________________
स्यादरस्ये
च्छिन्नात्वनुमितिर्नापाद्या माद्यता त्वया । आपाद्यता हि जन्यत्वावच्छेदकपुरस्कृता ॥५२॥ बाबुद्धिरपराधिनी पुनः, शश्वदेव न विशेषदर्शिनः । चैत्रवृत्तिकृतभेदतद्धियश्चैत्रतत्प्रतिहतौ हि वैभवम् ॥ ५३ ॥ एवं प्रयुञ्जतेऽस्मिन्नात्मा भसि स्वदेह परिमाणः । तन्मात्रवृत्तिनिजगुणयोगान्निमानुरोधेन ॥ ५४ ॥ तथा च स्तुतिकृतः - यत्रैव यो दृष्टगुणः स तत्र कुम्भादिवन्निः प्रतिपक्षमेतत् । तथापि देहाद्वहिरात्मतत्त्वमतत्त्वत्वादोपहताः पठति [ अन्य ० व्यव० द्वा० का० ९ ] || ५५ || नन्वत्र मूलमीलदग्रसमग्रवृत्तिस्वच्छन्द चन्दनतरौ व्यभिचारचारः । शाखासु चारुपवनाभ्यवहारलग्नव्यासंगजंगमभुजंगम संगभाजि ॥ ५६|| आजीविका ननु तवास्ति किलेयमेव, देवाधिदेवसमयाज्ञ ! दाहोऽसौ । बोधं प्रयोगरचनाव चनावतीर्णा स्याद्वयाप्यवृत्तिमिह तु प्रथमं प्रसाध्य ॥५७॥ तत्संचराध्वनि दुरध्वनि जातपातः, किं कालिका कुपितलोचनगोचरोऽसि । सख्यं भजस्व भगवन्मतमाद्रियस्व । स्वीयं हितं रचय ते हितदेशकोऽस्मि ॥ ५८ ॥ कलयसि किमिहात्मन्यास्थितछेदखेदं, वयमपि भृशमात्मव्यापकत्वं प्रपन्ना । न हि भवति चिदात्मन्यात्तसंक्रांतिको यो नखलु न खलु तस्मिन्नस्ति किंचित्प्रमाणं ॥ ५९॥ अप्राप्यकारिणि चिदात्मनि सर्वगत्वं गौणं न मुख्यमिति तु प्रवदन्ति सन्तः । धत्ते मतां च भवतापि समस्तदेशसंयोगितामपि समुद्धत सर्वदश ॥ ६० ॥ अपि च-व्यवहारनयो ब्रूते, देहमानत्वामात्मनः । लोकाकाशप्रमाणत्वं निश्चाययति निश्चयः ॥ ६१ ॥ संकोच एव विस्तारः, प्रदेशाऽपरिहाणितः । तेन नात्र नये कोऽपि दोषः स्याद्वाददेशिते ॥ ६२ ॥ जीवं प्रदेशे मनुते किलान्त्यप्रदेशवादी पुनरन्त्यमेव । यद्यत्र सत्येव हि तत्तदात्मा, सिद्धः स्वसंस्थानमयो घटो यत् ||३३|| सत्यंव्यदेश एव हि भवंस्तदात्मा स्मृतस्ततो जोवः । तदिदं निजाभिमानाद्गगनांगणवल्गनप्रायम् ||६४ ॥ यतः - इह भावः किमुत्त्पत्तिज्ञप्तिर्वृत्तित्वमेव वा । आये सा बाधिता द्रव्ये पर्याये सर्व साक्षिणी ॥ ६५ ॥ तथाहि -संसारे संसरंतः सपदि तनुभृतो बिभ्रति स्वांगदेशान्, दीर्घज्वालाजटालज्वलन परिचितक्षीरनीरातिदेशान् । येऽष्ट स्पष्टप्रदेशा नियतमपिहितास्तेऽपि मध्या न वंध्याः । पूर्वाकारातिचारादिति परिणमते सर्वतः सर्वतप्तः ||६६ || नापि कापि नियतं द्वितोयके, ज्ञप्तिरस्ति चरमांशगोचरा । वृत्तिताऽपि चरमे न तत्र वा, सर्वदेशगतथा घटादिवत् || ६७|| अनंत्येभ्यश्च काऽन्त्यानां देशानामतिशायिता । पूरणं वोपकारित्वमुत सिद्धांतसिद्धता || ६८ || आद्यः पक्षः पमलाक्षीकटाक्षैः, स्थातुं प्रायो नो सपक्षः क्षमेत । यस्मादेतन्न्यूनतावर्जकत्वं, देशेऽन्त्ये चेकि नु नान्यत्र तुल्यम् ॥ ६९॥ अस्त्विदं ननु तथापि विवक्षा, पूर्णस्य चरमेऽन्त्यनिरुक्तेः । आः ! किमत्र न विवक्षण दंडाद्वम्भ्रमीति तव चक्रकचक्रम् ॥७०॥ अन्त्यत्वमव्यवस्थितमनवस्थितवृत्तिजीवदेशानां । उपकारप्रहविमुखे तेन विशेबाग्रहः को वा ॥ ७१ ॥ अभित्तिचित्रार्पित एव भाति, द्वितीयपक्षोऽपि परीक्षकाणां । येनोपकारो ह्रि फलोपधानं युक्तं बहूनां न तदेककस्य ॥ ७२ ॥ तदुक्तं - 'जुत्तो य तदुवयारो, देसूणे न उ १. युक्तश्च तदुपचारो देशोने न तु प्रदेशमात्रे । यथा तन्तूने पटे पटोपचारो न मन्तौ ॥ ७३ ॥
७४