Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 137
________________ ~ स्थावादरहस्ये संताने एकजातीयत्वं वा पूर्वापरभावापन्नत्वं वा ! द्वयमपीदमतिप्रसक्तं, अन्यसंतानत्वेनाऽमिताना. मपि तथात्वात् तथा च भिन्नात्मवाद एव सामानाधिकरण्येनाऽदृष्टफलयोहे तुहेतुमद्भावो युज्यते । 'पुत्रकृतगयाश्राद्धादिजन्यादृष्टस्य परम्परासम्बन्धेन पितृनिष्ठफल जनकत्वं दृष्टमित्यत्रापि तथोपपत्स्यत' इति चेत् ! न, स्फुटगौरवेणाऽनभ्युपगमात् । यौगादीनामपोद्गलिकादृष्टवादं समूलमुन्मूलयितुं “पौद्गलिकादृष्टवानि"ति । यथा चास्य पहिलिकत्वं तथोपपादितं प्रागेव । एवं चात्मनश्चैतन्यादिधर्मयोगभणनावेदांतिनां निर्धर्मकत्ववादोऽपि परास्तः । न हि मनसो ज्ञानसुखदुःखाद्याश्रयत्वमात्मनश्चानिर्वचनीयज्ञानाद्यतरयोग इति युक्तं, 'अहं जानामी'त्यादिप्रतीत्या तत्र साक्षाज्ज्ञानादिमत्त्वस्यैय युक्तत्वात्, ज्ञानसुखादिभेदेनैकत्रानेकात्मतापत्तेश्च । अथ निस्यज्ञानसुखादिनामभेद एवात एव "नित्यं विज्ञानमानन्दं ब्रह्मे"त्यत्राऽभेदोक्तिः संगता, नित्यज्ञानसुखादीनां तु चिताश्रितत्वमेवेति नायं दोष इति चेत् ? न, कथंचिद्भेदाभावे 'विज्ञानमानन्दमि'त्यस्य 'घटो घट' इतिवन्निराकक्षित्वापत्तेः । आनन्दविज्ञानत्वयोर्भेदे च निर्धर्मकत्वस्य दूरपोषितत्वात् । इत्थंभूतश्चार्य स्वोपार्जिततथाविधकर्मयोगेन परलोकमुपसर्पति, ज्ञानदर्शनचारित्रप्रकर्षण निर्मूलकाषंकषितनिःशेषदोषविसरः पुनः परमानंद विन्दत इति । युक्तं चैतत् । ज्ञानकर्मणोः समुच्चित्य मोक्षकारणत्वात् । ननु इदमसिद्धं, योगनिरोधरूपकर्मण एव साक्षाद्धेतुत्वज्ञानस्य तु पूर्वमपि सत्त्वादिति चेत् ? न, न हि समकालोत्पत्तिकत्वेन समुच्चयोऽपि तु परस्परसहकारमात्रेणेति । अधिकं मत्कृतज्ञानकर्मसमुच्चयवादे । कारणतानिर्वचनम्] नन्वत्र किं कारणत्वमिति चेत् ? नियतान्वयव्यतिरेकव्यंग्यः परिणामविशेष इत्यवेहि । अन्ये तु-अनन्यथासिद्धनियतपूर्ववृत्तित्वं तत् । तत्रान्यथासिद्धं पंचविधम् । तत्र 'येन सहैव यस्य यं प्रति पूर्ववृत्तित्वं गृह्यते तत्र तदाधम्' । न च दंडत्वादिना दंडादेदंडादिना दंडसंयोगादेर्वाऽन्यथासिद्धिः, पृथगन्वयव्यतिरेकप्रतियोगिभिन्नत्वे सति पृथगन्वयव्यतिरेकप्रतियोग्यवच्छिन्नान्वयव्यतिरेकप्रतियोगित्वस्य विवक्षितत्वात् । नन्वत्र स्वान्वयव्यतिरेकाव्यापकत्वस्य पृथपदार्थत्वे सत्यन्तवैयथ्य, दण्डान्वयव्यतिरेकयोर्दण्डसंयोगान्वयव्यतिरेकव्यापकत्वात् । न हि दण्डसंयोगे सति दंडव्यतिरेकेण कार्यव्यतिरेकः संभवी । न च चक्षुःकपालादिना तसंयोगस्यान्यथासिद्धिवारणार्थ तत् , तथापि दंडरूपादावव्याप्त्यनुद्धाराददंडत्वादित इव दंडरूपादितो १-तैत्तरियकआरण्यके । २-नैयायिकाः ।

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182