________________
६६
स्याद्वादरहस्ये
कश्चित्तु - शब्दो न स्पर्शशून्याश्रयो बहिरिन्द्रियव्यवस्थापकत्वाद्रूपवदित्याह । तदसत्, बहिरिन्द्रियव्यवस्थापकत्वं हि यत्किञ्चिद्वहिरिन्द्रियवृत्तिसामान्यधर्मावच्छिन्नभेदव्य । प्यबहिरिंद्रियजन्यग्रहणग्राह्यत्वम् । तथा च रूपत्वादौ व्यभिचारो, व्याप्यान्तवैयर्थ्य, 'सामान्यवत्त्वे सती' तिविशेषणदाने च पूर्वहेत्वविशेष इति । द्वितीयोऽप्यन्यतराऽसिद्धः, शब्दगुणवत्त्ववादिना क्रियारूपयोस्तत्प्रवेश निर्गमयोर नंगीकारात्, भित्त्यादिकमुपभिद्य प्रसर्पिणा मृगमदादिद्रव्येनाऽनैकांतिकश्च । अतिनिबिडप्रदेशे प्रसर्पणानंगीकारोप्युभयत्र समानस्तुल्ययोगक्षेमत्वात् । तृतीयोप्युल्कादिना सव्यभिचारः । चतुर्थोपि धूमादिना, पंचमस्तु स्पष्टमेव प्रागसिद्धत्वेन प्रदर्शित इति ।
[शब्द नित्याऽनित्यत्व चिन्तनम् ]
स्यादेतत् —‘द्रव्यं भवन्नयं नित्यो वा स्यादनित्यो वा ?
छात्र मीमांसकानुयायिनो – नित्य एव शब्दो, 'यमेव पूर्वमश्रौषं स एवायं गकार' इत्यबाधितप्रत्यभिज्ञानात् शब्दोत्पादादिप्रतीतेर्वायुत्पादादिविषयकत्वादुत्पत्तेः स्वत्वगर्भत्वेऽपि खंडशस्तदारोपसंभवात् । न च तारमंदादिमेदेन शब्दनानात्वावश्यकत्वाद् नानाशब्देष्वप्यबाधितप्रत्यभिज्ञादर्शनात् अस्तु तस्यास्तञ्जातीयाऽभेदविषयकत्वं व्यक्त्यभेदविषयिण्यास्तु भ्रमत्वमिति चेत् १ न, घटादौ श्यामत्वरक्कत्वादिवदेकत्रापि शब्दे तारत्वमन्दत्वादिसम्भवात् । अस्तु वा तारत्वादिजातिः शब्दमात्रवृत्तिरेव, विजातीयपवनवशात्तु क्वचित् कदाचिदभिव्यक्तिरिति । यत्तु - चैत्रादेः ककारादिप्रत्यक्षे चत्रादिकर्णावच्छिन्नविजातीयवायुसंयोगस्य हेतुतेति मीमांसकानामतिगौरवं, नैयायिकानां पुनरवच्छेदकतया चैत्रादिककारादौ विजातीयवायुसंयोगो हेतुस्तत्पुरुषीयनिखिलशब्दप्रत्यक्ष च तत्पुरुषीयकर्णावच्छिन्नसमवाय इति लाघवमितिपदार्थमालायां प्रत्यपादि; तच्चिन्त्यम्, विजातीयवायुसंयोगस्य स्वावच्छेदकश्रोत्रसंयुक्तमनःप्रतियोगिकविजातीयसंयोगसम्बन्धेन निखिलशब्दश्रवणं प्रति हेतुत्वे मीमांसकानामेवातिलाघवात् । किं च - शब्दस्य जन्यत्वे वीणाकाशादीनामप्यनन्तहेतुताकल्पनीया न तु व्यंगत्वे इति । एतेन - ' जन्यत्वपक्षे विजातीयपवनस्य कत्वं जन्यतावच्छेदकमिति लाघवं व्यंग्यत्वपक्षे तु कप्रत्यक्षत्वं कश्रावणत्वादिकं वेति गौरवमिति निरस्तं, स्वाश्रयलौकिकश्रावणविषयतया व्यंग्यत्वपक्षेऽपि कत्वस्य तत्त्वसंभवात् । नच समवायापेक्षयोक्तसंबन्धे गौरवं, संबंधगौरवस्यादोषत्वात् । वस्तुतो निरुक्तसंबंधेन शब्दत्वमेव मम तज्जन्यतावच्छेदकमिति कत्वाद्यवच्छिन्नं प्रति नानाहेतुता कल्पने तवैव गौरवम् । एतेन तव स्वावच्छेदकेत्यादिसंबन्धेन हेतुता, मम त्ववच्छेदकतयेति लाघवमपि अपास्तं, तथापि चैत्रत्वाद्यंतभीवेनानन्तकारणताकल्पनागौरवाच्च । एवं च समानविषयक ककाराद्यनुमितौ विजातीयपवनसंयोगघटितश्रावणसामग्र्याः प्रतिबंधकत्वकल्पनागौरवमप्यनुद्भाव्यं, चैत्रकर्णसंयोगावच्छिन्नसमवायघटित सामग्रया एव तथात्वे प्रत्युत गौरवात् । अथ तथापि गकारादौ गुणत्वादेः ककारमेदादेश्व ग्रहाय