________________
~
स्थावादरहस्ये संताने एकजातीयत्वं वा पूर्वापरभावापन्नत्वं वा ! द्वयमपीदमतिप्रसक्तं, अन्यसंतानत्वेनाऽमिताना. मपि तथात्वात् तथा च भिन्नात्मवाद एव सामानाधिकरण्येनाऽदृष्टफलयोहे तुहेतुमद्भावो युज्यते । 'पुत्रकृतगयाश्राद्धादिजन्यादृष्टस्य परम्परासम्बन्धेन पितृनिष्ठफल जनकत्वं दृष्टमित्यत्रापि तथोपपत्स्यत' इति चेत् ! न, स्फुटगौरवेणाऽनभ्युपगमात् ।
यौगादीनामपोद्गलिकादृष्टवादं समूलमुन्मूलयितुं “पौद्गलिकादृष्टवानि"ति । यथा चास्य पहिलिकत्वं तथोपपादितं प्रागेव ।
एवं चात्मनश्चैतन्यादिधर्मयोगभणनावेदांतिनां निर्धर्मकत्ववादोऽपि परास्तः । न हि मनसो ज्ञानसुखदुःखाद्याश्रयत्वमात्मनश्चानिर्वचनीयज्ञानाद्यतरयोग इति युक्तं, 'अहं जानामी'त्यादिप्रतीत्या तत्र साक्षाज्ज्ञानादिमत्त्वस्यैय युक्तत्वात्, ज्ञानसुखादिभेदेनैकत्रानेकात्मतापत्तेश्च । अथ निस्यज्ञानसुखादिनामभेद एवात एव "नित्यं विज्ञानमानन्दं ब्रह्मे"त्यत्राऽभेदोक्तिः संगता, नित्यज्ञानसुखादीनां तु चिताश्रितत्वमेवेति नायं दोष इति चेत् ? न, कथंचिद्भेदाभावे 'विज्ञानमानन्दमि'त्यस्य 'घटो घट' इतिवन्निराकक्षित्वापत्तेः । आनन्दविज्ञानत्वयोर्भेदे च निर्धर्मकत्वस्य दूरपोषितत्वात् ।
इत्थंभूतश्चार्य स्वोपार्जिततथाविधकर्मयोगेन परलोकमुपसर्पति, ज्ञानदर्शनचारित्रप्रकर्षण निर्मूलकाषंकषितनिःशेषदोषविसरः पुनः परमानंद विन्दत इति । युक्तं चैतत् । ज्ञानकर्मणोः समुच्चित्य मोक्षकारणत्वात् । ननु इदमसिद्धं, योगनिरोधरूपकर्मण एव साक्षाद्धेतुत्वज्ञानस्य तु पूर्वमपि सत्त्वादिति चेत् ? न, न हि समकालोत्पत्तिकत्वेन समुच्चयोऽपि तु परस्परसहकारमात्रेणेति । अधिकं मत्कृतज्ञानकर्मसमुच्चयवादे ।
कारणतानिर्वचनम्] नन्वत्र किं कारणत्वमिति चेत् ? नियतान्वयव्यतिरेकव्यंग्यः परिणामविशेष इत्यवेहि ।
अन्ये तु-अनन्यथासिद्धनियतपूर्ववृत्तित्वं तत् । तत्रान्यथासिद्धं पंचविधम् । तत्र 'येन सहैव यस्य यं प्रति पूर्ववृत्तित्वं गृह्यते तत्र तदाधम्' । न च दंडत्वादिना दंडादेदंडादिना दंडसंयोगादेर्वाऽन्यथासिद्धिः, पृथगन्वयव्यतिरेकप्रतियोगिभिन्नत्वे सति पृथगन्वयव्यतिरेकप्रतियोग्यवच्छिन्नान्वयव्यतिरेकप्रतियोगित्वस्य विवक्षितत्वात् । नन्वत्र स्वान्वयव्यतिरेकाव्यापकत्वस्य पृथपदार्थत्वे सत्यन्तवैयथ्य, दण्डान्वयव्यतिरेकयोर्दण्डसंयोगान्वयव्यतिरेकव्यापकत्वात् । न हि दण्डसंयोगे सति दंडव्यतिरेकेण कार्यव्यतिरेकः संभवी । न च चक्षुःकपालादिना तसंयोगस्यान्यथासिद्धिवारणार्थ तत् , तथापि दंडरूपादावव्याप्त्यनुद्धाराददंडत्वादित इव दंडरूपादितो
१-तैत्तरियकआरण्यके । २-नैयायिकाः ।