________________
स्याद्वादरहस्ये
1
गच्छामि, संवित्तिरिति यौक्तिकी । क्रियामेवाह जीवीस्य हेतुस्ते के तुवीक्षितः || ४ || ननु यदि न विभुचेतनस्तद् गुणस्तत् कथमहहसमग्र व्यापृतिव्यग्रमूर्त्तिः । नहि सपदि विहाय स्वाश्रयं कोपि जाग्रभुवनभवनभूयः संभ्रमी बम्भ्रमीति ॥ ५ ॥ सहादृष्टस्य कार्येण, योगः स्वाश्रययोगिता । जन्यसत्त्वेन जन्यत्वमतो न व्यभिचारिता ||६|| नाशं प्रति पृथगेव हि हेतुत्वमसंग्रहस्ततो नास्ति । विभुनापि परम्परया संयोगो युज्यते जन्तोः ॥७॥ विजृम्मितं व्याघ्रभयात्तदेतद्गर्तानिपातोपमिति प्रसूते । यज्जन्यमात्रं प्रति कालिकेन हेतुत्वमेकं प्रतिपन्नमस्य । ८ || शंकते - कालिकेन घटत्वादि जन्यत्वं किल नैकधा । अथ स्वरूपसंबन्धोऽनित्या भावत्वमेव तत् ॥ ९ ॥ अत्र प्रतिक्रिया -- युक्तं तज्जन्यसत्त्व लघुगदितमवच्छेदकं जन्यतायाः तत्किं तत्रापि हेतुर्न भवति नियतिः कालिकेनैव वादिन् । पाशारज्जुः किलात्र प्रभवति भवतो बंधनावन्ध्यबीजं, साक्षी नाक्षीणमूर्तिर्विभुनि भवति भोः केऽपि संगोपितात्मन् ॥१०॥ [ शंका-] द्रव्यप्रत्यक्षहेतुत्वान्महत्त्वं सिध्यदात्मनि । व्योम्नीव ननु विश्रान्तता - रतम्यमनादिसत् ॥११॥ सादित्वे जन्यतापत्तिहेतुस्तत्र तु कोऽपि न । बहुत्वं वा महत्वं वा तद्धेतुः प्रचयश्च यत् ॥१२॥ विनाऽवयवमात्मनि त्रयमिदं किल क्लिबतः सुतोद्भवकुतूहलं कलयति प्रतिश्रूयतां । विभुत्वमभिकांक्षतां मुकुलितं पिपासावशात् जयानकरवः श्रवः श्रयतु तेन विश्वांगिनाम् ॥१३॥ अत्रोच्यते- परिमाणमत्र किं नाऽप्रकृष्यते । अपकर्ष इवोत्कर्षोsवच्छिद्याज्जन्यतां यतः ॥ १४॥ अणोरपरिमाणत्वादपकर्षस्तथेति चेत् ? व्योम्नोप्यपरिमाणत्वादुत्कर्षः किं न तादृशः ॥ १५॥ विनेयत्तां समं सत्त्वं काष्टाप्राप्ततया द्वयोः । ततो जातिविशेषेण जन्यतैवानुशील्यताम् ॥१६॥ वस्तुतो जन्यमेवेदं प्रचयात्प्रतिजानते । प्रदेशैर्जाग्रतो जंतोः शाश्वतैकत्वशालिभिः ||१७|| स्यातां संकोच विस्तारौ जीव - पुद्गलयोर्द्वयोः । नामकर्मोदयादेव नैकस्यातिप्रसंगतः || १८ || स्मर्यते च अविरलगलल्लाजा लावलीढमुखः शिशुः परिणतदृढस्कंधद्वन्द्वो युवाऽपि स जायते । पतितदशनो वृद्धः प्रायः स एव कदाचन, प्रथयति किल स्वाधीनत्वं भवे क इवाङ्गभृत् ॥ १९ ॥ इत्थं च तनुमानत्वे परिमाणभिदात्मनः । भेदापत्तिः परास्तैव स्याद्वादानतिलंघिनी ॥ २० ॥ विशिष्टोत्पादसंवित्तिर्विशेष्ये बाधके सति । विशेषणोपपन्ना किं विशिष्टाधिक्यवादिनाम् ||२२|| ननु नियामक - मेव हि वैभवं वदति कष्टमदृष्टमिहात्मनः । इतरथा प्रतिगृह्णत तं विना कथमहो जगतो व्यवतिष्ठते ॥२२॥ तथाहि - हुतघृतमिलज्ज्वालामालाजटालमहाऽनिलो ज्वलति न तिरो नाधो नोर्ध्वं न धावति तूतः ॥ चरति पवनस्तिर्यग्नाधो नवाम्चरसंचरो । न खलु नियमादृष्टाकृष्टां गति ि विमुञ्चति ॥ २३ ॥ अत एव कर्मणि, संयोगो दृष्टशालिनो भणितः । ध्रुवमसमवायिकारणमात्मन इति मन्यतामेतत् ॥२४॥ श्रुणुत पूर्वमपूर्वमिदेदृशं ननु विलक्षणमेव समीक्ष्यते । अपि ! विलक्षणतेव पणांगना, परकटाक्षविलक्षणवीक्षिणी ||२५|| कुलवधूरिव नायकमात्मनः सुरतरंगतरंगतरंगिणी । यदि न मुञ्चतिहेतुमियं नु तत्कथमहो न कृतिं प्रतिचेष्टते ॥ २६ ॥ कुलवधूरपि नेयमहो
७२