________________
७८
स्याद्वाद रहस्ये
तत्र तदन्यथासिद्धमिति । नन्वेवं तस्याऽष्टद्रव्यान्यद्रव्यत्वादिनाऽन्यथासिद्धिः कुतः ? 'अवश्यक्लृप्त्यादित' इति चेत् ? आकाशत्वेनापि तत एव सास्तु |
[तृतीयाऽन्यथासिद्धिनिरूपणम् ]
'अन्यत्र क्लुप्तनियतपूर्ववर्त्तिन एव कार्यसंभवे तत्सहभृतं ' तृतीयं यथा पाकजगन्धं प्रति रूपप्रागभावादि, यथा वा तद्धटादौ तद्रासभादि । दंडादिना चक्रादेर्मिथोऽन्यथासिद्धिव्युदासाय 'कार्यसंभवे' इत्युक्तम् । तथा चात्र ज्ञानज्ञाप्यत्वस्य पंचम्यर्थत्वाइंडमात्रस्य घटोत्पत्त्यव्याप्यत्वात्तन्निरासः । नवत्रापि गन्धप्रागभावमात्रस्य न पाकजगन्धोत्पत्तिव्याप्यत्वं, तस्य रूपप्रागभावाऽविनाभूतत्वात् । एतेन 'पृथगन्वयव्यतिरेकराहित्ये सत्यन्यत्र क्लृप्तनियतपूर्ववर्त्तिताक सहभूतमित्यर्थोपि निरस्तः, गन्धप्रागभावस्येव रूपप्रागभावस्यापि पृथगन्वयादिमत्त्वात् । एवं च पृथगित्यादिना स्वावच्छेदकानवच्छिन्नेत्यादिविवक्षणमपि निरस्तं, गंधत्वावच्छेदेनाप्युभयोरन्वयव्यतिरेकसम्भवात् ।
अत्राहु: - 'अन्यत्र क्लृप्तेत्यस्यावश्यक्लृप्तेत्यर्थः । अवश्य क्लृप्तश्चात्र गन्धप्रागभाव एव, गन्धरूपस्य प्रतियोगिन उपस्थितत्वेन त्वरितोपस्थितिकत्वलाघवात् । नन्वत्र सहभावः स्वबहिर्भावेन वाभ्यः, अन्यथा स्वेनैव स्वान्यथासिद्धयापत्तेः तथा च कारणाल्पत्वलाघवेन व्यापकधर्मावच्छि न्नस्य स्वस्यैव व्याप्यधर्मावच्छिन्नत्वेन कथमन्यथासिद्धिरिति चेत् न, 'स्वाऽबहिर्भावेनापि अवयक्लृप्तनियतपूर्ववर्तितावच्छेद कावच्छिन्न सहभावनिरूप कतावच्छेद करूपेणान्यथासिद्धिरित्यत्र तात्पर्ये दोषानवकाशात् । न चैवं दण्डचक्रादेर्मिंथोऽन्यथासिद्धिः, चक्रत्वादिनापि नियतपूर्ववर्त्तिताया आवश्यकत्वात् । ननु तद्घटादौ तद्रासभस्यापि कुतो नावश्यकत्वमिति चेत् ! घटत्वावच्छिन्नं प्रति क्लुप्तनियतपूर्ववर्त्तिसमाजादेव तत्संभवे तत्समनियत इव तत्रावश्यकल्पनानुदयात् ' [चतुर्थाऽन्यथासिद्धिनिरूपणम् ]
“यमादायैव यस्यान्वयव्यतिरेकौ गृह्येते तेन तदन्यथासिद्धमिति चतुर्थं, यथा दंडादिना isत्वादि । न चाथ एवास्यान्तर्भावः, दंडादेर्दण्डत्वादितः पृथगन्वयाद्यभावात्, यमवच्छेदकीकृत्य यस्यावच्छेद्यस्यान्वयव्यतिरेकग्रहस्तेनाऽवच्छेधेन तस्यावच्छेदकस्यान्यथासिद्धिरित्यर्थात् । न वेह प्रथमान्तर्भावः, तत्र दंडादिनाऽवच्छेदकेन दंडरूपादेरवच्छेद्यस्यैवान्यथासिद्धेः । ननु दंडस्वस्य दंडघटितत्वात्तस्यावच्छेदकत्वे दण्डस्याप्यवच्छेदकत्वाद्दण्डत्वेनैव दण्डस्य कुतो नान्यथासिद्धिरिति चेत् ? 'यं पृथगन्वयव्यतिरेकशून्यमित्यस्य विवक्षितत्वात् । अत एव विनिगमनाविरहस्थले नान्यथासिद्धिः । 'स्वजन्यस्य यं प्रति पूर्ववृत्तित्वं गृहीत्वैव स्वस्य तत्त्वग्रहस्तत्र स्वमन्यथासिद्धं', यथा घट प्रति कुलालेन तत्पिता । साक्षादहेतोस्तस्य कुलाले घटजनकत्वे ज्ञात एव तद्द्वारा तस्य पूर्वभावग्रहात् । अथैवं स्वजन्यभ्रमिं प्रति घटजनकत्वं गृहीत्वैव तदद्वारा दण्डे घटपूर्ववृत्तित्वग्रहा दण्डोऽपि तथा तत्राऽन्यथा सिध्येत, अन्यथा कुलालेन कुलालपितापि न तथा स्यात्, तुल्ययोगक्षेमत्वा