________________
लो० ११]
आत्मनः परिणामित्वादिसिद्धिः तथा च सर्वावच्छेदेन प्रकाशाऽप्रकाशोभयापत्तिः, विरुद्धं चैतत् , एकावच्छेदेन भावाभावोभयाऽसमावेशात् । स्यादभिमतमेतत् आत्मत्वावच्छेदेन प्रकाशो, द्रव्यत्वावच्छेदेन चाऽप्रकाश इति-मैवं, एवं सति सर्वज्ञोऽपि 'मामहं न जानामी'ति जानीयात् । ततो य एवं जानाति तत्र ज्ञानपदं चाक्षुपादिपरम् । किंच 'मामहं जानामि-सुखवन्तं दुखवन्तं चेति विपरीतप्रत्ययोऽपि दृश्यते । तथा च ज्ञानवत्त्वज्ञानस्याऽवच्छेदकाऽनन्तर्भावेन ज्ञानाभाववत्त्वज्ञानप्रतिबंधकत्वं युक्तिमत् । किं च तदनवच्छेदकस्य तदभावावच्छेदकत्वे घटकारणतानवच्छेदकस्य द्रव्यत्वस्य घटकारणत्वाभावावच्छेदकत्वापत्तिः । अन्यथा घटादावपि द्वैरुप्याऽऽपत्तिरिति दिए ।
तदेवं यौगसांख्यभट्टमत निरासाय 'चैतन्यस्वरूप' इत्यसूत्रयन् । 'परिणामी कर्ता साक्षादोक्ते'ति सांख्यमतप्रतिक्षेपाय । तथाहि-ते खल्विदमाचक्षते-"जीवो हि न क्वचिदपि परिणमतेऽप्रकृतिविकृतित्वात् । अत एव तस्य कूटस्थत्वं श्रुतिसिद्धम् । न च नित्यत्वमेव तत्, सत्कार्यवादे सर्वस्य नित्यत्वात्, किन्तु जन्यधर्माऽनाश्रयत्वम् । एतेन रूपान्तरभावः परिणामस्तदभावश्चात्मनि योगाघभिमत एवेत्यपास्तं, अपरिणामिन एव मृत्पिडादेर्घटाधुपादानत्वदर्शनात् । जन्यधर्माश्रयत्वे प्रसह्य परिणामित्वस्यैव प्रसक्तेः । न चैवं तस्य बन्धमोक्षाद्यनापत्तिः, इष्टत्वात् । तदुक्तं-तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिरिति ॥" [सां.का.६२]तथा नासौ कर्ता, न वा ततो वस्तुतो भोक्ताऽकृतभोगे कृतनाशाऽकृताभ्यागमप्रसङ्गात् । बुद्धिगतभोगयोगात्पुनर्भोक्तेत्युपचर्यते ।"
तदेतत्सर्वमालजालं--साक्षाज्जीवगतत्वेन प्रतीयमानानां प्रकृतिगतत्वकल्पनाऽयोगात् । प्रकृतेरेव बुद्धिपरिणामित्वे मुक्तायामपि तत्प्रसंगात् । जीव सहकृतप्रकृतस्तथात्वे प्रकृतिसहकृतजीवस्यापि तथात्वं किं नाभ्युपैषि ? अपि च प्रकृतिजीवयोन तादात्म्यसम्बन्धोऽनभ्युपगमात्, किन्तु संयोग एव । स च जन्य एवाऽजन्यभावस्य नाशाऽयोगात् । तथा च जन्यधर्माऽनाश्रयत्वसिद्धान्तोऽपि न ते हिताय । अपि च प्रकृतिपुरुषसंबन्ध एव बन्धः, स च जीव एवेति किं न तत्र मोक्षोऽपि ! तथा च कर्तृत्वभोक्तृत्वे अपि तस्याऽव्याहते एवेति न किंचिदेतत् ।
[आत्मनः स्वदेइपरिमाणत्वसाधनम् ] 'स्वदेहपरिणाम' इति नैयायिकाघभिततविभुत्वविधूननाय । भाषितेऽत्र भगवन्मतस्पृशां, कर्णकोटरकुटुम्बनि स्फुटं ।
आः किमेतदिति भूरिसंभ्रमादाह गौतमिकुटुम्बमुच्चकैः ॥१॥
आत्मा विमुर्भवति निःक्रियताख्यहेतोः, व्योमेव मूर्तिमति सक्रियता हि सिद्धा । नाऽसिद्विगन्धमनिबन्धनमेति तस्मादस्माकमेष नियमः खलु तर्कसिद्धः ॥२॥ अत्रोत्तरं-परिमाणमवच्छिन्नमुत रूपादियोगिता । मूर्तिराद्यात्मनि स्पष्टा, द्वितीया व्याप्तिभंगभः ॥३॥ किंच-अहं पथीह