________________
६८
स्याद्वादरहस्ये करण्यावच्छिन्नस्वाव्यवहितपूर्ववृत्तित्वसंम्बन्धेन योग्यविशेषगुणत्वत्त्वेन हेतुत्वम् । रोग-गंगास्नानादिनाश्यसंस्कारे नाशे व्यभिचारवारणाय कार्यतावच्छेदके 'योग्ये ति वेगावृत्तियोग्यजातिमदर्थकं, तेन न निर्विकल्पकजीवनयोनियत्नाऽसंग्रहः । द्वितीयक्षणोत्पन्नाऽदृष्टसंयोगादिनाऽपेक्षाबुद्धेस्तृतीयक्षणे नाशवारणाय कारणतावच्छेदके 'योग्य'ति 'विशेषेति च योग्यजातिमदर्थकं उभयाऽवृत्त्यर्थेकं च । यत्तु- योग्यपदमतीन्द्रियजातिशून्यार्थकमिति, तन्न, गौरवाद् । अपेक्षाबुद्धिनाशे तु द्वित्वनिर्विकल्पकत्वेन पृथक्कारणतेति न तस्यास्तृतीयक्षणे नाशः । अत्र स्वपूर्ववृत्तित्वं स्वाधिकरणक्षणाs व्यवहितपूर्वक्षणवृत्तित्वमिति चरमज्ञानशब्दादिनाशे न व्यभिचारो, अनेन सम्बन्धेन स्वस्यैव तत्र नाशकत्वात् । एतेन 'पूर्ववृत्तित्वं स्वप्रागभावाधिकरणक्षणवृत्तित्वं, अन्यथा स्वनाशकत्वापत्तेरिति निरस्तं, चरमज्ञानादाविवाऽन्यत्रापि ज्ञानान्तरस्यैव स्वस्य नियमबलायातनाशकत्वस्य प्रामाणिकत्वात् । युक्तं चैतत् , अन्यथा चरमज्ञानादौ नाशकान्तरकल्पनागौरवादिति ध्येयम् । इदं तु ध्येयं यदेकाधिकरणवृत्तित्वस्वपूर्वकालीनत्वोभयसम्बन्धो नाशकताऽवच्छेदकोऽन्यथा देशकालयोरवच्छेद्यावच्छेदकभावे विनिगमनाविरहादिति दिए ।
[स्याद्वादमते शब्दस्य नित्यानित्यत्वम्] स्याद्वादिनस्तु-नित्यानित्यः शब्दः, केवलनित्यत्वे प्रकृतिप्रत्ययादिविभागेनाऽनुशासनादिना साधनानुपपत्तेः, केवलाऽनित्यत्वेऽपि क्षणिके तत्र प्रकृतिप्रत्ययादिनोपस्काराधानाऽसंभवात् । अत एवोक्तं स्तुतिकृतैव 'सिद्धिः स्याद्वादात्' [सि० हे. अ०१-पा०-२ सू० २] इति । इदं तु ध्येयं-घटत्वादिना घटादिरिव शब्दत्वेन शब्दोऽनित्य एव, द्रव्यत्वेन तु नित्य इति । अत एव कादाचित्कत्वलक्षणपर्यायलक्षणेनोत्खातत्वात् शब्दः पर्याय इत्यप्यविरुद्धम् ।
मनसोऽपि चानतिरेके न किंचिदनिष्टं नः, पृथिव्यादेः पुद्गलत्वेनैकधैव विभजनात् । ‘एवं सति पृथिवीजलयोर्भेदो न स्यात्' इति चेत् ? घटपटयोरिव किं न स्यात् ? द्रव्यतोऽयं न स्यादिति चेत् ! स्यादभिमतमेवेदं युक्तिसिद्धत्वात् । तथाहि-'पृथिवीतरेभ्यो मिद्यते गंधवत्वादि'त्यत्र सर्वदा गन्धवत्त्वं भागाऽसिद्धं, कदाचिद्गन्धवत्त्वं तु जलादो व्यभिचारीति । न च जलादेन गन्धारम्भकत्वं, पृथिवीत्वेनैव तद्धेतुत्वादिति वाच्यं, गन्धवतैव कदाचिददृष्टविशेषादिसहकारेणोद्भूतगन्धारम्भात् ।
इत्थं च द्रव्याणि धर्माधर्माकाशजीवसमयपुद्गला इति विभागवाक्ये न कश्चिद् दोषः । अत्र यद्यप्युद्देश्यविधेयभावस्थले विधेयतावच्छेदकरूपेण 'धूमवान् वह्निमानि'त्यादौ विधेयस्य व्यापकत्वलाभो दृष्टः, तथाप्यत्र धर्मत्वादिना तदसम्भवाद्विधेयतासमव्याप्तरूपेण व्यापकत्वं संसर्गतया लभ्यत इति धर्मोद्यन्यतमत्वादिना व्यापकत्वलाभ इत्येके । तदसत्, 'द्रव्यगुणकर्मान्यत्वविशिसत्तावदित्यत्र द्रव्यान्यत्वविशिष्टसत्तात्वेन व्यापकतालाभप्रसंगात् , विधेयतावच्छेदकावच्छिन्नसम