________________
श्लो० ११]
शब्दद्रव्यत्वसाधनम्
रिन्द्रियत्वाद्रसनवदित्यपि निरस्तं, अप्रयोजकत्वात् । द्रव्यग्रहप्रयोजकप्रत्यासत्तेरभिहितत्वेन तदसिद्धिरूपविपक्षबाघकतर्काऽभावात् । 'शब्दः पौद्गलिक इन्द्रियार्थत्वाद्वपादिवत् शब्दो नाम्बरगुणः अस्मदादिप्रत्यक्षत्वात् रूपादिवदिति तु प्राश्च: । 'आगतोऽयं शब्द' इत्यादिप्रतीत्यापि क्रियावत्वाच्छन्दो द्रव्यम् । न च पवमानगतक्रियैव शब्दे आरोप्यत इति वाच्यं, एवं सति कथादीनामपि पवमानगतत्वापत्त्या शब्दस्य निरूपाख्यत्वापत्तेः । ततश्च शब्दोनुपवमानं परिसर्पत्येवेत्यवश्यं प्रतिपत्तव्यम् । उक्तं च- 'यथा हि प्रेर्यते तूलमाकाशे मातरिश्वना । तथा शब्दोऽपि किं वायोः प्रतीपं कोपि गच्छतीति ॥ ननु - शब्दस्य द्रव्यत्वे तदेकत्वत्वादिग्रहाय श्रोत्रसंयुक्तसमवेतसमवायस्य प्रत्यासत्तित्वे गौरवमिति चेत् ? न, इन्द्रियसंयुक्तसमवेतसमवायस्यैव सा - मान्यतः प्रत्यासत्तित्वाद्रूपस्पर्शयोः पृथग्नियामकत्वेनैवाऽयोग्याऽचाक्षुषाऽस्पार्शन निर्वाहात्तदनुरोधेन विशिष्य प्रत्यासत्तित्वाऽकल्पनात् घ्राणादौ पृथिवीत्वादेर्मानाभावेनेन्द्रियत्वस्य नातित्वात् ।
,
६५
नव्यास्तु-निमित्तपवनस्यैव शब्दो गुणः । अत एव निमित्तपवननाशात्तन्नाशः, समवायिकारणनाशस्य समवेतकार्यनाशं प्रति हेतुत्वात् । कर्णसंयुक्तनिमित्तपवनसमवायाच्च तद्ग्रहः । न च वीणावेणुमृदंगादेरेव कुतो नायं गुण इति वाच्यं तेषामननुगतत्वान्निमित्तपवनस्यैवाऽनुगतत्वेन समवायिकारणत्वौचित्यात्तेषां निमित्तकारणत्वे क्लुप्तेऽपि समवायिकारणत्वाऽकल्पनात्संबंधभेदेन कारणताभेदात् । आकाशः पुनरीश्वरः एवेत्याहुः । तन्न, पवनगुणत्वे शब्दस्य स्पर्शवत्स्पार्शनाऽऽपत्तेः । न च त्वाचाऽयोग्यत्वान्न तस्य स्पार्शनं श्रवणं तु निराबाधं, गुणश्रावणत्वावच्छिन्नं प्रति शब्दत्वेन हेतुत्वादिति वाच्यं, अयोग्यत्वस्य प्रतिबन्धकत्वे विशिष्य विश्रामागौरवात् । किं चैवमीश्वरादिगुणत्वेऽपि विनिगमनाविरहात् शब्दस्य द्रव्यत्वमेवोचितम् । न चानन्तसंयोगादिकल्पनागौरवं, तव समानाधिकरण्येन तत्कल्पना मन पुनरपृथग्भावेनेति प्रत्युत लाघवात् । [प्राचीन न्यायोपन्यस्तपञ्च हेतुखंडनम् ]
एवं च अस्य पौद्गलिकत्वप्रतिक्षेपाय 'स्पर्शशून्याश्रयत्वं, अतिनिबिडप्रदेश प्रवेशनिर्गमयोरप्रतिघातः, पूँर्वे पश्चाच्चावयवानुपलब्धिः, सुक्ष्ममूर्त्तान्तराऽप्रेरकत्वं, गॅगनगुणत्वं चेति पंचतवो ये जरन्नैयायिकरुपन्यस्तास्ते हेत्वाभासा एव । तथाहि प्रथमस्तावन्न सिद्धिसोधमध्यास्ते, भाषावर्गणादेस्तदाश्रयस्य स्पर्शवत्त्वात्, पुद्गलस्य स्पर्शवत्त्वनियमात्, अन्यथा तत्पुद्गलेषु कदापि स्पर्शाऽनुद्भवप्रसंगात् । न चैतदभिमतमनियतारंभवाद इत्यन्यत्र विस्तरः । शब्दाश्रयः स्पर्शवान् बहिरिन्द्रियार्थाधारत्वात्पृथिव्यादिवदित्यप्याहुः । अत एव स्पर्शवदनारम्यत्वेन जन्यद्रव्यत्वाभावसाधनमप्यस्य परास्तं, तवापि विजातीयद्रव्यत्वेन जन्यद्रव्यजनकत्वमित्यस्याऽन्धकारवादे व्यवस्थापितत्वाच्च । एवं सति शब्दो न स्पर्शशून्याश्रयः बहिरिन्द्रियग्राह्यत्वे सति सामान्यवत्त्वाद्रूप - वदित्यनुमानमप्याहुः ।
स्था. र. ९