________________
स्थाद्वादरहस्ये समवायसम्बन्धः सम्बद्धः, तस्य निरस्तत्वात् । तस्यैकत्वेनाऽतिप्रसंजकत्वात् , स्वभावाऽपेक्षिणा तेनाऽतिप्रसंगभंगे स्वभावस्यैव तत्त्वौचित्यात् । किं च-परस्यापि "ज्ञानमय" इत्यादिश्रुत्या ज्ञानरूपतैवात्मनोऽभ्युपगन्तुमुचिता । न च "चक्षुर्मयः पृथिवोमय' इत्यादिवन्मयडोऽन्यार्थकतया श्रुतिरुपपत्स्यत इति वाच्यं, भावचक्षुर्मयत्वस्य पृथिवोजीवानां पृथिवोमयत्वस्य च साक्षादविरुद्धत्वात् । किं च प्रकाशकस्य प्रकाशमयत्वमेव युक्तिमत् । 'अभेदे कर्तृकरणभावो न स्यादिति पुनरसारं, 'आत्माऽत्मानं जानाती'ति बहुशःप्रयोगदर्शनात् ।।
एतेन “प्रकृतिपरिणामरूपमहत्तत्वाऽपरनामकत्रिगुणात्मकबुद्धो सत्त्वगुणोद्रेकरूपो वृत्त्यपरनामा घटाकारादिपरिणामो ज्ञानम् , तत्र मुकुर इव निर्मले चैतन्यप्रतिबिम्ब उपलब्धिरिति, बुद्धावेव च सुखादिगुणाष्टकमात्मा तु कूटस्थ" इति सांख्येमतमप्यपास्तं, 'अहं ज्ञातेत्यादावहत्वज्ञानयोः स्फुटमेव सामानाधिकरण्यप्रतीतेः । सा भेदेऽभेदे वेत्यन्यदेतत् । किं च बुद्धौ जडघटाकाराधानं निर्हेतुकं, घटज्ञानसामग्रवाहितविषयतारूपघटाकारस्तु न जडश्चेतनाधर्मत्वात् । अत एव चेतनाऽपि न प्रतिबिंबः किन्तु ज्ञानमेवाऽमूर्तप्रतिबिम्बाऽसंभवात् ।।
भट्टास्तु-'मामहं न जानामी'त्यात्मनि ज्ञायमानेऽपि 'न जानामी'तिज्ञानात् ज्ञानाऽज्ञानोभयस्वभाव एवात्मा । अत एव 'मिथ्यादर्शनापकर्षक-प्रकर्षवत्त्वेन तद्विरोधितया सिद्धस्य सम्यग्दर्शनादेः प्रकृष्यमानत्वेन सिद्धेन परमप्रकर्षण सिद्धमिथ्यादर्शनाऽत्यंतनिवृत्त्यन्यथाऽनुपपत्त्या संसारात्यन्तनिवृत्तिसिद्धेः क्वचित्सिद्धनिवृतावात्मनि सिद्धं गुणस्वभावत्वमन्यत्राप्यात्मत्वान्यथानुपपत्त्या साध्यते । दोषस्वभावत्वं तु विरोधाद्बाध्यत' 'इत्यष्टसहस्यां यत् प्रपंचितं तत्रायमनुयोगः-एवं सति सातत्येन सता ज्ञानादिनाऽनादिनिगोदजीवानां दोषस्वभावत्वस्य सिद्धत्वादन्यत्राप्यात्मत्वान्यथाऽनु. पपत्त्या तथात्वं कुतो न सिद्धयेत् ! गुणः साक्षादोषः पुनरात्मन्युपचारादिति विशेषेऽपि वैपरीत्यस्य सुवचत्वात् । दोषस्वभावत्वे निर्दोषत्वं कदापि न स्यादिति चेत् ! गुणस्वभावत्वे निर्गुणत्वं कदापि न स्यादित्यपि किं न स्यात् ? दोषाविर्भावकालेऽपि तिरोहित गुणसत्त्वात् स्यादभिमतमेवेदमिति चेत् ! तदितरत्रापि समानम् । तिरोहितोऽपि दोषो गुणविरोधीति चेत् ? तिरोहितो गुणोऽपि किं न दोषविरोधी ? अथ-स्फटिकश्वैत्यादिगुणस्य तिरोहितस्यापि तापिच्छश्यामिकादिदोषाऽविरोधित्वं दृष्टमिति चेत् ? न, आत्मन्यज्ञानादिदोषस्यौपाधिकस्याऽनभ्युपगमाद्बोधांशद्रव्यांशयोरेव प्रकाशाऽप्रकाशरूपत्वात् । न चैकत्र ज्ञानाज्ञानयोविरोधो, भेदाभेदवदविरोधात् । अत एव 'सुखमहमस्वाप्सं न किंचिददिषमिति सुषुप्त्युत्तरकालोनोऽपि बोधः संगच्छत इत्याहुः।
ज्ञानाऽज्ञानोभयस्वभाववादिभट्टमतनिराकरणम् ] अत्रोच्यते-न तावदेकत्रात्मनि बोधांशद्रव्यांशो भिन्नावन्यथात्मद्वयापत्तेः । नचात्रांशोsवयवः सम्भवति, निरवयवत्वादात्मनः । नवा प्रदेशः, सर्वस्यैव बोधांशत्वात् सर्वस्यैव द्रव्यांशत्वाच्च।
१-विशेषार्थ जिज्ञासुभिर्बशीधरपंडितसम्पादिताष्टसहस्री(५५)तमपृष्ठमवलोक्यम् ।