Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 132
________________ लो० ११] आत्मनः परिणामित्वादिसिद्धिः तथा च सर्वावच्छेदेन प्रकाशाऽप्रकाशोभयापत्तिः, विरुद्धं चैतत् , एकावच्छेदेन भावाभावोभयाऽसमावेशात् । स्यादभिमतमेतत् आत्मत्वावच्छेदेन प्रकाशो, द्रव्यत्वावच्छेदेन चाऽप्रकाश इति-मैवं, एवं सति सर्वज्ञोऽपि 'मामहं न जानामी'ति जानीयात् । ततो य एवं जानाति तत्र ज्ञानपदं चाक्षुपादिपरम् । किंच 'मामहं जानामि-सुखवन्तं दुखवन्तं चेति विपरीतप्रत्ययोऽपि दृश्यते । तथा च ज्ञानवत्त्वज्ञानस्याऽवच्छेदकाऽनन्तर्भावेन ज्ञानाभाववत्त्वज्ञानप्रतिबंधकत्वं युक्तिमत् । किं च तदनवच्छेदकस्य तदभावावच्छेदकत्वे घटकारणतानवच्छेदकस्य द्रव्यत्वस्य घटकारणत्वाभावावच्छेदकत्वापत्तिः । अन्यथा घटादावपि द्वैरुप्याऽऽपत्तिरिति दिए । तदेवं यौगसांख्यभट्टमत निरासाय 'चैतन्यस्वरूप' इत्यसूत्रयन् । 'परिणामी कर्ता साक्षादोक्ते'ति सांख्यमतप्रतिक्षेपाय । तथाहि-ते खल्विदमाचक्षते-"जीवो हि न क्वचिदपि परिणमतेऽप्रकृतिविकृतित्वात् । अत एव तस्य कूटस्थत्वं श्रुतिसिद्धम् । न च नित्यत्वमेव तत्, सत्कार्यवादे सर्वस्य नित्यत्वात्, किन्तु जन्यधर्माऽनाश्रयत्वम् । एतेन रूपान्तरभावः परिणामस्तदभावश्चात्मनि योगाघभिमत एवेत्यपास्तं, अपरिणामिन एव मृत्पिडादेर्घटाधुपादानत्वदर्शनात् । जन्यधर्माश्रयत्वे प्रसह्य परिणामित्वस्यैव प्रसक्तेः । न चैवं तस्य बन्धमोक्षाद्यनापत्तिः, इष्टत्वात् । तदुक्तं-तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिरिति ॥" [सां.का.६२]तथा नासौ कर्ता, न वा ततो वस्तुतो भोक्ताऽकृतभोगे कृतनाशाऽकृताभ्यागमप्रसङ्गात् । बुद्धिगतभोगयोगात्पुनर्भोक्तेत्युपचर्यते ।" तदेतत्सर्वमालजालं--साक्षाज्जीवगतत्वेन प्रतीयमानानां प्रकृतिगतत्वकल्पनाऽयोगात् । प्रकृतेरेव बुद्धिपरिणामित्वे मुक्तायामपि तत्प्रसंगात् । जीव सहकृतप्रकृतस्तथात्वे प्रकृतिसहकृतजीवस्यापि तथात्वं किं नाभ्युपैषि ? अपि च प्रकृतिजीवयोन तादात्म्यसम्बन्धोऽनभ्युपगमात्, किन्तु संयोग एव । स च जन्य एवाऽजन्यभावस्य नाशाऽयोगात् । तथा च जन्यधर्माऽनाश्रयत्वसिद्धान्तोऽपि न ते हिताय । अपि च प्रकृतिपुरुषसंबन्ध एव बन्धः, स च जीव एवेति किं न तत्र मोक्षोऽपि ! तथा च कर्तृत्वभोक्तृत्वे अपि तस्याऽव्याहते एवेति न किंचिदेतत् । [आत्मनः स्वदेइपरिमाणत्वसाधनम् ] 'स्वदेहपरिणाम' इति नैयायिकाघभिततविभुत्वविधूननाय । भाषितेऽत्र भगवन्मतस्पृशां, कर्णकोटरकुटुम्बनि स्फुटं । आः किमेतदिति भूरिसंभ्रमादाह गौतमिकुटुम्बमुच्चकैः ॥१॥ आत्मा विमुर्भवति निःक्रियताख्यहेतोः, व्योमेव मूर्तिमति सक्रियता हि सिद्धा । नाऽसिद्विगन्धमनिबन्धनमेति तस्मादस्माकमेष नियमः खलु तर्कसिद्धः ॥२॥ अत्रोत्तरं-परिमाणमवच्छिन्नमुत रूपादियोगिता । मूर्तिराद्यात्मनि स्पष्टा, द्वितीया व्याप्तिभंगभः ॥३॥ किंच-अहं पथीह

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182