________________
श्लो०११]
नास्तिकमतनिराकरणम् महाभावविशिष्टधूमपरामर्शाव्यवहितोत्तरोत्पत्तिकत्वं अव्यवहितोत्तरत्वसम्बन्धेनाप्रामाण्य प्रहविशिष्टान्यधूमपरामर्शाऽव्यवहितोत्तरोत्पत्तिकत्त्वं वा तथा, यत्र धूमपरामर्शद्वितीयक्षणे धूमज्ञानाऽप्रामाण्यावगाही आलोकपरामर्शस्तदुत्तरानुमितौ व्यभिचारात् , यत्र च पूर्व धूमपरामर्शनिष्टेदंत्वधर्मितावच्छेदककाऽप्रामाण्यग्रहस्ततश्च धूमपरामर्शान्तरं तदुत्तरानुमितेश्वाऽसंग्रहात् । किंत्वव्यवहितोत्तरत्वसंबन्धेनाऽप्रमाण्यग्रहाभावविशिष्टपरामर्शाधिकरणक्षणविशिष्टत्वं, तत्र च शुद्धाधिकरणतानामतिप्रसञ्जकत्वेन विशिष्टाधिकरणतात्वेन निवेशे प्रागुक्तस्मृतिसंशयादिस्थलोयपरामर्शविशिष्टाधिकरणतानां निवेशे तदोषानुद्वारात् । अप्रामाण्यस्याऽननुगमेनैकाभावनिवेशाऽसम्भवाच्च ।
यत्त्वप्रामाण्यज्ञानाभावस्य पृथक् कारणत्वादेतदुत्तरज्ञानत्वस्य जन्यतावच्छेदकत्वे नोक्को दोष इति तन्न, तत्तद्वयक्तित्वेनाऽप्रामाण्यग्रहाऽभावानां तत्तदप्रामाण्यग्रहाभावविशिष्टधूमादिलिंगकानुमितिं प्रति हेतुत्वकल्पनापेक्षया सामानाधिकरण्यविशेष्यतासम्बन्धावच्छिन्नप्रतियोगिताकाऽप्रामाण्यग्रहाभावानामवच्छेदकत्वकल्पनौचित्यात् । यत्तु 'वह्निमनुमिनोमो'त्यनुव्यवसायेनाsनुमितित्वसिद्धिरिति, तन्न, तत्र विधेयताविशेषस्यैव विषयत्वात् । अन्यथा 'पर्वतमनुमिनोमी' त्यपि स्यात् । 'परामर्शजन्यतायामपि स एव प्रवेश्यतामिति चेन्न, तदीयसम्बन्धापेक्षयाऽनुमितित्वीयसंबन्धस्य समवायरूपस्य कार्यतावच्छेदकत्वे लाघवात् । अव्यवहितोत्तरत्वेनैवानतिप्रसंगे वह्निविधेयकत्वादेर्निवेशाऽनावश्यकत्वादिति दिग् ।
[अनुमितेर्मानसान्त वाऽशक्यता] नन तथाप्यनुमितित्वस्य मानसत्वव्याप्यत्वमेवेति प्राक् प्रत्यपीपदाम । नचानुमितेः साक्षाकारत्वे 'वहिं न साक्षात्कारोमो'ति प्रतीतिः कथमिति वाच्यं, तत्र लौकिकविषयतया, साक्षात्काराभावादेव गुरुत्वादाविव तदुपपत्तेः । अत एव लौकिकविषयतावत्येव 'साक्षात्करोमी तिप्रतीत्युत्पत्तेः 'पीतं शंखं साक्षात्कारोमो'त्यादिप्रतीतिबलाद्दोषविशेषनियम्यामपि लौकिकविषयतां कल्पयन्ति ग्रान्थिकाः । युक्तं चैतत् । चाक्षुषादिसामग्रीसत्त्वे मानसत्वरूपव्यापकधर्मावच्छिन्नसामग्यभावादेवानुमित्यनुदयोपपत्ती अनुमितित्वादेस्तत्प्रतिबध्यतावच्छेदकत्वाऽकल्पने लाघवात् । अथ समानविषयत्वान्तर्भावेनानुमितित्वावच्छिन्नं प्रति पृथकप्रतिबंधकत्वकल्पनमेवावश्यकमिति चेत! न, भिन्नविषयकानुमितेरपि चक्षुर्मनोयोगादिविगमोत्तरमभ्युपगमात् । 'तथाप्यनुमित्साद्यूत्तेजकभेदेन विभिन्नरूपेण प्रतिबध्यप्रतिबंधकभाव आवश्यक' इति चेत् ! न, तत्तदिच्छानंतरोपजायमानभिन्नमानसे जातिविशेष स्वोकृत्य तदवच्छिन्नं प्रति मानसान्यसामग्याः प्रतिबंधकत्वकल्पनादनुमितित्वादेर्मानसवृत्तित्वकल्पनौचित्यात् । न च तत्तदिच्छाविरहकाले तत्तदिच्छानन्तरोपजायमानमानसापत्तिस्तादृशमानसं प्रति तत्तदिच्छानां हेतुत्वात् । न चैवं गौरवं, फलमुखत्वात् ।