________________
स्याद्वादरहस्यै
अथ सुमूर्षाद्यनंतरोपजायमानभिन्नज्ञाने जातिविशेषं स्वीकृत्य तदवच्छेदेन चाक्षुषादिसामग्रचाः प्रतिबंधकत्वेऽनुमित्यादेः परोक्षवृत्तित्वमेवास्त्विति चेत् न, तदवच्छेदेन स्मृत्यन्यज्ञानसामग्रया एव प्रतिबंधकत्वात्तज्जातिविशेषस्य स्मृतित्वव्याप्यस्यैव युक्तत्वात् । तज्जाविवदन्यज्ञानसामग्रीत्वादिना प्रतिबंधकत्वेऽपि विशेषणतावच्छेदकप्रकारकज्ञानजन्यतावच्छेदकतया सिद्धस्य प्रत्यक्षस्यैवानुमितौ युक्तत्वात् । विशेषणतावच्छेदकाभावप्रकारकत्वे सति विशेषणतावच्छेदकप्रकारकत्वेन विशिष्टवैशिष्टयविषयित्वावच्छिन्नं प्रत्येव तथात्वे तत्संशयेऽप्यनुबुद्धसंस्काराद्विशिष्टवैशिष्ट्प्रत्यक्षापत्तेरिति चेत् ? अत्र केचित्, अनुमितेर्मानसत्वव्याप्यत्वे चाक्षुषादिसामग्रयां सत्यां भिन्नविषयकानुमितिर्न स्याद्भोगान्यसानसं प्रति चाक्षुषादिसामग्रचाः प्रतिबन्धकत्वात् । नच चक्षुर्मनोयोगादिविगमोत्तरमेवानुमित्यभ्युपगमः, त्वङ्मनोयोगादिविगमस्य कल्पयितुमशक्यत्वादिति ।
तच्चिन्त्यमित्यपरे, अनुमितित्वस्य भोगत्वव्याप्यत्वाभ्युपगमेन तदोषाननुवृत्तेः । न च वहून्यादेः कथं भोगविषयत्वं चन्दनादिवदुपपत्तेः । अन्ये तु तदानीं वह्निमानस स्वीकारे लिङ्गादोनामपि मानसाएत्तिः । न चाचार्यमत इव तत्र तद्भानमात्र इष्टापत्तिरेवमप्युच्छृंखलोपस्थितानां घटादीनां तत्र भानापत्तेः । न च तद्धर्मिक तत्संसर्गकतत्तद्धर्मावच्छिन्नव्याप्यवत्ताज्ञानाऽत्मकविशेषसामग्रीविरहान्न तदापत्तिरिति वाच्यं, सामान्यसामग्रीवशात्तदापत्तेः । न च घटमानसत्वस्य परामर्शादिप्रतिबध्यतावच्छेदकतया न तदापत्तिः, पटमानसत्वादेरप्युच्छृंखलोपस्थितघटादिभानवारणाय तत्प्रतिबध्यतावच्छेदकत्वेऽनन्तप्रतिबध्यप्रतिबन्धक भावकल्पनापत्तेः । अथ भोगपरामर्शजन्यभिन्नज्ञाने जातिविशेषं स्वीकृत्य तदवच्छिन्नमानसं प्रति तज्जातोयान्यज्ञानसामग्याः प्रतिबन्धकत्वान्न तदानीं वह्नीतरज्ञानापत्तिरिति चेत् ? न मानसत्वस्यैव परामर्शघटित सामग्रीप्रतिबध्यतावच्छेदकत्वौचित्यात् । न चैवमनुमितिसामन्यां सत्यां भोगोऽपि कथं भवेदिति वाच्यं, भोगान्यज्ञानप्रतिबन्ध कतावच्छेदकतया समानीतजातिविशेषवतां सुखदुःखानामुत्तेजकत्वात् । नचतादृशसुखदुःखकालेऽप्यनुमितिसामग्रीभूतपरामर्शादौ समवायेन तदभावादनुमित्यापत्तिः, सामानाधिकरण्यकालिकोभयसंबन्धावच्छिन्नतदभावस्य निवेशात् इति सिद्धान्तयन्ति ।
६२
तत्रेदं चिन्त्यं --- अनुमितिसामग्रचा मानसं प्रति प्रतिबन्धकत्वस्य तत्तदिच्छारूपोत्तेजकभेदेन विशिष्य विश्रान्त्याऽनुमितेर्मानसत्व एव वहचादिमानसं प्रत्यप्रतिबन्धकत्वकल्पनया लाघवम् । तत्तदिच्छोपजायमानभिन्ने प्रतिबध्यतावच्छेदकजातिस्वीकारस्तु परामर्शजन्यभिन्नेऽपि भजमान इति नवयाद्यनुमितिसामग्रीकाले उच्छृंखलोपस्थितघटादिभानवारणाय मानसत्वस्य तत्प्रतिबध्यतावच्छेदकत्वकल्पनौचित्येनानुमितेरप्रत्यक्षत्वाभिधानं युक्तमिति । न च तज्जात्यवच्छिन्नं प्रत्यनुगतकारणकल्पनापत्तिः, कार्यमाश्रवृत्तिजातेः कार्यतावच्छेदकत्वनियमे मानाभावात् । किंच विजातीयसुखदुःखानां नोत्तेजकत्वं सुखत्वादिना सांकर्येण तद्वैनात्याऽसिद्धेः ।
१. उदयनाऽऽचार्यमते