स-- म्बन्धावच्छिन्नसांसर्गिकविषयतानिरूपकप्रकारतायाः तथात्वे तु 'प्रमेयं नास्तीति प्रतीतेः प्रमात्वापातात् । तस्मात् प्रतियोगित्वं प्रतियोगिस्वरूपमभावस्वरूपमस्तु वा यत्किश्चिदेतत्, तथापि तव घटाभावाभाव इव भावरूपे नाशे न सप्रतियोगिकत्वसम्बद्धं इति प्रतियोगिताविचारः ॥ [ध्वंसस्वरूपनिरूपणम्] __स्यादेतत् 'घटोत्तरकालवृत्ती'त्यत्र घटोत्तरत्वं यदि घटनाशााधकरणत्वं तदात्माश्रयः । यदि तु तदधिकरणक्षणध्वंसाधिकरणत्वं तदा द्वितोयादिक्षणेष्वेव घटध्वंसापत्त्या ऋजुसूत्रप्रवेशः, क्षणध्वंसस्य दुर्वचत्वश्च । एतेन यावद्घटाधिकरणक्षणध्वंसाधिकरणल्वमपि परास्तम् घटाधिकरणभिन्नत्वमित्युक्तावपि चरमसमयोत्पन्नकर्मव्यक्तिमादाय तदुत्तरं तवंसव्यवहाराऽनापत्तिः, प्रागभावेऽतिव्याप्तिश्च । एतेन तदुत्तरकालवृत्तित्वमित्यस्य तदधिकरणत्वाभाववैशिष्ट्यावच्छेदेन वृत्तित्वमित्यर्थकत्वमपि प्रत्याख्यातं, घटप्रागभावानधिकरणत्वे सति घटानधिकरणत्वस्य तथात्वे तु प्रागभावलक्षणस्य ध्वंसानधिकरणत्वे सति घटानधिकरणत्वगर्भपूर्वकालवृत्तित्त्वघटिततयाऽन्योन्याश्रय इति । अत्रोच्यते स्वद्रव्यमेव ध्वंसः सर्वत्रानुगतत्वात् । 'घटो ध्वस्त' इत्यादौ तु घटस्य स्वद्रव्ये पूर्वाऽज्ञातमप्युत्तरकालवृत्तित्वं संसर्गतया भासत इति काऽऽत्माश्रयादि ? न चैवं ध्वंसप्रागभावपदयोः पर्यायत्वापत्तिः, एकव्यवहारजनकत्वाभावात् । 'ध्वंसवान्' इति शाब्दबोधोत्तर'प्रागभाववान वे'ति संशयस्त्वनिष्ट एवेति । एवं च दृष्टस्तावदयं घटोऽत्र नियतं दृष्टस्तथा मुद्रो, दृष्टा कर्परसंहतिः परमतोऽभावो न दृष्टोऽपरः तेनाभाव इति श्रुतिः क्व निहिता किं वात्र तत्कारणं, स्वाधीना कलशस्य केवलमियं दृष्टा कपालावली ॥१॥ इति व्याख्यातम् । अथ 'मुद्गरपाताद्विनष्टो घट' इति तावदनुभूयते, तत्र घटोत्तरकालो वा मृद्रव्यंवा न तजन्यं, तं विनैव स्वहेतुसमाजात्तदुत्पत्तेरिति चेत् ! न, 'मुद्गरपातावधिकस्वोत्तरकालवृत्तिस्वद्रव्यपरिणामी

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182