________________
ग्लो० ११]
एकात्मवादनिरसनम् पएसमेत्तंमि । जह तंतुणमि पडे पडोवयारो न तंतुम्मि ॥७३॥ सर्वेषामेव तंतूनामंत्यसंयोगशालिनां । तथात्वमिति नादेयमेकदा तत्पटोदयात् ॥७४॥ तृतीयपक्षः पुनरक्षराणां, कलामपि ज्ञातवता न मान्यः । व्यवस्थितो यत्समयस्तदाशावल्लीविताने कठिनः कुठारः ॥७५॥ आगमपाष्ठश्वायं-“एगे भंते जीवप्पएसे जोवेत्ति वत्तव्वं सिआ ? णो इणद्वे समटे । एवं दोजीवप्पएसा, तिण्णि संखेज्जा, असंखेग्जा वा जाव एगपएसूणे विअ णं जीवे णो जीवेत्ति वत्तव्वं सिआ । जमा कसिणे पडिपुण्णे लोगागासपएसतुल्लप्पएसे जोवेत्ति वत्तव्वं सिआ" । युक्तं चैतत् । अन्यथा-कतिपयसमुदायिभंसविश्रंभदम्भात्कथमिह तव राशिर्नास्ति कार्यप्रकाशी । यदि तु चरमदेशे राशिता नाशिता ते, मतिरतिगहनेनानेन दुष्टाग्रहेण ॥७६॥ तथा च स्थिमेतत्-भवन् सर्वस्वदेशेषु घटो यद्वत्तदात्मकः । भवन् सर्वस्वदेशेषु तद्वदात्मा तदात्मकः इति ॥७७॥ स्यादेतत्--- सर्वेषामेव देशानां जीवत्वं यदि यौक्तिकं । एकैकस्यापि देशस्य हठादापतितं तदा ॥७८॥ न वर्त्तते यत् प्रत्येकं समुदायेऽपि नास्ति तत् । ततोऽन्यथोपपत्त्यैव पर्याप्तिरपि नोचिता ॥७९॥ किं चैवं गौणमेकत्वं, प्रसक्तं परमात्मनि । योगस्त्वेकत्वसंख्याया एकस्मिन्नेव युज्यते ॥८०॥ तद्गोलांगूललांगूलचापलव्यापभागिदं । कथंचिभेदपक्षस्य, प्रत्यक्षाऽऽदर्शदर्शनात् ॥८१॥
ये तु वदंति-एक एवात्मा, प्रतिशरीरं रजनिकरबिंबमिव प्रतिसरः सरस्वतीसरस्वदंतरनुबिंबतीति तन्मतनिर्दलनाय 'प्रतिक्षेत्रं भिन्नः' इति । तत्पक्षतर्कस्त्वात्मविभुत्वनिराकरणेऽनुपदमेव भावितः । सिद्धान्तस्तु-एवं सति सुषुप्तिदशायां मैत्रशरीरेऽवच्छेदकतासम्बन्धेन ज्ञानोत्पत्यापत्तिश्चैत्रीयत्वङ्मनोयोगादिरूपायाः समवायेन ज्ञानसामग्या अपि तदानीं सत्त्वात् । न च शरीरनिष्ठपरम्रासम्बन्धेनैव त्वङ्मनोयोगस्य हेतुत्वान्नायं दोष इति वाच्यं, तदानीमात्ममानसोत्पत्तिवारणायात्मनिष्ठसम्बन्धेनैव हेतुत्वौचित्यात् । चाक्षुषादेश्चक्षुरादिना विषयमनोयोगाधभावेनैवाऽनापत्तेः।
वस्तुतो विजातीयात्ममनोयोगस्यैवात्ममानसत्वावच्छिन्नं प्रति हेतुत्वकल्पनमुचितम् । तस्य शरीरनिष्ठसंबन्धेन हेतुत्वे तु स्फुटमेव गौरवम् । किं चैवं जन्मिनोऽपि स्वतःसिद्धस्वर्गापवर्गशंकया यमनियमादौ प्रवृत्तिर्न स्यात्, सिद्धे इच्छाविरहात् । न च तत्तच्छरीरावच्छेदेन सुखदुःखहान्यन्यतरकामनया प्रवर्त्तते कश्चिद्विपश्चित् । स्वस्मिन् सुखदुःखहान्यन्यतरमात्रस्यैव काम्यत्वात् । अथ कटंकविद्धचरणस्य चरणावच्छेदेन तत्कामनादर्शनात् स्वशरीरावच्छेदेन तत्कामनाप्यविरुद्धेति चेत् ? तर्हि विशेषदर्शिनस्तव सकलशरीरावच्छेदेनैव तत्कामनौचित्यात् प्रतिनियतप्रवृत्त्यनुपपत्तिः । अपि चादृष्टफलयोः प्रतिनियमदर्शनान्नानात्मन एव व्यवतिष्ठन्ते । तदुक्तं "नानात्मानो व्यवस्थात" इति । अन्यथाऽन्यशरीरावच्छिन्नादृष्टस्यान्यशरीरावच्छिन्नफलजनकत्वे कथं नातिप्रसंगः । 'एकस्थान एवं फलजननान्नायं नियम' इति चेत् ! किमैक्यमत्र
१. 'व्यवस्थातो नाना' [वैशेषिकसूत्र ३-२-२०] 'पुद्गलजीवास्त्वनेकद्रव्याणि' [त.सू. ५-५]