________________
लो० ११]
आत्मनो देहपरिमाणवत्त्वम् तव, व्यभिचचार विचारय वारय । सभिदि रूपभिदैव निबंधने, नहि रिरंसति पूर्वविवोढरि ॥२७॥ तमेष तस्मान्नियमं स्वभावविभितं चार चरीकरीति । सा हेतुता चेत्प्रकृते तथापि स्ववृत्तिरूपेण वरीवृधीति ॥२८॥ तेन चेद्भुवनमस्ति समस्तं, स्वस्वभावविहितस्थिति नूनं । तर्हि गर्हितमिदं किल सर्व, हेतुमीलनमिति प्रतिचक्रे ॥२९॥ स्वेन संभवति हि स्वकधर्मे, नर्मकर्मणि परः क इवास्तु । स्वप्रकाशनिपुणाः खलु दीपाः, न प्रकाशमपरं मृगयन्ते ॥३०॥ मृत्पिण्डेऽप्रभवति सति चक्रं दंडश्च वस्त्रखंडश्च । प्रभवंति हि परमाणो द्वयणुकावि विनि तु न परे ॥३१॥ परे पुनः प्राहुरिदं वचस्विनो, न संस्क्रिया जातु विनात्मवैभवं । धृतावघातोचितवृत्तिरात्मनो न गौरवादन्यगता तु कल्प्यते ॥३२॥ अनुकुरुतेऽनभ्युपगमविधुरितवाचाटवचनविन्यासं । तदिदं गुर्जरनारीकुचयोनि:कंचुकीकरणम् ॥३३॥ अपि चेयमहो परंपराहितसम्बन्धमपेक्ष्य लाघवात् । सकलाश्रयनाशभाग्निखिलवीहिगतव युज्यते ॥३४॥ तेन न संप्रति नैकगतत्वाद्गौरवमेव विभाव्य विभाव्यं । दोषकृते व्यवहारविलोपात्कार्यमुखं हि न तत्प्रवदन्ति ॥३५॥ अथ कथमपि सर्वव्रीहिसंस्कारयोगो यदि लघु लघुभावात्कल्पते कश्चिदेकः । तदिह निजनिवासात्कर्षयश्छागमेकं, युवरवणसमूहाभ्यागमन्यायभूमिः ॥३६॥ यतः-अनुरुणद्धि न वैभवमात्मनः, स हि भवन्ननयोः परमन्तरा । न युवतिस्तनयोईढपीनयोर्लवणिमा परमन्तरपेक्षते ॥३७॥ विना विभुत्वमात्मनोऽणुभिस्तमामसंयुतैः । न चाधकर्मसंभवस्ततः कुतस्तनुर्ननु ॥३८॥ अत्रोत्तरं-अयस्कान्तमयस्कान्तमाकर्षति न संयुतम् । आकर्षणेन तत्प्राज्ञः संयोगव्याप्यता मता ॥३९॥ उत्क्षेपणत्वादिकजातिसंकरादाकर्षणत्वं च न जातिरीक्ष्यते । व्योमादिना संयुतिरस्ति चान्ततः संकल्पितव्याप्तिहतिर्न वा ततः ॥४०॥ शङ्का] अथात्मनश्चेन्निजकायमानता, भवेत्तनोः खंडनमंगसंगरे । सुयोधदोर्मण्डलकुण्डलीभवद्धनः प्रकाडोद्गतकांडताडने ॥४१॥ अंगीकारेपरास्तं नोत्सहते किल तदेतदुत्थातुं । छिन्ने खलु गोधांगे नो चेच्चेष्टा कथमुदेतु ॥४२॥ तत्राऽदृष्टाऽऽकृष्टस्वान्तागमनिर्गमाभ्युपगमस्तु । अज्ञानमेव गमयति योगानां गौरवविगीतः ॥४३॥ खडितमपि तमखंडितमखंडितज्ञानशालिनो ब्रुवते । नहि पमनालतन्तौ छेदाच्छेदी न संसिद्धौ ॥४४॥ खंडनं न पृथग्भावो, बहिनिर्गम एव तु । संकोचितप्रदेशस्य, तत्र न अपमानता ॥४५॥ एकसंतानगामित्वं, स्मृतं पुनरखण्डनं । तेन नानात्मतापत्तिर्न तनुद्वयगामिनः ॥४६॥ ज्ञानस्याऽव्यावृत्तित्वं, नैवमित्यत्र लाघवं । न वा तदनुरोधेनानन्तहेतुत्वकल्पना ॥४७॥ व्यभिचारि समुदाते तनुमानत्वमस्ति चेत् ? नैवं तत्रापि सूक्ष्मांगसद्भावादिति भावय ॥४८॥कश्चित्तु-भवतो विभुनस्तथात्मनो ननु नानात्वमयुक्तमीक्ष्यते । नियतं यदुपाधिगामिनी भवति व्योम्न इव व्यवस्थितिः ॥४९॥ तथाहि-चैत्रमैत्रकरणे न लभेते, पश्य जन्ममरणव्यतिहारं । कामिनीपृथुपयोधररोधोरोधिनी प्रियकराविव भिन्नौ ॥५०॥ अंगसंगमभिदेलिम. भावाजायते स्वपरसंव्यवहारः । आपतेदनुमितिः परवृत्तिस्तत्परामृशति नापरपुंसि ॥५१॥ अव