Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 135
________________ स्यादरस्ये च्छिन्नात्वनुमितिर्नापाद्या माद्यता त्वया । आपाद्यता हि जन्यत्वावच्छेदकपुरस्कृता ॥५२॥ बाबुद्धिरपराधिनी पुनः, शश्वदेव न विशेषदर्शिनः । चैत्रवृत्तिकृतभेदतद्धियश्चैत्रतत्प्रतिहतौ हि वैभवम् ॥ ५३ ॥ एवं प्रयुञ्जतेऽस्मिन्नात्मा भसि स्वदेह परिमाणः । तन्मात्रवृत्तिनिजगुणयोगान्निमानुरोधेन ॥ ५४ ॥ तथा च स्तुतिकृतः - यत्रैव यो दृष्टगुणः स तत्र कुम्भादिवन्निः प्रतिपक्षमेतत् । तथापि देहाद्वहिरात्मतत्त्वमतत्त्वत्वादोपहताः पठति [ अन्य ० व्यव० द्वा० का० ९ ] || ५५ || नन्वत्र मूलमीलदग्रसमग्रवृत्तिस्वच्छन्द चन्दनतरौ व्यभिचारचारः । शाखासु चारुपवनाभ्यवहारलग्नव्यासंगजंगमभुजंगम संगभाजि ॥ ५६|| आजीविका ननु तवास्ति किलेयमेव, देवाधिदेवसमयाज्ञ ! दाहोऽसौ । बोधं प्रयोगरचनाव चनावतीर्णा स्याद्वयाप्यवृत्तिमिह तु प्रथमं प्रसाध्य ॥५७॥ तत्संचराध्वनि दुरध्वनि जातपातः, किं कालिका कुपितलोचनगोचरोऽसि । सख्यं भजस्व भगवन्मतमाद्रियस्व । स्वीयं हितं रचय ते हितदेशकोऽस्मि ॥ ५८ ॥ कलयसि किमिहात्मन्यास्थितछेदखेदं, वयमपि भृशमात्मव्यापकत्वं प्रपन्ना । न हि भवति चिदात्मन्यात्तसंक्रांतिको यो नखलु न खलु तस्मिन्नस्ति किंचित्प्रमाणं ॥ ५९॥ अप्राप्यकारिणि चिदात्मनि सर्वगत्वं गौणं न मुख्यमिति तु प्रवदन्ति सन्तः । धत्ते मतां च भवतापि समस्तदेशसंयोगितामपि समुद्धत सर्वदश ॥ ६० ॥ अपि च-व्यवहारनयो ब्रूते, देहमानत्वामात्मनः । लोकाकाशप्रमाणत्वं निश्चाययति निश्चयः ॥ ६१ ॥ संकोच एव विस्तारः, प्रदेशाऽपरिहाणितः । तेन नात्र नये कोऽपि दोषः स्याद्वाददेशिते ॥ ६२ ॥ जीवं प्रदेशे मनुते किलान्त्यप्रदेशवादी पुनरन्त्यमेव । यद्यत्र सत्येव हि तत्तदात्मा, सिद्धः स्वसंस्थानमयो घटो यत् ||३३|| सत्यंव्यदेश एव हि भवंस्तदात्मा स्मृतस्ततो जोवः । तदिदं निजाभिमानाद्गगनांगणवल्गनप्रायम् ||६४ ॥ यतः - इह भावः किमुत्त्पत्तिज्ञप्तिर्वृत्तित्वमेव वा । आये सा बाधिता द्रव्ये पर्याये सर्व साक्षिणी ॥ ६५ ॥ तथाहि -संसारे संसरंतः सपदि तनुभृतो बिभ्रति स्वांगदेशान्, दीर्घज्वालाजटालज्वलन परिचितक्षीरनीरातिदेशान् । येऽष्ट स्पष्टप्रदेशा नियतमपिहितास्तेऽपि मध्या न वंध्याः । पूर्वाकारातिचारादिति परिणमते सर्वतः सर्वतप्तः ||६६ || नापि कापि नियतं द्वितोयके, ज्ञप्तिरस्ति चरमांशगोचरा । वृत्तिताऽपि चरमे न तत्र वा, सर्वदेशगतथा घटादिवत् || ६७|| अनंत्येभ्यश्च काऽन्त्यानां देशानामतिशायिता । पूरणं वोपकारित्वमुत सिद्धांतसिद्धता || ६८ || आद्यः पक्षः पमलाक्षीकटाक्षैः, स्थातुं प्रायो नो सपक्षः क्षमेत । यस्मादेतन्न्यूनतावर्जकत्वं, देशेऽन्त्ये चेकि नु नान्यत्र तुल्यम् ॥ ६९॥ अस्त्विदं ननु तथापि विवक्षा, पूर्णस्य चरमेऽन्त्यनिरुक्तेः । आः ! किमत्र न विवक्षण दंडाद्वम्भ्रमीति तव चक्रकचक्रम् ॥७०॥ अन्त्यत्वमव्यवस्थितमनवस्थितवृत्तिजीवदेशानां । उपकारप्रहविमुखे तेन विशेबाग्रहः को वा ॥ ७१ ॥ अभित्तिचित्रार्पित एव भाति, द्वितीयपक्षोऽपि परीक्षकाणां । येनोपकारो ह्रि फलोपधानं युक्तं बहूनां न तदेककस्य ॥ ७२ ॥ तदुक्तं - 'जुत्तो य तदुवयारो, देसूणे न उ १. युक्तश्च तदुपचारो देशोने न तु प्रदेशमात्रे । यथा तन्तूने पटे पटोपचारो न मन्तौ ॥ ७३ ॥ ७४

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182