________________
६७
लो० ११]
शनित्यानित्यत्वविचारः पृथक् पृथक् विजातीयपवनसंयोगस्याऽनन्तहेतुताकल्पने गौरवमिति चेत् १ तहि श्रावणत्वावच्छिन्नं प्रत्येवोपदर्शितसंबन्धेन हेतुताऽस्तु । केचित्तु दोषाभावानां हेतुतापेक्षया विजातीयवायुसंयोगस्य पृथग हेतुत्वमप्युचितमित्याहुः। श्रावणसमवाय-श्रावणविशेषणतादिना गुणत्व-ककारमेदादिग्रह इत्यप्याहुः।
अत्र नैयायिकानुयायिनः-शब्दस्य व्यंग्यत्वे श्रावणजनकतावच्छेदिका जातिः पवनसंयोग इवात्ममनोयोगे श्रोत्रमनोयोगादौ वा विनिगमनाविरहेण कल्पनीया स्यात् । किं चैवं घटादेरपि व्यंग्यत्वसम्भवेन सत्कार्यवादापत्या सांख्यमतप्रवेशः । 'घटसाधनतादिज्ञानेन दंडादौ प्रवृत्तेर्घटादिव्यंग्यत्ववादो न युक्त' इति चेत् ! तर्हि शब्दसाधनताज्ञानेन कंठताल्वावभिघातादौ प्रवृत्तेः शब्दव्यंग्यत्ववादोऽपि किं न तथेति एकं सीव्यतोऽपरप्रच्युतिः । एवं च शब्द उत्पन्न इत्यादिप्रतीतौ शब्दपदं शब्दाभिव्यक्तिपरमित्यपास्तं, 'वीणायां शब्द' इत्यादिप्रतीतेस्तथाप्युपपादियितुं शक्यत्वात् । सचायं क्षणिकः । क्षणिकत्वं च तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वमतो नाऽपसिद्धान्तः ।
अत्र शिरोमणिनयानुयायिनः-आधशन्दस्य कार्यशब्देन नाशोऽन्त्यशब्दस्य कारणशब्दनाशेन, मध्यमानां पुनरुभाभ्यामपीति संप्रदायमतमयुक्तं, प्रतियोगितया नाशत्वावच्छिन्नं प्रति स्वप्रतियोगिजन्यत्वसंबन्धेन नाशत्वेनैवाऽन्यत्र क्लुप्तेन कार्यकारणभावेन सकलशब्दनाशनिर्वाहात् । तथा च शब्दस्योत्सर्गतः क्षणचतुष्टयावस्थायिविजातीयपवनसंयोगनाश्यत्वेन क्षणचतुष्टयावस्थायितैवोपपत्तिमती । न चैवं क्षणिकत्वसिद्धान्तहानिः, अपेक्षाबुद्धिसंग्रहाय तृतीयक्षणवृत्तिध्वंसप्रतियोगिवृत्तिविभाजकोपधिमत्त्वस्य तत्त्वादित्याहुः। तच्चिन्त्यं, एवं सति ज्ञानादेरपि विजातीयात्ममनोयोगनाश्यत्वापत्त्या क्षणचतुष्टयावस्थायितापत्तेः । एतेन 'शब्दनाशत्वावच्छिन्नं प्रति विजातीयपवनसंयोगनाशत्वेन हेतुत्वमि' त्यप्यपास्तं, जन्यात्मविशेषगुणनाशत्वावच्छिन्नं प्रत्यप्येवं विजातीयात्ममनःसंयोगनाशत्वेन हेतुतायाः सुवचत्वात् । अथ-स्वप्रतियोगिजन्यत्वकालिकोभयसम्बन्धेन स्वविशिष्टप्रतियोगिकनाशत्वावच्छिन्ने प्रत्येव नाशत्वेन हेतुता, ज्ञानादेस्तु स्वोत्तरोत्पन्नज्ञानादिना पूर्वमेव नाशान्न विजातीयात्ममनःसंयोगनाशनाश्यत्वमिति चेत् ? तर्हि प्रथमशब्दादेरपि प्रदेशान्तरे स्वोत्तरोत्पन्नद्वितीयादिशब्देन पूर्वमेव नाशान्न निमित्तपवनसंयोगनाशनाश्यत्वमिति समानम् । अन्त्यशब्दनाशार्थ विजातीयपवनसंयोगनाश्यत्वेन हेतुताऽस्त्विति चेत् ? न, विजातीयशब्दनाशं प्रति प्रागुक्तसंबन्धेन शब्दनाशत्वेन हेतुताया एवोचितत्वात् । अन्यथा सुषुप्तिप्राक्कालीनज्ञाननाशार्थ मनःसंयोगनाशस्यापि ज्ञानादिनाशकत्वकल्पनापत्तरिति साम्प्रदायिकाः।
स्यादेतत् । योग्यविभुविशेषगुणनाशं प्रति स्वोत्तरोत्पन्नयोग्यविशेषगुणत्वेन हेतुत्वं न युक्तमिति चेत् ? अत्र वदन्ति-प्रतियोगितया योग्यविभुविशेषगुणनाशत्वावच्छिन्नं प्रत्येकाधि