________________
-६३
श्लो० ११]
नास्तिकमत निराकरणम् प्राञ्चस्तु--उपनीतभानस्थले विशेषणज्ञानविशिष्टबुद्धयोः कार्यकारणभावेनैवास्माकं चरितार्थता, अनुमितेर्मानसत्वव्याप्यतावादे तु पक्षादेर्मुख्यविशेष्यतयैव भानान्नानेन गतार्थता इत्यतिरिक्तकार्यकारणभावकल्पने गौरवमित्याहुः। वस्तुतस्तु-अनुमितेर्मानसत्वे एकवह्नयनुमितिकृतोपि द्वितीयतदापत्तिः, प्रत्यक्षस्य सिद्धयप्रतिबध्यत्वात् । न च प्रत्यक्षान्तरस्याऽतथात्वेप्यनन्यगत्याऽनुमितिरूपप्रत्यक्षस्य सिद्धिप्रतिबध्यत्वान्नायं दोष इति वाच्यं, 'सुखव्याप्यज्ञानवानि'त्यादिपरामर्शजन्यायां 'सुखवानात्मे'त्याद्यनुमितौ विजातीयात्ममनःसंयोगजन्यतावच्छेदिकया सांकर्यान्मानसत्वव्याप्याऽनुमितित्वजात्यसिद्धेः । यत्तु-उपदर्शितानुमितौ संनिकर्षनियम्यलौकिकविषयतायाःसम्भवेन 'साक्षात्कारोमी तिप्रतीत्यापत्तिरिति--तन, संनिकर्षजन्यसंशयसाधारण्येन लौकिकान्यविषयतायाः 'साक्षात्कारोमी तिथीप्रतिबन्धकताऽकल्पनेन तदोषानवकाशात् । उपदर्शितानुमितौ लौकिकाऽलौकिकोभयविषयतायाः स्वीकारात् लौकिकविषयतावन्निश्चयत्वेनैव 'साक्षात्कारोमी तिघोहेतुत्वम् । निश्चयत्वं च तदभावप्रकारकत्वाऽनुमितित्वोभयाभाववत्त्वे सति तत्प्रकारकज्ञानत्वमतो नाऽयं दोष इत्यपि कश्चित् ।
आत्मनः शरीरानतिरेके संयोगस्य पृथक प्रत्यासत्तित्वाऽकल्पनलाघवमपि वार्त, अखंडाभावहेतुताया दूषितत्वादन्यादृशहेतुताकल्पने गौरवात्, महत्त्वोद्भूतरूपयोः प्रत्यासत्तिमध्ये निवेशेन त्रुटिग्रहार्थ तत्स्वीकारावश्यकत्वादित्यन्यत्र विस्तरः ।
किं च-शरीरस्याऽऽत्मत्वे अहमस्मी तिवद् 'अहं शरीरमिति प्रत्ययोऽपि प्रमा स्यात्, न स्याच्च अहमात्मवानि तिवद् 'अहं शरीरवानि'त्यपि । दिकालयोरनतिरेके च न किञ्चिदनिष्टं नः । आकाशस्यैव दिक्त्वात् । उदयाचलादिसंनिहितेनैव प्राध्यादिव्यपदेशात् ।
[दिक्कालयोनिरुक्तिः] नन्वेवमुदयाचलादिसंनिहितधर्मास्तिकायादेरपि कुतो न दिक्त्वं ? 'गत्यादिहेतुत्वेन क्लुप्तात्ततः परत्वाऽपरत्वादिव्यवहारहेतुतया कल्प्यमाना दिगतिरिच्यत' इति चेत् ? तीक्गाहनाहेतुत्वेन क्लुप्तादाकाशादपि सा कुतो नातिरिच्यत ? इति चेद् ? अत्र ब्रमः अवगाहना हि न संयोगदानं उपग्रहो वाऽन्यसाधारणत्वात्, किंत्वाधारत्वपर्यायः । तथा च 'इह विहग' इत्यादौ संबन्धघटकतया सिध्यन्नाकाशः परमार्थतो दिगेवेति तत्त्वम् ।
कालश्च जीवाजीवयोर्वर्तनापर्याय एवेति न तस्याप्याधिक्यमभिमतम् । यत्तु-'प्राच्या घट' इत्यादावुदयाचलसंयोगादिरूपप्राच्यादेर्घटादिना साक्षात्संबन्धबाधात्तत्संयुक्तसंयोगादिरूपपरम्परासंबन्धघटकतयैका विभ्वेव च दिक् सिध्यति, आकाशात्मनोरतिप्रसंगेन तत्संबन्धाऽघटकत्वात् । एवं कालोऽपि तपनपरिस्पंदनियतसम्बन्धघटकत्वे चैको विभुरेव सिध्यतीति'-तन्न, दिशः सर्वथैकत्वे 'प्राच्या घट' इतिवत्प्रतीच्यां घट इत्यस्याप्यापत्तेरेकस्या दिशोऽविशेषेणोदयाचलाऽस्ताचलसम्बन्धकत्वात् । अथ धर्मिगाहकमानेन स्वभावतस्तत्तदिशि तत्तपदार्थानामेक सम्बन्ध इतिः नातिप्रसंग