Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 139
________________ ७८ स्याद्वाद रहस्ये तत्र तदन्यथासिद्धमिति । नन्वेवं तस्याऽष्टद्रव्यान्यद्रव्यत्वादिनाऽन्यथासिद्धिः कुतः ? 'अवश्यक्लृप्त्यादित' इति चेत् ? आकाशत्वेनापि तत एव सास्तु | [तृतीयाऽन्यथासिद्धिनिरूपणम् ] 'अन्यत्र क्लुप्तनियतपूर्ववर्त्तिन एव कार्यसंभवे तत्सहभृतं ' तृतीयं यथा पाकजगन्धं प्रति रूपप्रागभावादि, यथा वा तद्धटादौ तद्रासभादि । दंडादिना चक्रादेर्मिथोऽन्यथासिद्धिव्युदासाय 'कार्यसंभवे' इत्युक्तम् । तथा चात्र ज्ञानज्ञाप्यत्वस्य पंचम्यर्थत्वाइंडमात्रस्य घटोत्पत्त्यव्याप्यत्वात्तन्निरासः । नवत्रापि गन्धप्रागभावमात्रस्य न पाकजगन्धोत्पत्तिव्याप्यत्वं, तस्य रूपप्रागभावाऽविनाभूतत्वात् । एतेन 'पृथगन्वयव्यतिरेकराहित्ये सत्यन्यत्र क्लृप्तनियतपूर्ववर्त्तिताक सहभूतमित्यर्थोपि निरस्तः, गन्धप्रागभावस्येव रूपप्रागभावस्यापि पृथगन्वयादिमत्त्वात् । एवं च पृथगित्यादिना स्वावच्छेदकानवच्छिन्नेत्यादिविवक्षणमपि निरस्तं, गंधत्वावच्छेदेनाप्युभयोरन्वयव्यतिरेकसम्भवात् । अत्राहु: - 'अन्यत्र क्लृप्तेत्यस्यावश्यक्लृप्तेत्यर्थः । अवश्य क्लृप्तश्चात्र गन्धप्रागभाव एव, गन्धरूपस्य प्रतियोगिन उपस्थितत्वेन त्वरितोपस्थितिकत्वलाघवात् । नन्वत्र सहभावः स्वबहिर्भावेन वाभ्यः, अन्यथा स्वेनैव स्वान्यथासिद्धयापत्तेः तथा च कारणाल्पत्वलाघवेन व्यापकधर्मावच्छि न्नस्य स्वस्यैव व्याप्यधर्मावच्छिन्नत्वेन कथमन्यथासिद्धिरिति चेत् न, 'स्वाऽबहिर्भावेनापि अवयक्लृप्तनियतपूर्ववर्तितावच्छेद कावच्छिन्न सहभावनिरूप कतावच्छेद करूपेणान्यथासिद्धिरित्यत्र तात्पर्ये दोषानवकाशात् । न चैवं दण्डचक्रादेर्मिंथोऽन्यथासिद्धिः, चक्रत्वादिनापि नियतपूर्ववर्त्तिताया आवश्यकत्वात् । ननु तद्घटादौ तद्रासभस्यापि कुतो नावश्यकत्वमिति चेत् ! घटत्वावच्छिन्नं प्रति क्लुप्तनियतपूर्ववर्त्तिसमाजादेव तत्संभवे तत्समनियत इव तत्रावश्यकल्पनानुदयात् ' [चतुर्थाऽन्यथासिद्धिनिरूपणम् ] “यमादायैव यस्यान्वयव्यतिरेकौ गृह्येते तेन तदन्यथासिद्धमिति चतुर्थं, यथा दंडादिना isत्वादि । न चाथ एवास्यान्तर्भावः, दंडादेर्दण्डत्वादितः पृथगन्वयाद्यभावात्, यमवच्छेदकीकृत्य यस्यावच्छेद्यस्यान्वयव्यतिरेकग्रहस्तेनाऽवच्छेधेन तस्यावच्छेदकस्यान्यथासिद्धिरित्यर्थात् । न वेह प्रथमान्तर्भावः, तत्र दंडादिनाऽवच्छेदकेन दंडरूपादेरवच्छेद्यस्यैवान्यथासिद्धेः । ननु दंडस्वस्य दंडघटितत्वात्तस्यावच्छेदकत्वे दण्डस्याप्यवच्छेदकत्वाद्दण्डत्वेनैव दण्डस्य कुतो नान्यथासिद्धिरिति चेत् ? 'यं पृथगन्वयव्यतिरेकशून्यमित्यस्य विवक्षितत्वात् । अत एव विनिगमनाविरहस्थले नान्यथासिद्धिः । 'स्वजन्यस्य यं प्रति पूर्ववृत्तित्वं गृहीत्वैव स्वस्य तत्त्वग्रहस्तत्र स्वमन्यथासिद्धं', यथा घट प्रति कुलालेन तत्पिता । साक्षादहेतोस्तस्य कुलाले घटजनकत्वे ज्ञात एव तद्द्वारा तस्य पूर्वभावग्रहात् । अथैवं स्वजन्यभ्रमिं प्रति घटजनकत्वं गृहीत्वैव तदद्वारा दण्डे घटपूर्ववृत्तित्वग्रहा दण्डोऽपि तथा तत्राऽन्यथा सिध्येत, अन्यथा कुलालेन कुलालपितापि न तथा स्यात्, तुल्ययोगक्षेमत्वा

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182