________________
श्लो० ११]
अम्यथासिद्धिनिरूपणम्
दंडादेः पृथगन्वयाभावात् । न च तज्ज्ञानं विनाऽज्ञायमानत्वस्य तदर्थत्वान्नायं दोषः, दंडरूपज्ञानं विनैव दण्डाऽन्वयव्यतिरेकयोर्ज्ञायमानत्वादिति वाच्यं एवं सति दंडज्ञानं विनाऽज्ञायमानान्वयव्यतिरेकप्रुतियोगिनो दंडसंयोगस्यान्यथासिद्धिवारणादिति चेत् ?
अत्र वदन्ति - प्रथमपृथक्पदस्य स्वान्वयघटका घटितार्थकत्वान्नायं दोषः, दंडरूपाथन्वयस्य दंडाद्यन्वयघटकसम्बन्धघटितत्वात् । न चैव स्वजन्यव्यापारसम्बन्धेन दडस्य हेतुत्वाद दंडसंयोगस्य तेन तथात्वं न स्यादिति वाच्यं, स्वत्वघटित जन्यताभेदेन सम्बन्धमेदात् । वस्तुतः पृथगित्यादेस्तदन्वयादिभिन्नान्वयादिमत्त्वार्थकत्वेऽपि न क्षतिः, निरुक्तरूपेण दंडरूपाजन्वयस्य दंडाद्यन्वयाभिन्नत्वात् । केचित्तु - 'येन पृथगन्वयव्यतिरेकवत यस्य तद्रहितस्ये 'ति यथाश्रुत एव वाच्यम्, साहित्यं च पूर्ववृत्तित्वग्रहे विशेष्यतया विशेष्यतावच्छेदकतया वेत्याहुः । नन्वत्र रूपत्वादिना दंडरूपादेः कुतोऽन्यथासिद्धिरिति चेत् ? ' पूर्ववृत्तित्वमि’त्यस्याऽन्वयव्यतिरेकित्वमित्यर्थात्, नातिप्रसक्तेन रूपत्वादिनाऽन्वयव्यतिरेकः संभवतीत्येके । तच्चिन्त्यमित्यपरे - रूपत्वादिनापि स्वाश्रयेत्यादिसम्बन्धेनान्वयव्यतिरेकसम्भवात् । किन्तु अन्यत्र क्लृप्तेत्यादिनैव तेन रूपेणान्यथासिद्धिः । निःकृष्टे तत्रैव तत्संबन्धापेक्षया लाघवकृतावश्यकत्वस्याऽप्रवेशेऽपि कारणाल्पत्वकृतलाघवस्य प्रवेशादत्र कदाचिइंडेन सहापि चक्रादेः पूर्ववृत्तित्वग्रहसम्भवादन्यथासिद्धयापत्तेर्येन सहैवेत्यत्र एवकारः । तथा च तज्ज्ञानव्यतिरेकाऽप्रयुक्त व्यतिरेक प्रतियोगिग्रह विषय पूर्ववृत्तित्वकत्वमर्थः, अतो नेश्वरज्ञानमादायाऽतिप्रसंग ः । यथोक्तविवक्षायां तु नायमाऽऽदेयः ।
60
[द्वितीयान्यथासिद्धिनिरूपणम् ]
'अन्यं प्रति पूर्ववृत्तित्वे ज्ञात एव यं प्रति यस्य पूर्ववृत्तित्वं गृह्यते तत्र तद्' द्वितीयम्, यथा घटादावाकाशम् । तस्य 'शब्दो द्रव्यहेतुको गुणत्वादित्यनुमानात्कार्यकारणभावलक्षणानुकूलतर्क सध्रीचीनात्सिध्यतः शब्दपूर्ववृत्तित्वं गृहीत्वैव घटादिपूर्ववृत्तित्वप्रहात् । शब्दस्य घटान्वयव्यतिरेकाननुविधायित्वान्न पूर्वान्यथासिघ्यन्तर्भावशंका | संयोगादौ तु द्रव्यत्वेन पूर्ववृत्तित्वप्रहसंभवानान्यथासिद्धिः ।
अत्रेदं चित्यं -- शब्दपूर्ववृत्तित्वग्रहं विनापि शब्दादेराकाशस्य घटादिपूर्ववृत्तित्वग्रहः संभवी । अष्टद्रव्यान्यद्रव्यत्वादिनाप्याऽऽकाशपदशक्तिग्रहसंभवात् । कथमन्यथा तत्र शब्दसमवायिकारणता - ग्रहः । किं च-यागादेः स्वर्गं प्रति पूर्ववृत्तित्वं गृहीत्वैवाऽपूर्वं प्रति पूर्ववृत्तित्वग्रहान्तं प्रति तस्यान्यथासिद्धिवारणायाऽन्यं प्रति पूर्ववृत्तित्वानुपपादकं यस्य पूर्ववृत्तित्वं गृह्यत इति वाच्यम् ।
तत्रोपपादकत्वं न तदभावव्याप्याभावप्रतियोगित्वं अपूर्वपूर्ववृत्तित्वं विनाप्यपूर्वे स्वर्गपूर्ववृत्तित्वात् । नापि तद्वयाप्यत्वं, एवं हि शब्दविशिष्टं प्रत्याकाशस्य हेतुतापत्तेः । नाप्यन्यद् दुर्वचत्वात् । अथायमस्यार्थो ' यदन्यं प्रति पूर्ववृत्तिताघटित रूपेण यस्य यं प्रति पूर्ववृत्तिता गृहयते