________________
६४
स्याद्वादरहस्ये
"
इति चेत् ? ताकाशस्यैव प्रतिनियत सम्बन्धघटकत्वं कुतो न कल्प्यते ? धर्मिकल्पना ते इत्यादिन्यायात् । एतेन 'घटादिना सममुदयाचलादेदैशिकसम्बन्ध एवैकः कल्प्यते समवायवत् न दिग्द्रव्यं, एकाकारप्रतीतौ तद्घटितानेकपरम्परासम्बन्धावगाहित्वानौचित्यादि'ति नव्यमतमप्यपास्तं, एवं सति मूर्त्तमात्रस्यैव दिक्त्वेन 'यस्यां दिशि घटस्तस्यामेव पटः' इति प्रयोगाsनापत्तिः । तस्मात्प्राच्यादिविभागेन कथंचिद्विभिन्ना प्राध्यप्रतिच्यो भयाधारत्वेन कथंचिदेका चाकाशामकैव दिगिति ।
[शब्दद्रव्यत्वसिद्धिः ]
इत्थं च शब्दगुणत्वेनाकाशासिद्धिरपि नास्माकं दोषाय, शब्दस्य द्रव्यत्वेनाभिमतत्वात् । तथा चार्ष - ' संदधकारउज्जोआ पभा छाया तदेव य'त्ति [नवतत्त्व - ११] । किं च- मूर्त्तत्वादपि शब्दस्य द्रव्यत्वमुपपत्तिमत् । न च मूर्त्तत्वमेव ध्वनेरसिद्धं प्रतिघातविधायित्वादिभ्यस्तत्सिद्धेः । तदुक्तं—‘प्रतिघातविघायित्वाल्लोष्टुवन्मूर्त्तता ध्वनेः । द्वारवातानुपाताच्च घूमवच्च परिस्फुटमिति । न च तस्य गुणत्वेऽपि प्रतिघातजनकत्वं निराबाधं, तस्य द्रव्यत्व एव तज्जन्यनोदनादिजन्यक्रिययाऽवयवविभागसंभवात् । अथ 'तेंद्धेतोरेवे' त्यादिन्यायात्तीवशब्दजनकतीव्रपवमानस्यैवाऽभिघातजनकत्वमस्त्विति चेत् ? न, अंततो विनिगमनाविरहेणाऽपि ध्वनेरभिघातजनकत्वसिद्धेः पवमानस्यानिप्सितत्वाच्च । प्रतिस्खलनमप्यस्य नाऽसिद्धं, प्रतिस्खलितस्यैव विश्रेण्यां ग्रहणात् । तथा * - ' वीसेढ पुण सद्दं, सुणेइ नियमा पराधाए 'त्ति तत्र शब्दान्तरोत्पत्तिकल्पने च गौरवम् ।
किं च - शब्दस्याकाशगुणत्वे सर्वस्य सर्वशब्दग्रहणापत्तिः, श्रोत्रसमवायाऽविशेषात् । तत्पुरुषीयकर्णशष्कुल्यवच्छिन्नसमवायसम्बन्धावच्छिन्नाधारतायास्तत्पुरुषीयशब्दग्रहं प्रति नानाहेतुत्वकल्पने च गौरवात्, श्रोत्रसंयोगस्यैव शब्दप्रत्यासत्तित्वमुचितम् । अत एव प्रत्यपादि परमर्षिणा 'पुठ्ठे सुई सद्दमि' (आव, नि. ५) ति । युक्तं चैतत् - समवाय समवेतसमवाययोः प्रत्यासत्तित्वाकल्पनलाघवात् । विषयतया मूर्त्तप्रत्यक्षत्वावच्छिन्नं प्रति समवायेनोद्भूतरूपस्य हेतुत्वान्न संयोगेन शब्दग्रहः संभवतीति चेत् न, तल्लाघवबलेनाऽपि द्रव्यचाक्षुषत्वस्यैवोद्भूतरूपकार्यतावच्छेदकत्वात् । तथा च संयोगेनाऽपि शब्दस्य द्रव्यत्वसिद्धिः । एतेन 'शब्दस्य द्रव्यत्वेऽनन्तसंयोगतत्प्रागभाव प्रध्वंसादि कल्पनागौरवमित्यपि निरस्तं, तस्य फलमुखत्वेनाऽदोषत्वात् ।
1
‘श्रोत्रेन्द्रियव्यवस्थापकत्वेन शब्दस्याम्बरगुणत्वसिद्धिरित्यपि कश्चित्, सोपि न विपश्चित् । इन्द्रियान्तराऽग्राह्यग्राहकत्वमेव भिन्नेन्द्रियत्वव्याप्यं न तु गुणान्तर्भावेन, गौरवादित्युक्तत्वात्, शब्दैकत्वादिप्रहस्यापि श्रोत्रांधीनत्वाच्च । एतेन श्रोत्रेन्द्रियं द्रव्याऽग्राहकं रूपस्पर्शाऽग्राहक बहि
१. ' धर्मिकल्पनातो धर्मकल्पना लघीयसी'ति न्यायात् । २. शब्दान्धकारोद्योताः प्रभा छाया तथैव च ॥ ३. तद्धेतुहेतोस्तद्धेतोरेवातत्त्वम्' इति न्यायात् । ४. विश्रेण्या पुनः शब्दं श्रुणोति नियमात्पराघाते । ५. स्पृष्टं णोति शब्दम्' ।