Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 129
________________ ६८ स्याद्वादरहस्ये करण्यावच्छिन्नस्वाव्यवहितपूर्ववृत्तित्वसंम्बन्धेन योग्यविशेषगुणत्वत्त्वेन हेतुत्वम् । रोग-गंगास्नानादिनाश्यसंस्कारे नाशे व्यभिचारवारणाय कार्यतावच्छेदके 'योग्ये ति वेगावृत्तियोग्यजातिमदर्थकं, तेन न निर्विकल्पकजीवनयोनियत्नाऽसंग्रहः । द्वितीयक्षणोत्पन्नाऽदृष्टसंयोगादिनाऽपेक्षाबुद्धेस्तृतीयक्षणे नाशवारणाय कारणतावच्छेदके 'योग्य'ति 'विशेषेति च योग्यजातिमदर्थकं उभयाऽवृत्त्यर्थेकं च । यत्तु- योग्यपदमतीन्द्रियजातिशून्यार्थकमिति, तन्न, गौरवाद् । अपेक्षाबुद्धिनाशे तु द्वित्वनिर्विकल्पकत्वेन पृथक्कारणतेति न तस्यास्तृतीयक्षणे नाशः । अत्र स्वपूर्ववृत्तित्वं स्वाधिकरणक्षणाs व्यवहितपूर्वक्षणवृत्तित्वमिति चरमज्ञानशब्दादिनाशे न व्यभिचारो, अनेन सम्बन्धेन स्वस्यैव तत्र नाशकत्वात् । एतेन 'पूर्ववृत्तित्वं स्वप्रागभावाधिकरणक्षणवृत्तित्वं, अन्यथा स्वनाशकत्वापत्तेरिति निरस्तं, चरमज्ञानादाविवाऽन्यत्रापि ज्ञानान्तरस्यैव स्वस्य नियमबलायातनाशकत्वस्य प्रामाणिकत्वात् । युक्तं चैतत् , अन्यथा चरमज्ञानादौ नाशकान्तरकल्पनागौरवादिति ध्येयम् । इदं तु ध्येयं यदेकाधिकरणवृत्तित्वस्वपूर्वकालीनत्वोभयसम्बन्धो नाशकताऽवच्छेदकोऽन्यथा देशकालयोरवच्छेद्यावच्छेदकभावे विनिगमनाविरहादिति दिए । [स्याद्वादमते शब्दस्य नित्यानित्यत्वम्] स्याद्वादिनस्तु-नित्यानित्यः शब्दः, केवलनित्यत्वे प्रकृतिप्रत्ययादिविभागेनाऽनुशासनादिना साधनानुपपत्तेः, केवलाऽनित्यत्वेऽपि क्षणिके तत्र प्रकृतिप्रत्ययादिनोपस्काराधानाऽसंभवात् । अत एवोक्तं स्तुतिकृतैव 'सिद्धिः स्याद्वादात्' [सि० हे. अ०१-पा०-२ सू० २] इति । इदं तु ध्येयं-घटत्वादिना घटादिरिव शब्दत्वेन शब्दोऽनित्य एव, द्रव्यत्वेन तु नित्य इति । अत एव कादाचित्कत्वलक्षणपर्यायलक्षणेनोत्खातत्वात् शब्दः पर्याय इत्यप्यविरुद्धम् । मनसोऽपि चानतिरेके न किंचिदनिष्टं नः, पृथिव्यादेः पुद्गलत्वेनैकधैव विभजनात् । ‘एवं सति पृथिवीजलयोर्भेदो न स्यात्' इति चेत् ? घटपटयोरिव किं न स्यात् ? द्रव्यतोऽयं न स्यादिति चेत् ! स्यादभिमतमेवेदं युक्तिसिद्धत्वात् । तथाहि-'पृथिवीतरेभ्यो मिद्यते गंधवत्वादि'त्यत्र सर्वदा गन्धवत्त्वं भागाऽसिद्धं, कदाचिद्गन्धवत्त्वं तु जलादो व्यभिचारीति । न च जलादेन गन्धारम्भकत्वं, पृथिवीत्वेनैव तद्धेतुत्वादिति वाच्यं, गन्धवतैव कदाचिददृष्टविशेषादिसहकारेणोद्भूतगन्धारम्भात् । इत्थं च द्रव्याणि धर्माधर्माकाशजीवसमयपुद्गला इति विभागवाक्ये न कश्चिद् दोषः । अत्र यद्यप्युद्देश्यविधेयभावस्थले विधेयतावच्छेदकरूपेण 'धूमवान् वह्निमानि'त्यादौ विधेयस्य व्यापकत्वलाभो दृष्टः, तथाप्यत्र धर्मत्वादिना तदसम्भवाद्विधेयतासमव्याप्तरूपेण व्यापकत्वं संसर्गतया लभ्यत इति धर्मोद्यन्यतमत्वादिना व्यापकत्वलाभ इत्येके । तदसत्, 'द्रव्यगुणकर्मान्यत्वविशिसत्तावदित्यत्र द्रव्यान्यत्वविशिष्टसत्तात्वेन व्यापकतालाभप्रसंगात् , विधेयतावच्छेदकावच्छिन्नसम

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182