Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
प्रलो. ११]
विभागवाक्ये व्यापकतालाभविचारः व्यापकतावच्छेदकधर्मावच्छिन्नव्यापकत्वस्य संसर्गत्वे बाधात् । न हि धर्माधन्यतमत्वं धर्मत्वाधवच्छिन्नसमव्यापकतावच्छेदकम् । विधेयतावत्समव्यापकतावच्छेद करूपावच्छिन्नव्यापकत्वस्य तथात्वे तु वहन्यादेव्यत्वादिना व्यापकत्वलाभप्रसंगात् । अथ विधेयतावच्छेदकाऽतिरिक्तधर्मानवच्छिन्ना व्यापकता ग्राहयेति नातिप्रसंगो, नवा वह्निभिन्नभेदादिना व्यापकत्वलाभप्रसंगो, गुरोरनवच्छेदकत्वादिति चेत् ? न, एवं सति प्रकृते बाधात् । तत्र समव्यापकताया द्रव्यत्वाद्यतिरिक्तावच्छिन्नत्वात् । 'सत् द्रव्यं संयोगी'त्यादौ संयोगादेव्यत्वादिना व्यापकत्वलाभप्रसंगाच्च । एतेन "विधेयतावच्छिन्नसमव्यापकताग्रहे नाऽतिप्रसंगो, लघुवह्नित्वादेरेवावच्छेदकत्वेऽपि विधेयतायां पारिभाषिकावच्छेदकत्वाऽनपायात् , न चैवं गौरवं, समव्यापकतावच्छेदकत्वेनोपलक्षणीभूतेनैव तत्तद्धर्मानुगमादि" त्यप्यपास्तं, तादृशधर्मे विधेयतासमानाधिकरणत्वविशेषणेऽपि संयोगादेगेंणत्वाद्यवच्छिन्नव्यापकतालाभप्रसङ्गात् । विधेयताऽभाववदवृत्तितादृशधर्मोपादानेऽपि संयोगरूपयोरन्यतरत्वेन विधेयत्वे संयोगत्वेन व्यापकत्वलाभप्रसंगाच्च । “सर्वत्र विभागवाक्ये चरमपदे तावदन्यतमत्वेन लक्षणा स्वीकार्या, धर्मादिपदानां तु तात्पर्यग्राहकत्वान्न वैयर्थ्यम्" इत्यपि न युक्तं प्रथमादि पदेष्वपि तत्स्वीकारसंभवेन विनिगमनाविरहात् । तस्मात् 'चित्रगु'रित्यादाविव सर्वेषामेव लक्षकत्वमित्यपरे ! "अन्यतमत्व एव लक्षणा, धर्मादीनां तु तदेकदेशे भेदे प्रतियोगितयाऽन्वय" इत्यन्ये ।
वस्तुतो 'भेद एवास्तु लक्षणा, लाघवात् । तस्य च धर्मादिभिः समं स्वयं च त्रिधाऽ. न्वयो व्युत्पत्तिवैचित्र्यादि'ति न्याय्यः पन्थाः । सांप्रदायिकास्तु-विशेषविधिनिषेधयोः शेषनिषेधाऽभ्यनुज्ञाफलकत्वान्न्यूनाधिकसंख्याव्यवच्छेदकत्वमत्र व्युत्पत्तिसिद्धमित्याहुः । अत्र व्युत्पत्तिः सव्युत्पन्नीयबोधहेतुत्वग्रहः, तत्वं च पदार्थे धर्माद्यन्यतमभिन्ना तादात्म्यतवृत्तिभेदाऽप्रतियोयोगित्वोभयसंसर्गकशाब्दबोधं प्रत्युक्तानुपूर्वीज्ञानत्वेन, तेन विपरीतव्युत्पन्नस्याऽन्यथाबोधेऽपि न क्षतिः । अन्यत्र तु 'ब्राह्मणेभ्यो दधि दातव्यं, कांडिन्याय न दातव्यं' 'ब्राह्मणेभ्यो दधि न दातव्यं, कौडिन्याय दातव्यमि'त्यादौ करणाकरणविकल्पप्रसक्त्या सामान्यपदस्य विशेषपरत्वं युक्तं, सामान्यरूपेणैव वा विशेषबोधः । नव्यास्त्वितरबाधादिसहकारेण व्यापकतानवच्छेदकरूपेणानुमितिरिवात्र पदानुपस्थितेनाऽपि विशेषरूपेण शाब्दबोध इत्याहुः । तच्चिन्त्यम, अधिकोऽन्यत्र विस्तरः।
[सिद्धस्यात्मनो विशेषस्वरूपचिन्ता] तदेवं षण्णां द्रव्याणां तद्गुणपर्यायाणां च विवेक्तास्ति शरीराद्यतिरिक्तः कश्चिदात्मा स चायं "चैतन्यस्वरूपः , परिणामी कर्ता, साक्षाद्भोक्ता, स्वदेहपरिणामः, प्रतिक्षेत्रं भिन्नः पौद्गलिकादृष्टवांश्च" इति सूत्रम् [प्र० न०त०-परि०७ सू०५६] । न हि पृथग्भूतयोर्ज्ञानात्मनोः

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182